अथातो नासारोगविज्ञानीयं नामाध्यायं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः||१||
🔊 Audio coming soon
Show commentary
शशिलेक व्याख्या (इन्दु कृत)
ऊर्ध्वाङ्गप्रसन्ङ्गेन नासारोगाणां हेत्वादिकं प्रदर्शयितुमध्याय आरभ्यते||१||
अथातो नासारोगविज्ञानीयं नामाध्यायं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः||१||
🔊 Audio coming soon
शशिलेक व्याख्या (इन्दु कृत)
ऊर्ध्वाङ्गप्रसन्ङ्गेन नासारोगाणां हेत्वादिकं प्रदर्शयितुमध्याय आरभ्यते||१||
अवश्यायानिलरजोभाष्यातिस्वप्नजागरैः| नीचात्युच्चोपधानेन पीतेनान्येन वारिणा| अत्यम्बुपानरमणच्छर्दिबाष्पग्रहादिभिः| क्रृद्धा वातोल्बणा दोषा नासायां स्त्यानताङ्गताः| जनयन्ति प्रतिश्यायं वर्धमानं क्षयप्रदम्||२||
🔊 Audio coming soon
शशिलेक व्याख्या (इन्दु कृत)
अवश्यायादिभिर्हेतुभिर्वातोल्बणास्त्रयो दोषा नासायां कुपितास्तत्रैव स्त्यानतां संहतत्वं प्राप्ताः प्रतिश्यायाख्यं रोगं जनयन्ति| स च वर्धमान उपेक्षया क्षयं ददाति| अवश्यायः प्रदोषे जलं शीतमन्तरिक्षात् पतत्| रजः क्षितिरजो धूलिः| अतिशब्दः स्वप्नजागराभ्यां सम्बध्यते| उपधानशब्दः शय्यायाः शिरोनिष्यन्दनपर्यायो नीचात्युच्चाभ्याम्| अन्येन विजातीयेन वारिणा पीतेनार्थादन्यस्मिन् पीते| अत्यम्बुपानेनात्यम्बुरमणेन छर्दिबाष्पग्रहादिभिश्च| आदिग्रहणेन वेगरोधादीनां ग्रहणम्||२||
तत्र वातात्प्रतिश्याये मुखशोषो भृशं क्षवः| घ्राणोपरोधनिस्तोदद्न्तशङ्खशिरोव्यथाः| कीटका इव सर्पन्ति मन्यते परितो भ्रुवौ| स्वरसादश्चिरात्पाकः शिशिराच्छकफस्रुतिः||३||
🔊 Audio coming soon
शशिलेक व्याख्या (इन्दु कृत)
तत्रेत्यादिनाऽधिकदोषविशेषवशेन प्रतिश्यायादीनां लक्षणमुच्यते| मुखशोषादिशिशिराच्छाफस्रुत्यन्तं वातप्रतिश्यायलक्षणम्| प्रतिश्यायानां पाक इहैव वक्ष्यमाणलक्षणः||३||
पित्तात्तृष्णाज्वरघ्राणपिटकासम्भवभ्रमाः| नासाग्रपाको रूक्षोष्णताम्रपीतकफस्रुतिः||४||
🔊 Audio coming soon
शशिलेक व्याख्या (इन्दु कृत)
तृष्णादिकं रूक्षादिगुणकफस्रुत्यन्तं पित्तात्प्रतिश्याये भवति||४||
कफात्कासो रुचिः श्वासो वमथुर्गात्रगौरवम्| माधुर्यं वदने कण्डूः स्निग्धशुक्लकफस्रुतिः||५||
🔊 Audio coming soon
शशिलेक व्याख्या (इन्दु कृत)
कासादिस्निग्धादिस्रुत्यन्तं कफात् प्रतिश्याये||५||
सर्वजो लक्षणैः सर्वैरकस्माद्धद्धिशान्तिमान्||६||
