Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

8. rōgabhiṣagjitīyavimānam

Adhikarana 1 (1-2) · Śloka 2

अथातो रोगभिषग्जितीयं विमानं व्याख्यास्यामः||१|| इति ह स्माह भगवानात्रेयः||२||

🔊 Audio coming soon

Adhikarana 2 (3) · Śloka 3

बुद्धिमानात्मनः कार्यगुरुलाघवं कर्मफलमनुबन्धं देशकालौ च विदित्वा युक्तिदर्शनाद्भिषग्बुभूषुः शास्त्रमेवादितः परीक्षेत| विविधानि हि शास्त्राणि भिषजां प्रचरन्ति लोके; तत्र यन्मन्येत सुमहद्यशस्विधीरपुरुषासेवितमर्थबहुलमाप्तजनपूजितं त्रिविधशिष्यबुद्धिहितमपगतपुनरुक्तदोषमार्षं सुप्रणीतसूत्रभाष्यसङ्ग्रहक्रमं स्वाधारमनवपतितशब्दमकष्टशब्दं पुष्कलाभिधानं क्रमागतार्थमर्थतत्त्वविनिश्चयप्रधानं सङ्गतार्थमसङ्कुलप्रकरणमाशुप्रबोधकं लक्षणवच्चोदाहरणवच्च, तदभिप्रपद्येत शास्त्रम्| शास्त्रं ह्येवंविधममल इवादित्यस्तमो विधूय प्रकाशयति सर्वम्||३||

🔊 Audio coming soon

Adhikarana 3 (4) · Śloka 4

ततोऽनन्तरमाचार्यं परीक्षेत; तद्यथा- पर्यवदातश्रुतं परिदृष्टकर्माणं दक्षं दक्षिणं शुचिं जितहस्तमुपकरणवन्तं सर्वेन्द्रियोपपन्नं प्रकृतिज्ञं प्रतिपत्तिज्ञमनुपस्कृतविद्यमनहङ्कृतमनसूयकमकोपनं क्लेशक्षमं शिष्यवत्सलमध्यापकं ज्ञापनसमर्थं चेति| एवङ्गुणो ह्याचार्यः सुक्षेत्रमार्तवो मेघ इव शस्यगुणैः सुशिष्यमाशु वैद्यगुणैः सम्पादयति||४||

🔊 Audio coming soon

Adhikarana 4 (5) · Śloka 5

तमुपसृत्यारिराधयिषुरुपचरेदग्निवच्च देववच्च राजवच्च पितृवच्च भर्तृवच्चाप्रमत्तः| ततस्तत्प्रसादात् कृत्स्नं शास्त्रमधिगम्य शास्त्रस्य दृढतायामभिधानस्य सौष्ठवेऽर्थस्य विज्ञाने वचनशक्तौ च भूयो भूयः प्रयतेत सम्यक्||५||

🔊 Audio coming soon

Adhikarana 5 (6-7) · Śloka 7

तत्रोपायाननुव्याख्यास्यामः- अध्ययनम्, अध्यापनं, तद्विद्यसम्भाषा चेत्युपायाः||६|| तत्रायमध्ययनविधिः- कल्यः कृतक्षणः प्रातरुत्थायोपव्यूषं वा कृत्वाऽऽवश्यकमुपस्पृश्योदकं देवर्षिगोब्राह्मणगुरुवृद्धसिद्धाचार्येभ्यो नमस्कृत्य समे शुचौ देशे सुखोपविष्टो मनःपुरःसराभिर्वाग्भिःसूत्रमनुक्रामन् पुनः पुनरावर्तयेद् बुद्ध्वा सम्यगनुप्रविश्यार्थतत्त्वं स्वदोषपरिहारार्थं परदोषप्रमाणार्थं च; एवं मध्यन्दिनेऽपराह्णे रात्रौ च शश्वदपरिहापयन्नध्ययनमभ्यस्येत्| इत्यध्ययनविधिः||७||

🔊 Audio coming soon

Adhikarana 6 (8) · Śloka 8

अथाध्यापनविधिः- अध्यापने कृतबुद्धिराचार्यः शिष्यमेवादितः परीक्षेत; तद्यथा- प्रशान्तमार्यप्रकृतिकमक्षुद्रकर्माणमृजुचक्षुर्मुखनासावंशं तनुरक्तविशदजिह्वमविकृतदन्तौष्ठममिन्मिनं धृतिमन्तमनहङ्कृतं मेधाविनं वितर्कस्मृतिसम्पन्नमुदारसत्त्वं तद्विद्यकुलजमथवा तद्विद्यवृत्तं तत्त्वाभिनिवेशिनमव्यङ्गमव्यापन्नेन्द्रियं निभृतमनुद्धतमर्थतत्त्वभावकमकोपनमव्यसनिनं शीलशौचाचारानुरागदाक्ष्यप्रादक्षिण्योपपन्नमध्ययनाभिकाममर्थविज्ञाने कर्मदर्शने चानन्यकार्यमलुब्धमनलसं सर्वभूतहितैषिणमाचार्यसर्वानुशिष्टिप्रतिकरमनुरक्तं च, एवङ्गुणसमुदितमध्याप्यमाहुः||८||

🔊 Audio coming soon

Adhikarana 7 (9-10) · Śloka 10

एवंविधमध्ययनार्थिनमुपस्थितमारिराधयिषुमाचार्योऽनुभाषेत - उदगयने शुक्लपक्षे प्रशस्तेऽहनि तिष्यहस्तश्रवणाश्वयुजामन्यतमेन नक्षत्रेण योगमुपगते भगवति शशिनि कल्याणे कल्याणे च करणे मैत्रे मुहूर्ते मुण्डः कृतोपवासः स्नातः काषायवस्त्रसंवीतः सगन्धहस्तः समिधोऽग्निमाज्यमुपलेपनमुदकुम्भान् माल्यदामदीपहिरण्यहेमरजतमणिमुक्ताविद्रुमक्षौमपरिधीन् कुशलाजसर्षपाक्षतांश्च शुक्लानि सुमनांसि ग्रथिताग्रथितानि मेध्यान् भक्ष्यान् गन्धांश्च घृष्टानादायोपतिष्ठस्वेति||९|| स तथा कुर्यात्||१०||

🔊 Audio coming soon

Adhikarana 8 (11-12) · Śloka 12

तमुपस्थितमाज्ञाय समे शुचौ देशे प्राक्प्रवणे उदक्प्रवणे वा चतुष्किष्कुमात्रं चतुरस्रं स्थण्डिलं गोमयोदकेनोपलिप्तं कुशास्तीर्णं सुपरिहितं परिधिभिश्चतुर्दिशं यथोक्तचन्दनोदकुम्भक्षौमहेमहिरण्यरजतमणिमुक्ताविद्रुमालङ्कृतं मेध्यभक्ष्यगन्धशुक्लपुष्पलाजसर्षपाक्षतोपशोभितं कृत्वा, तत्र पालाशीभिरैङ्गुदीभिरौदुम्बरीभिर्माधुकीभिर्वा समिद्भिरग्निमुपसमाधाय प्राङ्मुखः शुचिरध्ययनविधिमनुविधाय मधुसर्पिर्भ्यां त्रिस्त्रिर्जुहुयादग्निमाशीःसम्प्रयुक्तैर्मन्त्रैर्ब्रह्माणमग्निं धन्वन्तरिं प्रजापतिमश्विनाविन्द्रमृषींश्च सूत्रकारानभिमन्त्रयमाणः पूर्वं स्वाहेति||११|| शिष्यश्चैनमन्वालभेत| हुत्वा च प्रदक्षिणमग्निमनुपरिक्रामेत्| परिक्रम्य ब्राह्मणान् स्वस्ति वाचयेत्; भिषजश्चाभिपूजयेत्||१२||

