Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

33. tarpaṇapuṭapākavidhiḥ

Adhikarana atha tarpaNapuTapAkavidhirnAma trayastriMsho~adhyAyaH pratij~jA (2) · Śloka 2

अथातस्तर्पणपुटपाकविधिं नामाध्यायं व्याख़्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः||२||

🔊 Audio coming soon

Adhikarana tarpaNapuTapAkArho~anarhashca (1) · Śloka 1

यन्नयनं परिताम्यति परिशुष्कं रूक्षं स्तब्धजिह्यं निम्नमाविलमवनद्धं शीर्णपक्ष्म तथा कृच्छ्रोन्मीलसिरोत्पातसिराहर्षार्जुनशुष्कतिमिराभिष्यन्दाधिमन्थान्यतोवातवातपर्ययशुष्काल्पशोफादिरोगातुरमपगतरागाश्रुदूषिकावेदनं तत्र तर्पणं योजयेत्| न त्वशान्तोपद्रवेऽक्ष्णि नातिशीतोष्णवर्षदुर्दिने न नस्यानर्हेषु च| तद्वत् पुटपाकमपि||१||

🔊 Audio coming soon

Adhikarana tarpaNapuTapAkayorvidhistarpaNauvadhadhAraNAvadhishca (2) · Śloka 2

अथ दिवसस्याष्टमे भागे गते शेषे वा निर्वातातपरजोधूमे कृतनीलपीतान्यतरजवनिके वेश्मनि जीर्णभक्तस्य सुख़शयनगतस्योत्तानस्य मृदितमाषपिष्टकल्केननेत्रकोशाद् बहिर्द्व्यङ्गुलोच्छ्रायाधारौ परिमण्डलावसम्बाधौ समावपरिस्राविणौ कृत्वा तत्रोष्णोदकप्रविलीनं निमीलिते नेत्रे यथास्वौषधविपक्वं क्षीरं सर्पिः सर्पिर्मण्डं वाऽवसेचयेत्| यावन्निमग्नान्यक्षिपक्ष्माणि भ्रूरोमाणि च| ततः शनैरस्योन्मेषमाचरतो मात्रां गणयेत्| वर्त्मजेषु विकारेषु शतं सन्धिजेषु त्रीणि शुक्लजेषु पञ्च कृष्णजेशु सप्त दृष्टिजेष्वष्टौ सहस्रमधिमन्थेषु| प्रतिदोषं तु वाते सहस्र पित्ते षट् शतानि कफे पञ्च स्वस्थकर्मणि च||२||

🔊 Audio coming soon

Adhikarana tarpaNasyAntarakarma (3) · Śloka 3

ततोऽस्यापाङ्गदेशे शलाकया द्वारं कृत्व स्नेहं भाजने स्रावयेत्| आधारौ चापनीय यवकल्केनाक्षिकोशौ प्रमृज्य स्नेहेरितकफोपशान्तये यथार्हं धूमं पाययेत्| सुख़ोदकप्रक्षालितमुख़ं चैनं यथाव्याधि भोजयेत्| आतपाकाशभस्वद्दर्शनानि च परिहरेत्||३||

🔊 Audio coming soon

Adhikarana tarpaNavRuttikAlamaryAdAdi (4) · Śloka 4

अनेन विधिना प्रत्यहं वायावोकान्तरं रक्तपित्तयोद्वर्यन्तरं कफे स्वस्थे च| यथा दोषोत्कर्षं संसर्गसन्निपातयोः| एवमेकाहं त्र्यहं पञ्चाहं व कुर्यादातृप्तेर्वा| तृप्तातृप्तातितृप्तलिङ्गानि तु क्रमात् स्वास्थ्यवातकफविकारैरादिशेत्||४||

🔊 Audio coming soon

Adhikarana puTapAkArharogAH puTapAkaBedAshca (5) · Śloka 5

यदा तु सम्यग्योप्राप्तं तर्पणं भवति तदा तद्विधेष्वेव रोगेषु पुटपाकं विदध्यात्| स त्रिविधः-स्नेहनो लेख़नः प्रसादनश्च||५||