🔊 Audio coming soon
शशिलेक व्याख्या (इन्दु कृत)
यस्तु सर्वदोषजः प्रतिश्यायः सर्वैरनन्तरोक्तैर्वातादिप्रतिश्यायलक्षणैर्युक्तो भवति| स चाऽकस्मादहेतुर्हान्या वृद्ध्या च युक्तो भवति||६||
दुष्ट नासासिराः प्राप्य प्रतिश्याय़ं करोत्यसृक्| उरसः सुप्तता ताम्रनेत्रत्वं श्वासपूतिता| कण्डूः श्रोत्राक्षिनासासु पित्तोक्तं चात्र लक्षणम्||७||
🔊 Audio coming soon
शशिलेक व्याख्या (इन्दु कृत)
असृग्रक्तं वातादिदूषणैर्दुष्टं नासासिराः प्राप्य प्रतिश्यायं करोति| अत्र च रक्तप्रतिश्याये उरसः सुप्ततादि पित्तप्रतिश्यायोक्तं लक्षणम्||७||
सर्व एव प्रतिश्याया दुष्टतां यान्त्युपेक्षिताः| यथोक्तोपद्रवाधिक्यात्स सर्वेन्द्रियतापनः| साग्निसादज्वरश्वासकासोरःपार्श्ववेदनः| कुप्यत्यकस्माद्बहुशो मुखदौर्गन्ध्यशोषकृत्| नासिकाक्लेदसंशोषशुद्धिरोधकरो मुहुः| पूयोपमासिता रक्तग्रथितश्लेष्मसंस्रुतिः| मूर्च्छन्ति चात्र कृमयो दीर्घस्निग्धसिताणवः||८||
🔊 Audio coming soon
शशिलेक व्याख्या (इन्दु कृत)
सर्व एवानन्तरोक्ताः प्रतिश्याया उपेक्षिताः सन्तो दुष्टप्रतिश्यायताम् यान्ति| स च दुष्टप्रतिश्यायो यथोक्तानामुपद्रवाणां मुखशोषादीनां प्ररूषत्वेनाधिक्यात् सर्वेन्द्रियाणां तापन उपतापकरो भवति| अग्निसादादियुतश्च| स च दुष्टप्रतिश्यायोऽकस्मादिवातिशयेन कुप्यति मुखदौर्गन्ध्यादिकृच्च भवति| मुहुः प्रतिक्षणं नासिकायाः क्लेदश्च शोषश्च शुद्धिश्च रोधं करोति पूयोपमादिगुणश्लेष्मसंस्रुतिश्च भवति| अत्र च दुष्टप्रतिश्याये कफस्रुतौ दीर्घादिरूपाः कृमयो मूर्च्छन्ति समुच्छ्रायं लभन्ते अणवो लघुप्रमाणाः||८||
पक्वलिङ्गानि तेष्वङ्गलाघवं क्षवथोः शमः| श्लेष्मा सुचिक्कणः पीतो ज्ञानं च रसगन्धयोः||९||
🔊 Audio coming soon
शशिलेक व्याख्या (इन्दु कृत)
तेषु च सर्वेषु प्रतिश्यायेषु पक्वेष्वङ्गलाघवादिकं लिङ्गम्||९||
तीक्ष्णाघ्राणोपयोगार्करश्मिसूत्रतृणादिभिः| वातकोपिभिरन्यैर्वा नासिकातरुणास्थनि| विघट्टितेऽनिलः क्रुद्धो रुद्धः श्रृङ्गाटकं व्रजन्| निवृत्तः कुरुतेऽत्यर्थं क्षवथुं स भृशक्षवः||१०||
🔊 Audio coming soon
शशिलेक व्याख्या (इन्दु कृत)
तीक्ष्णाघ्राणादिभिर्नासिकायास्तरुणास्थनि मृद्वस्थनि विघट्टिते क्षुण्णे सत्यनिलः क्रुद्धो यदि केनचिद्धेतुना रुद्धो भवति तदा स रुद्धः सन् बहिः प्रतिनिवृत्त्यान्तः श्रृङ्गाटकाख्यं नासास्रोतो व्रजन्नेव निवृत्तः सन्नत्यर्थं क्षवथुः कुरुते| स रोगो नाम्ना भृशक्षवः| उपयोगशब्दस्तीक्ष्णेन सम्बध्यते| आदिशब्द एवञ्जातीयग्रहणार्थः||१०||