🔊 Audio coming soon

Adhikarana 9 (13) · Śloka 13

अथैनमग्निसकाशे ब्राह्मणसकाशे भिषक्सकाशे चानुशिष्यात्- ब्रह्मचारिणा श्मश्रुधारिण सत्यवादिनाऽमांसादेन मेध्यसेविना निर्मत्सरेणाशस्त्रधारिणा च भवितव्यं, न च ते मद्वचनात् किञ्चिदकार्यं स्यादन्यत्र राजद्विष्टात् प्राणहराद्विपुलादधर्म्यादनर्थसम्प्रयुक्ताद्वाऽप्यर्थात्; मदर्पणेन मत्प्रधानेन मदधीनेन मत्प्रियहितानुवर्तिना च शश्वद्भवितव्यं, पुत्रवद्दासवदर्थिवच्चोपचरताऽनुवस्तव्योऽहम् , अनुत्सेकेनावहितेनानन्यमनसा विनीतेनावेक्ष्यावेक्ष्यकारिणाऽनसूयकेन चाभ्यनुज्ञातेन प्रविचरितव्यम्, अनुज्ञातेन (चाननुज्ञातेन च) प्रविचरता पूर्वं गुर्वर्थोपाहरणे यथाशक्ति प्रयतितव्यं, कर्मसिद्धिमर्थसिद्धं यशोलाभं प्रेत्य च स्वर्गमिच्छता भिषजा त्वया गोब्राह्मणमादौ कृत्वा सर्वप्राणभृतां शर्माशासितव्यमहरहरुत्तिष्ठता चोपविशता च, सर्वात्मना चातुराणामारोग्याय प्रयतितव्यं, जीवितहेतोरपि चातुरेभ्यो नाभिद्रोग्धव्यं, मनसाऽपि च परस्त्रियो नाभिगमनीयास्तथा सर्वमेव परस्वं, निभृतवेशपरिच्छदेन भवितव्यम्, अशौण्डेनापापेनापापसहायेन च, श्लक्ष्णशुक्लधर्म्यशर्म्यधन्यसत्यहितमितवचसा देशकालविचारिणा स्मृतिमता ज्ञानोत्थानोपकरणसम्पत्सु नित्यं यत्नवता च; न च कदाचिद्राजद्विष्टानां राजद्वेषिणां वा महाजनद्विष्टानां महाजनद्वेषिणां वाऽप्यौषधमनुविधातव्यं, तथा सर्वेषामत्यर्थविकृतदुष्टदुःखशीलाचारोपचाराणामनपवादप्रतिकारणां मुमूर्षूणां च, तथैवासन्निहितेश्वराणां स्त्रीणामनध्यक्षाणां वा; न च कदाचित् स्त्रीदत्तमामिषमादातव्यमननुज्ञातं भर्त्राऽथवाऽध्यक्षेण, आतुरकुलं चानुप्रविशता विदितेनानुमतप्रवेशिना सार्धं पुरुषेण सुसंवीतेनावाक्शिरसा स्मृतिमता स्तिमितेनावेक्ष्यावेक्ष्य मनसा सर्वमाचरता सम्यगनुप्रवेष्टव्यम्, अनुप्रविश्य च वाङ्मनोबुद्धीन्द्रियाणि न क्वचित् प्रणिधातव्यान्यन्यत्रातुरादातुरोपकारार्थादातुरगतेष्वन्येषु वा भावेषु, न चातुरकुलप्रवृत्तयो बहिर्निश्चारयितव्याः, ह्रसितं चायुषः प्रमाणमातुरस्य जानताऽपि त्वया न वर्णयितव्यं तत्र यत्रोच्यमानमातुरस्यान्यस्य वाऽप्युपघाताय सम्पद्यते; ज्ञानवताऽपि च नात्यर्थमात्मनो ज्ञाने विकत्थितव्यम्, आप्तादपि हि विकत्थमानादत्यर्थमुद्विजन्त्यनेके||१३||

🔊 Audio coming soon

Adhikarana 10 (14) · Śloka 14

न चैव ह्यस्ति सुतरमायुर्वेदस्य पारं, तस्मादप्रमत्तः शश्वदभियोगमस्मिन् गच्छेत्, एतच्च कार्यम्, एवम्भूयश्च वृत्तसौष्ठवमनसूयता परेभ्योऽप्यागमयितव्यं, कृत्स्नो हि लोको बुद्धिमतामाचार्यः शत्रुश्चाबुद्धिमताम्, अतश्चाभिसमीक्ष्य बुद्धिमताऽमित्रस्यापि धन्यं यशस्यमायुष्यं पौष्टिकं लौक्यमभ्युपदिशतो वचः श्रोतव्यमनुविधातव्यं चेति| अतः परमिदं ब्रूयात्- देवताग्निद्विजगुरुवृद्धसिद्धाचार्येषु ते नित्यं सम्यग्वर्तितव्यं, तेषु ते सम्यग्वर्तमानस्यायमग्निः सर्वगन्धरसरत्नबीजानि यथेरिताश्च देवताः शिवाय स्युः, अतोऽन्यथा वर्तमानस्याशिवायेति| एवं ब्रुवति चाचार्ये शिष्यः ‘तथा’ इति ब्रूयात्| यथोपदेशं च कुर्वन्नध्याप्यः, अतोऽन्यथा त्वनध्याप्यः| अध्याप्यमध्यापयन् ह्याचार्यो यथोक्तैश्चाध्यापनफलैर्योगमाप्नोत्यन्यैश्चानुक्तैः श्रेयस्करैर्गुणैः शिष्यमात्मानं च युनक्ति| इत्यध्यापनविधिरुक्तः||१४||

🔊 Audio coming soon

Adhikarana 11 (15-16) · Śloka 16

सम्भाषाविधिमत ऊर्ध्वं व्याख्यास्यामः- भिषक् भिषजा सह सम्भाषेत| तद्विद्यसम्भाषा हि ज्ञानाभियोगसंहर्षकरी भवति, वैशारद्यमपि चाभिनिर्वर्तयति, वचनशक्तिमपि चाधत्ते, यशश्चाभिदीपयति, पूर्वश्रुते च सन्देहवतः पुनः श्रवणाच्छ्रुतसंशयमपकर्षति, श्रुते चासन्देहवतो भूयोऽध्यवसायमभिनिर्वर्तयति, अश्रुतमपि च कञ्चिदर्थं श्रोत्रविषयमापादयति, यच्चाचार्यः शिष्याय शुश्रूषवे प्रसन्नः क्रमेणोपदिशति गुह्याभिमतमर्थजातं तत् परस्परेण सह जल्पन् पिण्डेन विजिगीषुराह संहर्षात्, तस्मात्तद्विद्यसम्भाषामभिप्रशंसन्ति कुशलाः||१५|| द्विविधा तु खलु तद्विद्यसम्भाषा भवति- सन्धायसम्भाषा, विगृह्यसम्भाषा च||१६||

🔊 Audio coming soon

Adhikarana 12 (17) · Śloka 17

तत्र ज्ञानविज्ञानवचनप्रतिवचनशक्तिसम्पन्नेनाकोपनेनानुपस्कृतविद्येनानसूयकेनानुनेयेनानुनयकोविदेन क्लेशक्षमेण प्रियसम्भाषणेन च सह सन्धायसम्भाषा विधीयते| तथाविधेन सह कथयन् विस्रब्धः कथयेत्, पृच्छेदपि च विस्रब्धः, पृच्छते चास्मै विस्रब्धाय विशदमर्थं ब्रूयात्, न च निग्रहभयादुद्विजेत, निगृह्य चैनं न हृष्येत्, न च परेषु विकत्थेत, न च मोहादेकान्तग्राही स्यात्, न चाविदितमर्थमनुवर्णयेत्, सम्यक् चानुनयेनानुनयेत्, तत्र चावहितः स्यात्| इत्यनुलोमसम्भाषाविधिः||१७||

🔊 Audio coming soon

Adhikarana 13 (18) · Śloka 18

अत ऊर्ध्वमितरेण सह विगृह्य सम्भाषायां जल्पेच्छ्रेयसा योगमात्मनः पश्यन्| प्रागेव च जल्पाज्जल्पान्तरं परावरान्तरं परिषद्विशेषांश्च सम्यक् परीक्षेत| सम्यक्परीक्षा हि बुद्धिमतां कार्यप्रवृत्तिनिवृत्तिकालौ शंसति, तस्मात् परीक्षामभिप्रशंसन्ति कुशलाः| परीक्षमाणस्तु खलु परावरान्तरमिमान् जल्पकगुणाञ् श्रेयस्करान्दोषवतश्च परीक्षेत सम्यक्; तद्यथा- श्रुतं विज्ञानं धारणं प्रतिभानं वचनशक्तिरिति, एतान् गुणान् श्रेयस्करानाहुः; इमान् पुनर्दोषवतः, तद्यथा- कोपनत्वमवैशारद्यं भीरुत्वमधारणत्वमनवहितत्वमिति| एतान् गुणान् गुरुलाघवतः परस्य चैवात्मनश्च तुलयेत्||१८||

🔊 Audio coming soon

Adhikarana 14 (19-20) · Śloka 20

तत्र त्रिविधः परः सम्पद्यते- प्रवरः, प्रत्यवरः, समो वा, गुणविनिक्षेपतः; नत्वेव कार्त्स्न्येन||१९|| परिषत्तु खलु द्विविधा- ज्ञानवती, मूढपरिषच्च| सैव द्विविधा सती त्रिविधा पुनरनेन कारणविभागेन- सुहृत्परिषत्, उदासीनपरिषत्, प्रतिनिविष्टपरिषच्चेति | तत्र प्रतिनिविष्टायां परिषदि ज्ञानविज्ञानवचनप्रतिवचनशक्तिसम्पन्नायां मूढायां वा न कथं चित् केनचित् सह जल्पो विधीयते; मूढायां तु सुहृत्परिषद्युदासीनायां वा ज्ञानविज्ञानवचनप्रतिवचनशक्तीरन्तरेणाप्यदीप्तयशसा महाजनविद्विष्टेनापि सह जल्पो विधीयते| तद्विधेन च सह कथयता आविद्धदीर्घसूत्रसङ्कुलैर्वाक्यदण्डकैः कथयितव्यम्, अतिहृष्टं मुहुर्मुहुरुपहसता परं निरूपयता च पर्षदमाकारैर्ब्रुवतश्चास्य वाक्यावकाशो न देयः; कष्टशब्दं च ब्रुवता वक्तव्यो नोच्यते, अथवा पुनर्हीना ते प्रतिज्ञा, इति| पुनश्चाहू(ह्व)यमानः प्रतिवक्तव्यः- परिसंवत्सरो भवान् शिक्षस्व तावत्; न त्वया गुरुरुपासितो नूनम्, अथवा पर्याप्तमेतावत्ते; सकृदपि हि परिक्षेपिकं निहतं निहतमाहुरिति नास्य योगः कर्तव्यः कथञ्चित्| अप्येवं श्रेयसा सह विगृह्य वक्तव्यमित्याहुरेके; नत्वेवं ज्यायसा सह विग्रहं प्रशंसन्ति कुशलाः||२०||