🔊 Audio coming soon

Adhikarana snehapuTapAkadravyANi tadarhanetravikArashca (6) · Śloka 6

तत्र स्नेहनमानूपसाधारणमांसमेदोमज्जवसाभिः तथा स्वादुद्रव्यैश्च क्षीरपिष्टैः रूक्षेऽक्ष्णि प्रयोजयेत्||६||

🔊 Audio coming soon

Adhikarana leKanapuTapAkadravyANi tadarhanetravikArashca (7) · Śloka 7

लेख़नं जाङ्गलमृगपक्षिमांसयकृद्भिर्मुक्ताप्रवालशङ्ख़ताम्रायस्समुद्रफेनकासीसस्रोतोजसैन्धवादिभिश्च लेख़नद्रव्यैर्दधिमस्तुपिष्टैः स्निग्धे||७||

🔊 Audio coming soon

Adhikarana prasAdanapuTapAkadravyANi tadarhanetravikArAshca (8) · Śloka 8

प्रसादनीयं तु जाङ्गलमृगपक्षियकृद्धृदयमज्जवसाभिर्मधुरद्रव्यैश्च स्त्रीस्तन्यक्षीराज्यपिष्टैः| स तु वातपित्तरक्तदृष्टिदौर्बल्यव्रणनाशनः कफविरुद्धः||८||

🔊 Audio coming soon

Adhikarana puTapAkanirmANavidhistadrasadhAraNakAlo~avadhishca (9) · Śloka 9

अथ बिल्वमात्रं वेशवारीकृतं मांसपिण्डं तन्मात्रेणैवौषधपिण्डेन संसृज्यैरण्डवटोत्पलपत्रैः स्नेहनादिषु क्रमाद्वेष्टयित्वा कुशमुञ्जसूत्रान्यतमेन बध्नीयात्| मृत्प्रलेपनं चात्र द्व्यङ्गुलोत्सेधं कृत्वा धवधन्वमधूकन्यग्रोधकाश्मर्यराजादनार्जुननक्तमालपाटलीनामन्यतमैः काष्ठैः शकृता वा गोमहिषयोः पचेत्| अग्निवर्णञ्चैनमपनीय विगतमृत्सूत्रपत्रं कृत्वा वस्त्रेण पीडयेत्| तेन रसेन सायं तर्पणवत् पूरयेन्नेत्रे| धारयेच्च स्नेहने शतद्वयं मात्राणां लेख़ने शतं प्रसादने त्रीणि शतानि||९||

🔊 Audio coming soon

Adhikarana puTapAkAnantarakRutyantarpaNapuTapAkayoH parihArakAlAvadhyAdishca (10) · Śloka 10

तर्पणवदेव धूमपानं प्रसादनवर्ज्यम्| सुख़ोष्णौ च पूर्वौ| शीतः प्रसादनः| पुटपाकस्त्वेकाहं द्व्यहं त्र्यहं वा योज्यः| द्विगुणश्च तर्पणपुटपाकयोः परिहारः| बद्धाक्षैश्च मालतीमल्लिकाकुसुमैर्निवसेत्| तथा पक्वातिसारेऽपि पुटपाकस्यायमेव विधिरिति||१०||

🔊 Audio coming soon

Adhikarana AshcyotanAdivyApatprashamanam (11-12) · Śloka 12

भवति चात्र श्लोकः- सेकेऽञ्जने तर्पणे च पुटपाके च ये गदाः| जायेरन् विधिविभ्रंशाद्यथास्वं तान् प्रसाधयेत्||११|| इति श्रीवैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृतौ अष्टाङ्गसंग्रहसंहितायां सूत्रस्थाने तर्पणपुटपाकविधिर्नाम त्रयस्त्रिंशोऽध्यायः||१२||

🔊 Audio coming soon