शोषयन्नासिकास्रोतः कफं च कुरुतेऽनिलः| शूकपूर्णाभनासात्वं कृच्छ्रादुच्छ्वसनं ततः| स्मृतोऽसौ नासिकाशोषः||११||
🔊 Audio coming soon
शशिलेक व्याख्या (इन्दु कृत)
स्वहेतुभिः क्रुद्धोऽनिलो नासिकास्रोतः शोषयन् कफञ्च शोषयन् प्रथमं शूकपूर्णाभनासात्वं कुरुते| ततः कृच्छ्रादुछ्वसनमसौ रोगो नाम्ना नासिकाशोषः स्मृतः||११||
ंआसानाहे तु जायते| नद्धत्वमिव नासायाः श्लेष्मरुद्धेन वायुना| निःश्वासोच्छ्वाससंरोधात्स्रोतसी संवृते इव||१२||
🔊 Audio coming soon
शशिलेक व्याख्या (इन्दु कृत)
नासानाहाख्ये तु रोगे नासाया नद्धत्वमिव जायते| केन हेतुनेत्याह-श्लेष्मरुद्धेन वायुना| तत्र च नासानाहे निःश्वासोच्छ्वासयो रोधान्नासास्रोतसी संवृते पिहिते इव भवतः||१२||
पचेन्नासापुटे पित्तं त्वङ्मांसं दाहशूलवत्| स घ्राणपाकः||१३||
🔊 Audio coming soon
शशिलेक व्याख्या (इन्दु कृत)
पित्तं स्वहेतुना नासापुटे कुपितं दाहशुलाभ्यां युक्तं तत्रैव त्वङ्मांसं पचेत् स रोगो नाम्ना घ्राणपाकः||१३||
स्रावस्तु तत्संज्ञं श्लेष्मसम्भवः| अच्छो जलोपमोऽजस्रं विशेषान्निशि जायते||१४||
🔊 Audio coming soon
शशिलेक व्याख्या (इन्दु कृत)
यस्तु श्लेष्मसम्भवोऽच्छत्वादिगुणो नासायाः स्रावः स तत्संज्ञे रोगो नाम्ना स्रावः| अजस्रं सन्ततम्| स च स्रावो निशि विशेषाज्जायते||१४||
कफः प्रवृद्धो नासायां रुद्ध्वा स्रोतांस्यवीनसम्| कुर्यात्सघुर्घुरश्वासं पीनसाधिकवेदनम्| अवेरिव स्रवत्यस्य प्रक्लिन्ना तेन नासिका| अजस्रं पिच्छिलं शीतं पक्वं सिङ्घाणकं घनम्||१५||
🔊 Audio coming soon
शशिलेक व्याख्या (इन्दु कृत)
नासायां स्वहेतोः प्रवृद्धः कफः स्रोतांसि रुद्ध्वा अवीनसाख्यं रोगं कुर्यात्| किम्भूतमाह-सघुर्घुरश्वासम्| पीनसाख्याद्रोगादधिकवेदनम्| तेनावीनसाख्येन प्रक्लिन्ना सती नासिका अवेर्मेषस्येवाजस्रमविच्छिन्नं स्रवति| किं स्रवतीत्याह-पिच्छिलादिगुणं सिङ्घाणकं नासाकफं स्रवति||१५||
रक्तेन नासा दग्धेव बाह्यान्तः स्पर्शनासहा| भवेद्धूमोपमोच्छ्वासा सा दीप्तिर्दहतीव च||१६||
🔊 Audio coming soon
शशिलेक व्याख्या (इन्दु कृत)