🔊 Audio coming soon

Adhikarana 15 (21-24) · Śloka 24

प्रत्यवरेण तु सह समानाभिमतेन वा विगृह्य जल्पता सुहृत्परिषदि कथयितव्यम्, अथवाऽप्युदासीनपरिषद्यवधानश्रवणज्ञानविज्ञानोपधारणवचनप्रतिवचनशक्तिसम्पन्नायां कथयता चावहितेन परस्य साद्गुण्यदोषबलमवेक्षितव्यं, समवेक्ष्य च यत्रैनं श्रेष्ठं मन्येत नास्य तत्र जल्पं योजयेदनाविष्कृतमयोगं कुर्वन्; यत्र त्वेनमवरं मन्येत तत्रैवैनमाशु निगृह्णीयात्| तत्र खल्विमे प्रत्यवराणामाशु निग्रहे भवन्त्युपायाः; तद्यथा- श्रुतहीनं महता सूत्रपाठेनाभिभवेत्, विज्ञानहीनं पुनः कष्टशब्देन वाक्येन, वाक्यधारणाहीनमाविद्धदीर्घसूत्रसङ्कुलैर्वाक्यदण्डकैः, प्रतिभाहीनं पुनर्वचनेनैकविधेनानेकार्थवाचिना , वचनशक्तिहीनमर्धोक्तस्य वाक्यस्याक्षेपेण , अविशारदमपत्रपणेन, कोपनमायासनेन, भीरुं वित्रासनेन, अनवहितं नियमनेनेति| एवमेतैरुपायैः परमवरमभिभवेच्छीघ्रम्||२१|| तत्र श्लोकौ- विगृह्य कथयेद्युक्त्या युक्तं च न निवारयेत्| विगृह्यभाषा तीव्रं हि केषाञ्चिद्द्रोहमावहेत्||२२|| नाकार्यमस्ति क्रुद्धस्य नावाच्यमपि विद्यते| कुशला नाभिनन्दन्ति कलहं समितौ सताम्||२३|| एवं प्रवृत्ते वादे कुर्यात्||२४||

🔊 Audio coming soon

Adhikarana 16 (25) · Śloka 25

प्रागेव तावदिदं कर्तुं यतेत- सन्धाय पर्षदाऽयनभूतमात्मनः प्रकरणमादेशयितव्यं, यद्वा परस्य भृशदुर्गं स्यात्, पक्षमथवा परस्य भृशं विमुखमानयेत्; परिषदि चोपसंहितायामशक्यमस्माभिर्वक्तुम्, एषैव ते परिषद्यथेष्टं यथायोगं यथाभिप्रायं वादं वादमर्यादां च स्थापयिष्यतीत्युक्त्वा तूष्णीमासीत||२५||

🔊 Audio coming soon

Adhikarana 17 (26) · Śloka 26

तत्रेदं वादमर्यादालक्षणं भवति- इदं वाच्यम्, इदमवाच्यम्, एवं पराजितो भवतीति||२६||

🔊 Audio coming soon

Adhikarana 18 (27) · Śloka 27

इमानि तु खलु पदानि भिषग्वादमार्गज्ञानार्थमधिगम्यानि भवन्ति; तद्यथा- वादः, द्रव्यं, गुणाः, कर्म, सामान्यं, विशेषः, समवायः, प्रतिज्ञा, स्थापना, प्रतिष्ठापना, हेतुः, दृष्टान्तः, उपनयः, निगमनम्, उत्तरं, सिद्धान्तः, शब्दः, प्रत्यक्षम्, अनुमानम्, ऐतिह्यम्, औपम्यं, संशयः, प्रयोजनं, सव्यभिचारं, जिज्ञासा, व्यवसायः, अर्थप्राप्तिः, सम्भवः, अनुयोज्यम्, अननुयोज्यम्, अनुयोगः, प्रत्यनुयोगः, वाक्यदोषः, वाक्यप्रशंसा, छलम्, अहेतुः, अतीतकालम्, उपालम्भः, परिहारः, प्रतिज्ञाहानिः, अभ्यनुज्ञा, हेत्वन्तरम्, अर्थान्तरं, निग्रहस्थानमिति||२७||

🔊 Audio coming soon

Adhikarana 19 (28) · Śloka 28

तत्र वादो नाम स यत् परेण सह शास्त्रपूर्वकं विगृह्य कथयति| स च द्विविधः सङ्ग्रहेण- जल्पः, वितण्डा च| तत्र पक्षाश्रितयोर्वचनं जल्पः, जल्पविपर्ययो वितण्डा| यथा- एकस्य पक्षः पुनर्भवोऽस्तीति, नास्तीत्यपरस्य; तौ च स्वस्वपक्षहेतुभिः स्वस्वपक्षं स्थापयतः, परपक्षमुद्भावयतः, एष जल्पः| जल्पविपर्ययो वितण्डा| वितण्डा नाम परपक्षे दोषवचनमात्रमेव||२८||

🔊 Audio coming soon

Adhikarana 20 (29-30) · Śloka 30

द्रव्य-गुण-कर्म-सामान्य-विशेष-समवायाः स्वलक्षणैः श्लोकस्थाने पूर्वमुक्ताः||२९|| अथ प्रतिज्ञा- प्रतिज्ञा नाम साध्यवचनं; यथा- नित्यः पुरुष इति||३०||

🔊 Audio coming soon

Adhikarana 21 (31) · Śloka 31

अथ स्थापना- स्थापना नाम तस्या एव प्रतिज्ञाया हेतुदृष्टान्तोपनयनिगमनैः स्थापना| पूर्वं हि प्रतिज्ञा, पश्चात् स्थापना, किं ह्यप्रतिज्ञातं स्थापयिष्यति; यथा- नित्यः पुरुष इति प्रतिज्ञा; हेतुः- अकृतकत्वादिति; दृष्टान्तः - यथाऽऽकाशमिति; उपनयः- यथा चाकृतकमाकाशं, तच्च नित्यं, तथा पुरुष इति; निगमनं- तस्मान्नित्य इति||३१||

🔊 Audio coming soon

Adhikarana 22 (32) · Śloka 32

अथ प्रतिष्ठापना- प्रतिष्ठापना नाम या तस्या एव परप्रतिज्ञाया विपरीतार्थस्थापना| यथा- अनित्यः पुरुष इति प्रतिज्ञा ; हेतुः- ऐन्द्रियकत्वादिति; दृष्टान्तः- यथा घट इति, उपनयो- यथा घट ऐन्द्रियकः स चानित्यः, तथा चायमिति; निगमनं- तस्मादनित्य इति||३२||

🔊 Audio coming soon

Adhikarana 23 (33) · Śloka 33

अथ हेतुः- हेतुर्नामोपलब्धिकारणं; तत् प्रत्यक्षम्, अनुमानम्, ऐतिह्यम्, औपम्यमिति; एभिर्हेतुभिर्यदुपलभ्यते तत् तत्त्वम्||३३||

🔊 Audio coming soon

Adhikarana 24 (34) · Śloka 34

अथ दृष्टान्तः- दृष्टान्तो नाम यत्र मूर्खविदुषां बुद्धिसाम्यं, यो वर्ण्यं वर्णयति | यथा- अग्निरुष्णः, द्रवमुदकं, स्थिरा पृथिवी, आदित्यः प्रकाशक इति; यथा आदित्यः प्रकाशकस्तथा साङ्ख्यज्ञानं प्रकाशकमिति||३४||

🔊 Audio coming soon

Adhikarana 25 (35-36) · Śloka 36

उपनयो निगमनं चोक्तं स्थापनाप्रतिष्ठापनाव्याख्यायाम्||३५|| अथोत्तरम्- उत्तरं नाम साधर्म्योपदिष्टे हेतौ वैधर्म्यवचनं, वैधर्म्योपदिष्टे वा हेतौ साधर्म्यवचनम्| यथा- ‘हेतुसधर्माणो विकाराः, शीतकस्य हि व्याधेर्हेतुभिः साधर्म्यं हिमशिशिरवातसंस्पर्शाः’, इति ब्रुवतः परो ब्रूयात्- हेतुविधर्माणो विकाराः, यथा शरीरावयवानां दाहौष्ण्यकोथप्रपचने हेतुवैधर्म्यं हिमशिशिरवातसंस्पर्शा इति| एतत् सविपर्ययमुत्तरम्||३६||

🔊 Audio coming soon

Adhikarana 26 (37) · Śloka 37

अथ सिद्धान्तः- सिद्धान्तो नाम स यः परीक्षकैर्बहुविधं परीक्ष्य हेतुभिश्च साधयित्वा स्थाप्यते निर्णयः| स चतुर्विधः- सर्वतन्त्रसिद्धान्तः, प्रतितन्त्रसिद्धान्तः, अधिकरणसिद्धान्तः, अभ्युपगमसिद्धान्तश्चेति| तत्र सर्वतन्त्रसिद्धान्तो नाम तस्मिंस्तस्मिन् सर्वस्मिंस्तन्त्रे तत्तत् प्रसिद्धं; यथा सन्ति निदानानि, सन्ति व्याधयः, सन्ति सिद्ध्युपायाः साध्यानामिति| प्रतितन्त्रसिद्धान्तो नाम तस्मिंस्तस्मिन्नेकैकस्मिंस्तन्त्रे तत्तत् प्रसिद्धं; यथा- अन्यत्राष्टौ रसाः षडत्र, पञ्चेन्द्रियाण्यत्र षडिन्द्रियाण्यन्यत्र तन्त्रे, वातादिकृताः सर्वे विकारा यथाऽन्यत्र, अत्र वातादिकृता भूतकृताश्च प्रसिद्धाः| अधिकरणसिद्धान्तो नाम स यस्मिन्नधिकरणे प्रस्तूयमाने सिद्धान्यन्यान्यप्यधिकरणानि भवन्ति, यथा- ‘न मुक्तः कर्मानुबन्धिकं कुरुते, निस्पृहत्वात् इति प्रस्तुते सिद्धाः कर्मफल-मोक्ष-पुरुष-प्रेत्यभावा भवन्ति| अभ्युपगमसिद्धान्तो नाम स यमर्थमसिद्धमपरीक्षितमनुपदिष्टमहेतुकं वा वादकालेऽभ्युपगच्छन्ति भिषजः; तद्यथा- द्रव्यं प्रधानमिति कृत्वा वक्ष्यामः, गुणाः प्रधानमिति कृत्वा वक्ष्यामः, वीर्यं प्रधानमिति कृत्वा वक्ष्यामः, इत्येवमादिः| इति चतुर्विधः सिद्धान्तः||३७||

🔊 Audio coming soon

Adhikarana 27 (38) · Śloka 38

अथ शब्दः- शब्दो नाम वर्णसमाम्नायः; स चतुर्विधः- दृष्टार्थश्च, अदृष्टार्थश्च, सत्यश्च, अनृतश्चेति| तत्र दृष्टार्थो नाम- त्रिभिर्हेतुभिर्दोषाः प्रकुप्यन्ति, षड्भिरुपक्रमैश्च प्रशाम्यन्ति, सति श्रोत्रादिसद्भावे शब्दादिग्रहणमिति| अदृष्टार्थः पुनः- अस्ति प्रेत्यभावः, अस्ति मोक्ष इति| सत्यो नाम- यथार्थभूतः; सन्त्यायुर्वेदोपदेशाः, सन्ति सिद्ध्युपायाः साध्यानां व्याधीनां, सन्त्यारम्भफलानीति| सत्यविपर्ययश्चानृतः||३८||

🔊 Audio coming soon

Adhikarana 28 (39) · Śloka 39

अथ प्रत्यक्षं- प्रत्यक्षं नाम तद्यदात्मना चेन्द्रियैश्च स्वयमुपलभ्यते; तत्रात्मप्रत्यक्षाः सुखदुःखेच्छाद्वेषादयः, शब्दादयस्त्विन्द्रियप्रत्यक्षाः||३९||

🔊 Audio coming soon

Adhikarana 29 (40) · Śloka 40

अथानुमानम्- अनुमानं नाम तर्को युक्त्यपेक्षः; यथा- अग्निं जरणशक्त्या, बलं व्यायामशक्त्या, श्रोत्रादीनि शब्दादिग्रहणेनेत्येवमादि||४०||

🔊 Audio coming soon

Adhikarana 30 (41) · Śloka 41

अथैतिह्यम्- ऐतिह्यं नामाप्तोपदेशो वेदादिः||४१||

🔊 Audio coming soon

Adhikarana 31 (42) · Śloka 42

अथौपम्यम्- औपम्यं नाम यदन्येनान्यस्य सादृश्यमधिकृत्य प्रकाशनं; यथा- दण्डेन दण्डकस्य, धनुषा धनुःस्तम्भस्य, इष्वासेनाऽऽरोग्यदस्येति||४२||

🔊 Audio coming soon

Adhikarana 32 (43) · Śloka 43

अथ संशयः- संशयो नाम सन्देहलक्षणानुसन्दिग्धेष्वर्थेष्वनिश्चयः ; यथा- दृष्टा ह्यायुष्मल्लक्षणैरुपेताश्चानुपेताश्च तथा सक्रियाश्चाक्रियाश्च पुरुषाः शीघ्रभङ्गाश्चिरजीविनश्च, एतदुभयदृष्टत्वात् संशयः- किमस्ति खल्वकालमृत्युरुत नास्तीति||४३||

🔊 Audio coming soon

Adhikarana 33 (44) · Śloka 44

अथ प्रयोजनं- प्रयोजनं नाम यदर्थमारभ्यन्त आरम्भाः; यथा- यद्यकालमृत्युरस्ति ततोऽहमात्मानमायुष्यैरुपचरिष्याम्यनायुष्याणि च परिहरिष्यामि, कथं मामकालमृत्युः प्रसहेतेति||४४||

🔊 Audio coming soon

Adhikarana 34 (45) · Śloka 45

अथ सव्यभिचारं- सव्यभिचारं नाम यद्व्यभिचरणं; यथा- भवेदिदमौषधमस्मिन् व्याधौ यौगिकमथवा नेति||४५||

🔊 Audio coming soon

Adhikarana 35 (46) · Śloka 46

अथ जिज्ञासा- जिज्ञासा नाम परीक्षा; यथा भेषजपरीक्षोत्तरकालमुपदेक्ष्यते||४६||

🔊 Audio coming soon

Adhikarana 36 (47-48) · Śloka 48

अथ व्यवसायः- व्यवसायो नाम निश्चयः; यथा- वातिक एवायं व्याधिः, इदमेवास्य भेषजं चेति||४७|| अथार्थप्राप्तिः- अर्थप्राप्तिर्नाम यत्रैकेनार्थेनोक्तेनापरस्यार्थस्यानुक्तस्यापि सिद्धिः; यथा- नायं सन्तर्पणसाध्यो व्याधिरित्युक्ते भवत्यर्थप्राप्तिः- अपतर्पणसाध्योऽयमिति, नानेन दिवा भोक्तव्यमित्युक्ते भवत्यर्थप्राप्तिः- निशि भोक्तव्यमिति||४८||

🔊 Audio coming soon

Adhikarana 37 (49) · Śloka 49

अथ सम्भवः- यो यतः सम्भवति स तस्य सम्भवः; यथा- षड्धातवो गर्भस्य, व्याधेरहितं, हितमारोग्यस्येति||४९||

🔊 Audio coming soon

Adhikarana 38 (50) · Śloka 50

अथानुयोज्यम्- अनुयोज्यं नाम यद्वाक्यं वाक्यदोषयुक्तं तत्| सामान्यतो व्याहृतेष्वर्थेषु वा विशेषग्रहणार्थं यद्वाक्यं तदप्यनुयोज्यं; यथा- ‘संशोधनसाध्योऽयं व्याधिः’ इत्युक्ते ‘किं वमनसाध्योऽयं, किंवा विरेचनसाध्यः’ इत्यनुयुज्यते||५०||

🔊 Audio coming soon

Adhikarana 39 (51) · Śloka 51

अथाननुयोज्यम्- अननुयोज्यं नामातो विपर्ययेण; यथा- अयमसाध्यः||५१||

🔊 Audio coming soon

Adhikarana 40 (52-53) · Śloka 53

अथानुयोगः- अनुयोगो नाम स यत् तद्विद्यानां तद्विद्यैरेव सार्धं तन्त्रे तन्त्रैकदेशे वा प्रश्नःप्रश्नैकदेशो वा ज्ञानविज्ञानवचनप्रतिवचनपरीक्षार्थमादिश्यते| यथा- ‘नित्यः पुरुषः’ इति प्रतिज्ञाते यत् परः ‘को हेतुः’ इत्याह, सोऽनुयोगः||५२|| अथ प्रत्यनुयोगः- प्रत्यनुयोगो नामानुयोगस्यानुयोगः; यथा- अस्यानुयोगस्य पुनः को हेतुरिति||५३||