रक्तेन क्रुद्धेन दग्धेव नासा भवेद्बाह्यान्तःस्पर्शनासहा धूमोपमोच्छ्वासा च भवेत्| स रोगो नाम्ना दीप्तिः| सम्भवाच्चाश्रयं दहतीव||१६||
तालुमूले मलैर्दुष्टे मारुतो मुखनासिकात्| श्लेष्मा च पूतिर्निर्गच्छेत्पूतिनासं वदन्ति तम्||१७||
🔊 Audio coming soon
शशिलेक व्याख्या (इन्दु कृत)
तालुमूलमाश्रित्य मलैर्वातादिभिर्दुष्टे मुखाच्च नासिकातश्च पूतिर्मारुते निर्गच्छेत् कफश्च पूतिर्निर्गच्छेत्| तं रोगमाचार्याः पूतिनासं नाम्ना वदन्ति||१७||
निचयादभिघाताद्वा पूयासृङ्नासिका स्रवेत्| तत्पूयरक्तमाख्यातं शिरोदाहरुजाकरम्||१८||
🔊 Audio coming soon
शशिलेक व्याख्या (इन्दु कृत)
निचयात् सन्निपातादभिघाताद्वा हेतोर्नासिका पूयमसृक्च स्रवेत्| तत्पूयासृक् शिरोदाहरुजाकरम्| नाम्ना पूयरक्तमित्याचार्यैराख्यातम्|| १८||
पित्तश्लेष्मावरुद्धोन्तर्नासायां शोषयेन्मरुत्| कफं स शुष्कः पुटतां प्राप्नोति पुटकं तु तत्||१९||
🔊 Audio coming soon
शशिलेक व्याख्या (इन्दु कृत)
पित्तश्लेष्मभ्यां कर्तृभ्यामेवान्तर्नासं वायुरवरुद्धः कफं शोषयेत्| स कफः शुष्कः पुटतां शुष्कत्वाच्चर्माकृतित्वं प्राप्नोति| एवंविधो रोगः पुटकमित्युच्यते|| १९||
अर्शोर्बुदानि विभजेद्दोषलिङ्गैर्यथायथम्||२०||
🔊 Audio coming soon
शशिलेक व्याख्या (इन्दु कृत)
अर्शांस्यर्बुदानि च नाम्ना प्रसिद्धान् मासाङ्कुरान्यायथं यथास्वमारम्भकवातादिदोषलिङ्गैर्विभजेत्| बहुवचनं मांसाङ्कुरणामनेकत्वापेक्षया ||२०||
सर्वेषु कृच्छ्रोच्छ्वसनं पीनसं प्रततं क्षुतम्| सानुनासिकवादित्वं पूतिनासः शिरोव्यथा||२१||
🔊 Audio coming soon
शशिलेक व्याख्या (इन्दु कृत)
सर्वेषु च नासारोगेषु कृच्छ्रोच्छ्वसनादि साधारणं लिङ्गम्||२१||
अष्टादशानामित्येषां यापयेद्दष्टपीनसम्||२७|| इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृतावष्टाङ्गसंग्रहसंहितायामुत्तरतन्त्रे नासरोगविज्ञानीयो नाम त्रयोविंशोऽध्यायः||२३||
🔊 Audio coming soon
शशिलेक व्याख्या (इन्दु कृत)
एषाञ्च रोगाणां वातप्रतिश्याय, पित्तप्रतिश्याय, कफप्रतिश्याय, भृशक्षव, नासाशोष, नासानाह, घ्राणपाक, स्राव, अवीनस, दीप्ति, पूतिनास, पूयरक्त, पुटक, अर्श, अर्बुदाख्या अष्टादश रोगा उक्ताः| तेषां रोगाणां मध्ये दुष्टपीनसं यापयेत्| शेषाः साध्या इत्यर्थादिति|| २७|| इति श्रीमन्महामहोपाध्यायेन्दुविरचितायामष्टाङ्गसंग्रहव्याख्यायां शशिलेखायामुत्तरतन्त्रे त्रयोविंशोऽध्यायः||