🔊 Audio coming soon

Adhikarana 41 (54) · Śloka 54

अथ वाक्यदोषः- वाक्यदोषो नाम यथा खल्वस्मिन्नर्थे न्यूनम्, अधिकम्, अनर्थकम्, अपार्थकं, विरुद्धं चेति; एतानि ह्यन्तरेण न प्रकृतोऽर्थः प्रणशयेत्| तत्र न्यूनं- प्रतिज्ञाहेतूदाहरणोपनयनिगमनानामन्यतमेनापि न्यूनं न्यूनं भवति; यद्वा बहूपदिष्टहेतुकमेकेन हेतुना साध्यते तच्च न्यूनम्| अथाधिकम्- अधिकं नाम यन्न्यूनविपरीतं, यद्वाऽऽयुर्वेदे भाष्यमाणे बार्हस्पत्यमौशनसमन्यद्वा यत्किञ्चिदप्रतिसम्बद्धार्थमुच्यते, यद्वा सम्बद्धार्थमपि द्विरभिधीयते तत् पुनरुक्तदोषत्वादधिकं; तच्च पुनरुक्तं द्विविधम्- अर्थपुनरुक्तं, शब्दपुनरुक्तं च; तत्रार्थपुनरुक्तं यथा- भेषजमौषधं साधनमिति, शब्दपुनरुक्तं पुनर्भेषजं भेषजमिति| अथानर्थकम्- अनर्थकं नाम यद्वचनमक्षरग्राममात्रमेव स्यात् पञ्चवर्गवन्न चार्थतो गृह्यते| अथापार्थकम्- अपार्थकं नाम यदर्थवच्च परस्परेणासंयुज्यमानार्थकं; यथा- चक्र-न(त)क्र-वंश-वज्र-निशाकरा इति| अथ विरुद्धं- विरुद्धं नाम यद्दृष्टान्तसिद्धान्तसमयैर्विरुद्धं; तत्र पूर्वं दृष्टान्तसिद्धान्तावुक्तौः समयः पुनस्त्रिधा भवति; यथा- आयुर्वैदिकसमयः, याज्ञिकसमयः, मोक्षशास्त्रिकसमयश्चेति; तत्रायुर्वैदिकसमयः- चतुष्पादं भेषजमिति, याज्ञिकसमयः- आलभ्या यजमानैः पशव इति, मोक्षशास्त्रिकसमयः- सर्वभूतेष्वहिंसेति; तत्र स्वसमयविपरीतमुच्यमानं विरुद्धं भवति| इति वाक्यदोषाः||५४||

🔊 Audio coming soon

Adhikarana 42 (55) · Śloka 55

अथ वाक्यप्रशंसा- वाक्यप्रशंसा नाम यथा खल्वस्मिन्नर्थे त्वन्यूनम्, अनधिकम्, अर्थवत्, अनपार्थकम्, अविरुद्धम्, अधिगतपदार्थं चेति यत्तद्वाक्यमननुयोज्यमिति प्रशस्यते||५५||

🔊 Audio coming soon

Adhikarana 43 (56) · Śloka 56

अथ च्छलं- छलं नाम परिशठमर्थाभासमनर्थकं वाग्वस्तुमात्रमेव| तद्द्विविधं- वाक्छलं, सामान्यच्छलं च| तत्र वाक्छलं नाम यथा- कश्चिद्ब्रूयात्- नवतन्त्रोऽयं भिषगिति, अथ भिषग् ब्रूयात्- नाहं नवतन्त्र एकतन्त्रोऽहमिति; परो ब्रूयात्- नाहं ब्रवीमि नव तन्त्राणि तवेति, अपि तु नवाभ्यस्तं ते तन्त्रमिति; भिषक् ब्रूयात्- न मया नवाभ्यस्तं तन्त्रम्, अनेकधाऽभ्यस्तं मया तन्त्रमिति; एतद्वाक्छलम्| सामान्यच्छलं नाम यथा- व्याधिप्रशमनायौषधमित्युक्ते, परो ब्रूयात्- सत् सत्प्रशमनायेति किं नु भवानाह; सन् हि रोगः, सदौषधं; यदि च सत् सत्प्रशमनाय भवति, तत्र सत् कासः, सत् क्षयः, सत्सामान्यात् कासस्ते क्षयप्रशमनाय भविष्यतीति| एतत् सामान्यच्छलम्||५६||

🔊 Audio coming soon

Adhikarana 44 (57) · Śloka 57

अथाहेतुः- अहेतुर्नामप्रकरणसमः, संशयसमः, वर्ण्यसमश्चेति| तत्र प्रकरणसमो नामाहेतुर्यथा- अन्यः शरीरादात्मा नित्य इति; परो ब्रूयात्- यस्मादन्यः शरीरादात्मा, तस्मान्नित्यः; शरीरं ह्यनित्यमतो विधर्मिणा चात्मना भवितव्यमित्येष चाहेतुः; नहि य एव पक्षः स एव हेतुरिति| संशयसमो नामाहेतुर्य एव संशयहेतुः स एव संशयच्छेदहेतुः; यथा- अयमायुर्वेदैकदेशमाह, किन्न्वयं चिकित्सकः स्यान्न वेति संशये परो ब्रूयात्- यस्मादयमायुर्वेदैकदेशमाह तस्माच्चिकित्सकोऽयमिति, न च संशयच्छेदहेतुं विशेषयति, एष चाहेतुः; न हि य एव संशयहेतुः, स एव संशयच्छेदहेतुर्भवति| वर्ण्यसमो नामाहेतुः- यो हेतुर्वर्ण्याविशिष्टः; यथा- कश्चिद्बूयात्- अस्पर्शत्वाद्बुद्धिरनित्या शब्दवदिति; अत्र वर्ण्यः शब्दो बुद्धिरपि वर्ण्या, तदुभयवर्ण्याविशिष्टत्वाद्वर्ण्यसमोऽप्यहेतुः||५७||

🔊 Audio coming soon

Adhikarana 45 (58) · Śloka 58

अथातीतकालम्- अतीतकालं नाम यत् पूर्वं वाच्यं तत् पश्चादुच्यते, तत् कालातीतत्वादग्राह्यं भवतीति; पूर्वं वा निग्रहप्राप्तमनिगृह्य परिगृह्य पक्षान्तरितं पश्चान्निगृहीते, तत्तस्यातीतकालत्वान्निग्रहवचनमसमर्थं भवतीति||५८||

🔊 Audio coming soon

Adhikarana 46 (59) · Śloka 59

अथोपालम्भः- उपालम्भो नाम हेतोर्दोषवचनं; यथा- पूर्वमहेतवो हेत्वाभासा व्याख्याताः||५९||

🔊 Audio coming soon

Adhikarana 47 (60-61) · Śloka 61

अथ परिहारः- परिहारो नाम तस्यैव दोषवचनस्य परिहरणं; यथा- नित्यमात्मनि शरीरस्थे जीवलिङ्गान्युपलभ्यन्ते, तस्य चापगमान्नोपलभ्यन्ते, तस्मादन्यः शरीरादात्मा नित्यश्चेति||६०|| अथ प्रतिज्ञाहानिः- प्रतिज्ञाहानिर्नाम सा पूर्वपरिगृहीतां प्रतिज्ञां पर्यनुयुक्तो यत् परित्यजति, यथा प्राक् प्रतिज्ञां कृत्वा नित्यः पुरुष इति, पर्यनुयुक्तस्त्वाह- अनित्य इति||६१||

🔊 Audio coming soon

Adhikarana 48 (62-64) · Śloka 64

अथाभ्यनुज्ञा- अभ्यनुज्ञा नाम सा य इष्टानिष्टाभ्युपगमः||६२|| अथ हेत्वन्तरं- हेत्वन्तरं नाम प्रकृतहेतौ वाच्ये यद्विकृतहेतुमाह||६३|| अथार्थान्तरम्- अर्थान्तरं नामैकस्मिन् वक्तव्येऽपरं यदाह| यथा- ज्वरलक्षणे वाच्ये प्रमेहलक्षणमाह||६४||

🔊 Audio coming soon

Adhikarana 49 (65-66) · Śloka 66

अथ निग्रहस्थानं- निग्रहस्थानं नाम पराजयप्राप्तिः; तच्च त्रिरभिहितस्य वाक्यस्यापरिज्ञानं परिषदि विज्ञानवत्यां, यद्वा अननुयोज्यस्यानुयोगोऽनुयोज्यस्य चाननुयोगः| प्रतिज्ञाहानिः, अभ्यनुज्ञा, कालातीतवचनम्, अहेतुः, न्यूनम्, अधिकं, व्यर्थम्, अनर्थकं, पुनरुक्तं, विरुद्धं, हेत्वन्तरम्, अर्थान्तरं च निग्रहस्थानम्||६५|| इति वादमार्गपदानि यथोद्देशमभिनिर्दिष्टानि भवन्ति||६६||

🔊 Audio coming soon

Adhikarana 50 (67) · Śloka 67

वादस्तु खलु भिषजां प्रवर्तमानो प्रवर्तेतायुर्वेद एव, नान्यत्र| अत्र हि वाक्यप्रतिवाक्यविस्तराः केवलाश्चोपपत्तयः सर्वाधिकरणेषु| ताः सर्वाः समवेक्ष्यावेक्ष्य सर्वं वाक्यं ब्रूयात्, नाप्रकृतकमशास्त्रमपरीक्षितमसाधकमाकुलमव्यापकं वा| सर्वं च हेतुमद्ब्रूयात्| हेतुमन्तो ह्यकलुषाः सर्व एव वादविग्रहाश्चिकित्सिते कारणभूताः, प्रशस्तबुद्धिवर्धकत्वात्; सर्वारम्भसिद्धिं ह्यावहत्यनुपहता बुद्धिः||६७||

🔊 Audio coming soon

Adhikarana 51 (68) · Śloka 68

इमानि खलु तावदिह कानिचित् प्रकरणानि भिषजां ज्ञानार्थमुपदेक्ष्यामः| ज्ञानपूर्वकं हि कर्मणां समारम्भं प्रशंसन्ति कुशलाः| ज्ञात्वा हि कारण-करण-कार्ययोनि-कार्य-कार्यफलानुबन्ध-देश-काल-प्रवृत्त्युपायान् सम्यगभिनिर्वर्तमानः कार्याभिनिर्वृत्ताविष्टफलानुबन्धं कार्यमभिनिर्वर्तयत्यनतिमहता यत्नेन कर्ता||६८||

🔊 Audio coming soon

Adhikarana 52 (69) · Śloka 69

तत्र कारणं नाम तद् यत् करोति, स एव हेतुः, स कर्ता||६९||

🔊 Audio coming soon

Adhikarana 53 (70) · Śloka 70

करणं पुनस्तद् यदुपकरणायोपकल्पते कर्तुः कार्याभिनिर्वृत्तौ प्रयतमानस्य||७०||

🔊 Audio coming soon

Adhikarana 54 (71) · Śloka 71

कार्ययोनिस्तु सा या विक्रियमाणा कार्यत्वमापद्यते||७१||

🔊 Audio coming soon

Adhikarana 55 (72) · Śloka 72

कार्यं तु तद्यस्याभिनिर्वृत्तिमभिसन्धाय कर्ता प्रवर्तते||७२||

🔊 Audio coming soon

Adhikarana 56 (73) · Śloka 73

कार्यफलं पुनस्तद् यत्प्रयोजना कार्याभिनिर्वृत्तिरिष्यते||७३||

🔊 Audio coming soon

Adhikarana 57 (74) · Śloka 74

अनुबन्धः खलु स यः कर्तारमवश्यमनुबध्नाति कार्यादुत्तरकालं कार्यनिमित्तः शुभो वाऽप्यशुभो भावः||७४||

🔊 Audio coming soon

Adhikarana 58 (75) · Śloka 75

देशस्त्वधिष्ठानम्||७५||

🔊 Audio coming soon

Adhikarana 59 (76) · Śloka 76

कालः पुनः परिणामः||७६||

🔊 Audio coming soon

Adhikarana 60 (77) · Śloka 77

प्रवृत्तिस्तु खलु चेष्टा कार्यार्था; सैव क्रिया, कर्म, यत्नः, कार्यसमारम्भश्च||७७||

🔊 Audio coming soon

Adhikarana 61 (78) · Śloka 78

उपायः पुनस्त्रयाणां कारणादीनां सौष्ठवमभिविधानं च सम्यक् कार्यकार्यफलानुबन्धवर्ज्यानां, कार्याणामभिनिर्वर्तक इत्यतस्तूपायः ; कृते नोपायार्थोऽस्ति, न च विद्यते तदात्वे, कृताच्चोत्तरकालं फलं, फलाच्चानुबन्ध इति||७८||

🔊 Audio coming soon

Adhikarana 62 (79) · Śloka 79

एतद्दशविधमग्रे परीक्ष्यं, ततोऽनन्तरं कार्यार्था प्रवृत्तिरिष्टा| तस्माद्भिषक् कार्यं चिकीर्षुः प्राक् कार्यसमारम्भात् परीक्षया केवलं परीक्ष्यं परीक्ष्य कर्म समारभेत कर्तुम्||७९||

🔊 Audio coming soon

Adhikarana 63 (80) · Śloka 80

तत्र चेद्भिषगभिषग्वा भिषजं कश्चिदेवं खलु पृच्छेद्- वमनविरेचनास्थापनानुवासनशिरोविरेचनानि प्रयोक्तुकामेन भिषजा कतिविधया परीक्षया कतिविधमेव परीक्ष्यं, कश्चात्र परीक्ष्यविशेषः, कथं च परीक्षितव्यः, किम्प्रयोजना च परीक्षा, क्व च वमनादीनां प्रवृत्तिः, क्व च निवृत्तिः, प्रवृत्तिनिवृत्तिलक्षणसंयोगे च किं नैष्ठिकं, कानि च वमनादीनां भेषजद्रव्याण्युपयोगं गच्छन्तीति||८०||

🔊 Audio coming soon

Adhikarana 64 (81) · Śloka 81

स एवं पृष्टो यदि मोहयितुमिच्छेत्, ब्रूयादेनं- बहुविधा हि परीक्षा तथा परीक्ष्यविधिभेदः, कतमेन विधिभेदप्रकृत्यन्तरेण भिन्नया परीक्षया केन वा विधिभेदप्रकृत्यन्तरेण परीक्ष्यस्य भिन्नस्य भेदाग्रं भवान् पृच्छत्याख्यायमानं ; नेदानीं भवतोऽन्येन विधिभेदप्रकृत्यन्तरेण भिन्नया परीक्षयाऽन्येन वा विधिभेदप्रकृत्यन्तरेण परीक्ष्यस्य भिन्नस्याभिलषितमर्थं श्रोतुमहमन्येन परीक्षाविधिभेदेनान्येन वा विधिभेदप्रकृत्यन्तरेण परीक्ष्यं भित्त्वाऽन्यथाऽऽचक्षाण इच्छां पूरयेयमिति||८१||

🔊 Audio coming soon

Adhikarana 65 (82) · Śloka 82

स यदुत्तरं ब्रूयात्तत् समीक्ष्योत्तरं वाच्यं स्याद्यथोक्तं च प्रतिवचनविधिमवेक्ष्य; सम्यक् यदि तु ब्रूयान्न चैनं मोहयितुमिच्छेत्, प्राप्तं तु वचनकालं मन्येत, काममस्मै ब्रूयादाप्तमेव निखिलेन||८२||

🔊 Audio coming soon

Adhikarana 66 (83) · Śloka 83

द्विविधा तु खलु परीक्षा ज्ञानवतां- प्रत्यक्षम्, अनुमानं च| एतद्धि द्वयमुपदेशश्च परीक्षा स्यात्| एवमेषा द्विविधा परीक्षा, त्रिविधा वा सहोपदेशेन||८३||

🔊 Audio coming soon

Adhikarana 67 (84) · Śloka 84

दशविधं तु परीक्ष्यं कारणादि यदुक्तमग्रे, तदिह भिषगादिषु संसार्य सन्दर्शयिष्यामः- इह कार्यप्राप्तौ कारणं भिषक्, करणं पुनर्भेषजं, कार्ययोनिर्धातुवैषम्यं, कार्यं धातुसाम्यं, कार्यफलं सुखावाप्तिः, अनुबन्धः खल्वायुः, देशो भूमिरातुरश्च, कालः पुनः संवत्सरश्चातुरावस्था च, प्रवृत्तिः प्रतिकर्मसमारम्भः, उपायस्तु भिषगादीनां सौष्ठवमभिविधानं च सम्यक्| इहाप्यस्योपायस्य विषयः पूर्वेणैवोपायविशेषेण व्याख्यातः| इति कारणादीनि दश दशसु भिषगादिषु संसार्य सन्दर्शितानि, तथैवानुपूर्व्यैतद्दशविधं परीक्ष्यमुक्तं च||८४||

🔊 Audio coming soon

Adhikarana 68 (85-86) · Śloka 86

तस्य यो यो विशेषो यथा यथा च परीक्षितव्यः, स तथा तथा व्याख्यास्यते||८५|| कारणं भिषगित्युक्तमग्रे, तस्य परीक्षा- भिषङ्नाम यो भिषज्यति, यः सूत्रार्थप्रयोगकुशलः, यस्य चायुः सर्वथा विदितं यथावत्| स च सर्वधातुसाम्यं चिकीर्षन्नात्मानमेवादितः परीक्षेत गुणिषु गुणतः कार्याभिनिर्वृत्तिं पश्यन्, कच्चिदहमस्य कार्यस्याभिनिर्वर्तने समर्थो न वेति; तत्रेमे भिषग्गुणा यैरुपपन्नो भिषग्धातुसाम्याभिनिर्वर्तने समर्थो भवति; तद्यथा- पर्यवदातश्रुतता, परिदृष्टकर्मता, दाक्ष्यं, शौचं, जितहस्तता, उपकरणवत्ता, सर्वेन्द्रियोपपन्नता, प्रकृतिज्ञता, प्रतिपत्तिज्ञाता चेति||८६||

🔊 Audio coming soon

Adhikarana 69 (87) · Śloka 87

करणं पुनर्भेषजम्| भेषजं नाम तद्यदुपकरणायोपकल्पते भिषजो धातुसाम्याभिनिर्वृत्तौ प्रयतमानस्य विशेषतश्चोपायान्तेभ्यः| तद्द्विविधं व्यपाश्रयभेदात्- दैवव्यपाश्रयं, युक्तिव्यपाश्रयं चेति| तत्र दैवव्यपाश्रयं- मन्त्रौषधिमणिमङ्गलबल्युपहारहोमनियमप्रायश्चित्तोपवासस्वस्त्ययनप्रणिपातगमनादि, युक्तिव्यपाश्रयं- संशोधनोपशमने चेष्टाश्च दृष्टफलाः| एतच्चैव भेषजमङ्गभेदादपि द्विविधं- द्रव्यभूतमः, अद्रव्यभूतं च| तत्र यदद्रव्यभूतं तदुपायाभिप्लुतम्| उपायो नाम भयदर्शनविस्मापनविस्मारणक्षोभणहर्षणभर्त्सनवधबन्धस्वप्नसंवाहनादिरमूर्तो भावविशेषो यथोक्ताः सिद्ध्युपायाश्चोपायाभिप्लुता इति| यत्तु द्रव्यभूतं तद्वमनादिषु योगमुपैति| तस्यापीयं परीक्षा- इदमेवम्प्रकृत्यैवङ्गुणमेवम्प्रभावमस्मिन् देशे जातमस्मिन्नृतावेवं गृहीतमेवं निहितमेवमुपस्कृतमनया च मात्रया युक्तमस्मिन् व्याधावेवंविधस्य पुरुषस्यैवतावन्तं दोषमपकर्षत्युपशमयति वा, यदन्यदपि चैवंविधं भेषजं भवेत्तच्चानेन विशेषेण युक्तमिति||८७||

🔊 Audio coming soon

Adhikarana 70 (88) · Śloka 88

कार्ययोनिर्धातुवैषम्यं, तस्य लक्षणं विकारागमः| परीक्षा त्वस्य विकारप्रकृतेश्चैवोनातिरिक्तलिङ्गविशेषावेक्षणं विकारस्य च साध्यासाध्यमृदुदारुणलिङ्गविशेषावेक्षणमिति||८८||

🔊 Audio coming soon

Adhikarana 71 (89) · Śloka 89

कार्यं धातुसाम्यं, तस्य लक्षणं विकारोपशमः| परीक्षा त्वस्य- रुगुपशमनं, स्वरवर्णयोगः, शरीरोपचयः, बलवृद्धिः, अभ्यवहार्याभिलाषः, रुचिराहारकाले, अभ्यवहृतस्य चाहारस्य काले सम्यग्जरणं, निद्रालाभो यथाकालं, वैकारिणां च स्वप्नानामदर्शनं, सुखेन च प्रतिबोधनं, वातमूत्रपुरीषरेतसां मुक्तिः, सर्वाकारैर्मनोबुद्धीन्द्रियाणां चाव्यापत्तिरिति||८९||

🔊 Audio coming soon

Adhikarana 72 (90) · Śloka 90

कार्यफलं सुखावाप्तिः, तस्य लक्षणं- मनोबुद्धीन्द्रियशरीरतुष्टिः||९०||

🔊 Audio coming soon

Adhikarana 73 (91) · Śloka 91

अनुबन्धस्तु खल्वायुः, तस्य लक्षणं- प्राणैः सह संयोगः||९१||

🔊 Audio coming soon

Adhikarana 74 (92-93) · Śloka 93

देशस्तु भूमिरातुरश्च||९२|| तत्र भूमिपरीक्षा आतुरपरिज्ञानहेतोर्वा स्यादौषधपरिज्ञानहेतोर्वा| तत्र तावदियमातुरपरिज्ञानहेतोः| तद्यथा- अयं कस्मिन् भूमिदेशे जातः संवृद्धो व्याधितो वा; तस्मिंश्च भूमिदेशे मनुष्याणामिदमाहारजातम्, इदं विहारजातम्, इदमाचारजातम्, एतावच्च बलम्, एवंविधं सत्त्वम्, एवंविधं सात्म्यम्, एवंविधो दोषः, भक्तिरियम्, इमे व्याधयः, हितमिदम्, अहितमिदमिति प्रायोग्रहणेन | औषधपरिज्ञानहेतोस्तु कल्पेषु भूमिपरीक्षा वक्ष्यते||९३||

🔊 Audio coming soon

Adhikarana 75 (94) · Śloka 94

आतुरस्तु खलु कार्यदेशः| तस्य परीक्षा आयुषः प्रमाणज्ञानहेतोर्वा स्याद्, बलदोषप्रमाणज्ञानहेतोर्वा| तत्र तावदियं बलदोषप्रमाणज्ञानहेतोः; दोषप्रमाणानुरूपो हि भेषजप्रमाणविकल्पो बलप्रमाणविशेषापेक्षो भवति| सहसा ह्यतिबलमौषधमपरीक्षकप्रयुक्तमल्पबलमातुरमतिपातयेत्; न ह्यतिबलान्याग्नेयवायवीयान्यौषधान्यग्निक्षारशस्त्रकर्माणि वा शक्यन्तेऽल्पबलैः सोढुम्; असह्यातितीक्ष्णवेगत्वाद्धितानि सद्यःप्राणहराणि स्युः| एतच्चैव कारणमपेक्षमाणा हीनबलमातुरमविषादकरैर्मृदुसुकुमारप्रायैरुत्तरोत्तरगुरुभिरविभ्रमैरनात्ययिकैश्चोपचरन्त्यौषधैः; विशेषतश्च नारीः, ता ह्यनवस्थितमृदुविवृतविक्लवहृदयाः प्रायः सुकुमार्योऽबलाः परसंस्तभ्याश्च| तथा बलवति बलवद्व्याधिपरिगते स्वल्पबलमौषधमपरीक्षकप्रयुक्तमसाधकमेव भवति| तस्मादातुरं परीक्षेत प्रकृतितश्च, विकृतितश्च, सारतश्च, संहननतश्च, प्रमाणतश्च, सात्म्यतश्च, सत्त्वतश्च, आहारशक्तितश्च, व्यायामशक्तितश्च, वयस्तश्चेति, बलप्रमाणविशेषग्रहणहेतोः||९४||

🔊 Audio coming soon

Adhikarana 76 (95) · Śloka 95

तत्र प्रकृत्यादीन् भावाननुव्याख्यास्यामः | तद्यथा- शुक्रशोणितप्रकृतिं, कालगर्भाशयप्रकृतिं, आतुराहारविहारप्रकृतिं, महाभूतविकारप्रकृतिं च गर्भशरीरमपेक्षते| एतानि हि येन येन दोषेणाधिकेनैकेनानेकेन वा समनुबध्यन्ते, तेन तेन दोषेण गर्भोऽनुबध्यते; ततः सा सा दोषप्रकृतिरुच्यते मनुष्याणां गर्भादिप्रवृत्ता| तस्माच्छ्लेष्मलाः प्रकृत्या केचित्, पित्तलाः केचित्, वातलाः केचित्, संसृष्टाः केचित्, समधातवः केचिद्भवन्ति| तेषां हि लक्षणानि व्याख्यास्यामः||९५||

🔊 Audio coming soon

Adhikarana 77 (96) · Śloka 96

श्लेष्मा हि स्निग्धश्लक्ष्णमृदुमधुरसारसान्द्रमन्दस्तिमितगुरुशीतविज्जलाच्छः| तस्य स्नेहाच्छ्लेष्मलाः स्निग्धाङ्गाः, श्लक्ष्णत्वाच्छ्लक्ष्णाङ्गाः, मृदुत्वाद्दृष्टिसुखसुकुमारावदातगात्राः, माधुर्यात् प्रभूतशुक्रव्यवायापत्याः, सारत्वात् सारसंहतस्थिरशरीराः, सान्द्रत्वादुपचितपरिपूर्णसर्वाङ्गाः, मन्दत्वान्मन्दचेष्टाहारव्याहाराः, स्तैमित्यादशीघ्रारम्भक्षोभविकाराः, गुरुत्वात् साराधिष्ठितावस्थितगतयः, शैत्यादल्पक्षुत्तृष्णासन्तापस्वेददोषाः, विज्जलत्वात् सुश्लिष्टसारसन्धिबन्धनाः, तथाऽच्छत्वात् प्रसन्नदर्शनाननाः प्रसन्नस्निग्धवर्णस्वराश्च भवन्ति| त एवङ्गुणयोगाच्छ्लेष्मला बलवन्तो वसुमन्तो विद्यावन्त ओजस्विनः शान्ता आयुष्मन्तश्च भवन्ति||९६||

🔊 Audio coming soon

Adhikarana 78 (97) · Śloka 97

पित्तमुष्णं तीक्ष्णं द्रवं विस्रमम्लं कटुकञ्च| तस्यौष्ण्यात् पित्तला भवन्त्युष्णासहा, उष्णमुखाः, सुकुमारावदातगात्राः , प्रभूतविप्लुव्यङ्गतिलपिडकाः, क्षुत्पिपासावन्तः, क्षिप्रवलीपलितखालित्यदोषाः, प्रायोमृद्वल्पकपिलश्मश्रुलोमकेशाश्च; तैक्ष्ण्यात्तीक्ष्णपराक्रमाः, तीक्ष्णाग्नयः, प्रभूताशनपानाः, क्लेशासहिष्णवो, दन्दशूकाः; द्रवत्वाच्छिथिलमृदुसन्धिमांसाः, प्रभूतसृष्टस्वेदमूत्रपुरीषाश्च; विस्रत्वात् प्रभूतपूतिकक्षास्यशिरःशरीरगन्धाः; कट्वम्लत्वादल्पशुक्रव्यवायापत्याः; त एवङ्गुणयोगात् पित्तला मध्यबला मध्यायुषो मध्यज्ञानविज्ञानवित्तोपकरणवन्तश्च भवन्ति||९७||

🔊 Audio coming soon

Adhikarana 79 (98-99) · Śloka 99

वातस्तु रूक्षलघुचलबहुशीघ्रशीतपरुषविशदः| तस्य रौक्ष्याद्वातला रूक्षापचिताल्पशरीराः प्रततरूक्षक्षामसन्नसक्तजर्जरस्वरा जागरूकाश्च भवन्ति, लघुत्वाल्लघुचपलगतिचेष्टाहारव्याहाराः, चलत्वादनवस्थितसन्ध्यक्षिभ्रूहन्वोष्ठजिह्वाशिरःस्कन्धपाणिपादाः, बहुत्वाद्बहुप्रलापकण्डरासिराप्रतानाः, शीघ्रत्वाच्छ्रीघ्रसमारम्भक्षोभविकाराः शीघ्रत्रासरागविरागाः श्रुतग्राहिणोऽल्पस्मृतयश्च, शैत्याच्छीतासहिष्णवः प्रततशीतकोद्वेपकस्तम्भाः, पारुष्यात् परुषकेशश्मश्रुरोमनखदशनवदनपाणिपादाः, वैशद्यात् स्फुटिताङ्गावयवाः सततसन्धिशब्दगामिनश्च भवन्ति; त एवङ्गुणयोगाद्वातलाः प्रायेणाल्पबलाश्चाल्पायुषश्चाल्पापत्याश्चाल्पसाधनाश्चाल्पधनाश्च भवन्ति||९८|| संसर्गात् संसृष्टलक्षणाः||९९||

🔊 Audio coming soon

Adhikarana 80 (100) · Śloka 100

सर्वगुणसमुदितास्तु समधातवः| इत्येवं प्रकृतितः परीक्षेत||१००||

🔊 Audio coming soon

Adhikarana 81 (101) · Śloka 101

विकृतितश्चेति विकृतिरुच्यते विकारः| तत्र विकारं हेतु-दोष-दूष्य-प्रकृति-देश-काल-बलविशेषैर्लिङ्गतश्च परीक्षेत, न ह्यन्तरेण हेत्वादीनां बलविशेषं व्याधिबलविशेषोपलब्धिः| यस्य हि व्याधेर्दोष-दूष्य-प्रकृति-देश-काल-बलसाम्यं भवति, महच्च हेतुलिङ्गबलं, स व्याधिर्बलवान् भवति; तद्विपर्ययाच्चाल्पबलः; मध्यबलस्तु दोषदूष्यादीनामन्यतमसामान्याद्धेतुलिङ्गमध्यबलत्वाच्चोपलभ्यते||१०१||

🔊 Audio coming soon

Adhikarana 82 (102-115) · Śloka 115

सारतश्चेति साराण्यष्टौ पुरुषाणां बलमानविशेषज्ञानार्थमुपदिश्यन्ते; तद्यथा- त्वग्रक्तमांसमेदोऽस्थिमज्जशुक्रसत्त्वानीति||१०२|| तत्र स्निग्धश्लक्ष्णमृदुप्रसन्नसूक्ष्माल्पगम्भीरसुकुमारलोमा सप्रभेव च त्वक् त्वक्साराणाम्| सा सारता सुखसौभाग्यैश्वर्योपभोगबुद्धिविद्यारोग्यप्रहर्षणान्यायुष्यत्वं चाचष्टे||१०३|| कर्णाक्षिमुखजिह्वानासौष्ठपाणिपादतलनखललाटमेहनं स्निग्धरक्तवर्णं श्रीमद्भ्राजिष्णु रक्तसाराणाम्| सा सारता सुखमुद्धतां मेधां मनस्वित्वं सौकुमार्यमनतिबलमक्लेशसहिष्णुत्वमुष्णासहिष्णुत्वं चाचष्टे||१०४|| शङ्खललाटकृकाटिकाक्षिगण्डहनुग्रीवास्कन्धोदरकक्षवक्षःपाणिपादसन्धयः स्थिरगुरुशुभमांसोपचिता मांससाराणाम्| सा सारता क्षमां धृतिमलौल्यं वित्तं विद्यां सुखमार्जवमारोग्यं बलमायुश्च दीर्घमाचष्टे||१०५|| वर्णस्वरनेत्रकेशलोमनखदन्तौष्ठमूत्रपुरीषेषु विशेषतः स्नेहो मेदःसाराणाम्| सा सारता वित्तैश्वर्यसुखोपभोगप्रदानान्यार्जवं सुकुमारोपचारतां चा चष्टे||१०६|| पार्ष्णिगुल्फजान्वरत्निजत्रुचिबुकशिरःपर्वस्थूलाः स्थूलास्थिनखदन्ताश्चास्थिसाराः| ते महोत्साहाः क्रियावन्तः क्लेशसहाः सारस्थिरशरीरा भवन्त्यायुष्मन्तश्च||१०७|| मृद्वङ्गा बलवन्तः स्निग्धवर्णस्वराः स्थूलदीर्घवृत्तसन्धयश्च मज्जसाराः| ते दीर्घायुषो बलवन्तः श्रुतवित्तविज्ञानापत्यसम्मानभाजश्च भवन्ति||१०८|| सौम्याः सौम्यप्रेक्षिणः क्षीरपूर्णलोचना इव प्रहर्षबहुलाः स्निग्धवृत्तसारसमसंहतशिखरदशनाः प्रसन्नस्निग्धवर्णस्वरा भ्राजिष्णवो महास्फिचश्च शुक्रसाराः| ते स्त्रीप्रियोपभोगा बलवन्तः सुखैश्वर्यारोग्यवित्तसम्मानापत्यभाजश्च भवन्ति||१०९|| स्मृतिमन्तो भक्तिमन्तः कृतज्ञाः प्राज्ञाः शुचयो महोत्साहा दक्षा धीराः समरविक्रान्तयोधिनस्त्यक्तविषादाः सुव्यवस्थितगतिगम्भीरबुद्धिचेष्टाः कल्याणाभिनिवेशिनश्च सत्त्वसाराः| तेषां स्वलक्षणैरेव गुणा व्याख्याताः||११०|| तत्र सर्वैः सारैरुपेताः पुरुषा भवन्त्यतिबलाः परमसुखयुक्ताः क्लेशसहाः सर्वारम्भेष्वात्मनि जातप्रत्ययाः कल्याणाभिनिवेशिनः स्थिरसमाहितशरीराः सुसमाहितगतयः सानुनादस्निग्धगम्भीरमहास्वराः सुखैश्वर्यवित्तोपभोगसम्मानभाजो मन्दजरसो मन्दविकाराः प्रायस्तुल्यगुणविस्तीर्णापत्याश्चिरजीविनश्च||१११|| अतो विपरीतास्त्वसाराः||११२|| मध्यानां मध्यैःसारविशेषैर्गुणविशेषा व्याख्याता भवन्ति||११३|| इति साराण्यष्टौ पुरुषाणां बलप्रमाणविशेषज्ञानार्थमुपदिष्टानि भवन्ति||११४|| कथं नु शरीरमात्रदर्शनादेव भिषङ्मुह्येदयमुपचितत्वाद्बलवान्, अयमल्पबलः कृशत्वात्, महाबलोऽयं महाशरीरत्वात्, अयमल्पशरीरत्वादल्पबल इति; दृश्यन्ते ह्यल्पशरीराः कृशाश्चैके बलवन्तः; तत्र पिपीलिकाभारहरणवत् सिद्धिः| अतश्च सारतः परीक्षेतेत्युक्तम् ||११५||

🔊 Audio coming soon

Adhikarana 83 (116) · Śloka 116

संहननतश्चेति संहननं, संहतिः , संयोजनमित्येकोऽर्थः| तत्र समसुविभक्तास्थि, सुबद्धसन्धि, सुनिविष्टमांसशोणितं, सुसंहतं शरीरमित्युच्यते| तत्र सुसंहतशरीराः पुरुषा बलवन्तः, विपर्ययेणाल्पबलाः, मध्यत्वात् संहननस्य मध्यबला भवन्ति||११६||

🔊 Audio coming soon

Adhikarana 84 (117) · Śloka 117

प्रमाणतश्चेति शरीरप्रमाणं पुनर्यथास्वेनाङ्गुलिप्रमाणेनोपदेक्ष्यते उत्सेधविस्तारायामैर्यथाक्रमम्| तत्र पादौ चत्वारि षट् चतुर्दशाङ्गुलानि, जङ्घे त्वष्टादशाङ्गुले षोडशाङ्गुलपरिक्षेपे च, जानुनी चतुरङ्गुले षोडशाङ्गुलपरिक्षेपे, त्रिंशदङ्गुलपरिक्षेपावष्टादशाङ्गुलावूरु, षडङ्गुलदीर्घौ वृषणावष्टाङ्गुलपरिणाहौ, शेफः षडङ्गुलदीर्घं पञ्चाङ्गुलपरिणाहं, द्वादशाङ्गुलिपरिणाहो भगः, षोडशाङ्गुलविस्तारा कटी, दशाङ्गुलं बस्तिशिरः, दशाङ्गुलविस्तारं द्वादशाङ्गुलमुदरं, दशाङ्गुलविस्तीर्णे द्वादशाङ्गुलायामे पार्श्वे, द्वादशाङ्गुलं स्तनान्तरं, द्व्यङ्गुलं स्तनपर्यन्तं, चतुर्विशत्यङ्गुलविशालं द्वादशाङ्गुलोत्सेधमुरः, द्व्यङ्गुलं हृदयम्, अष्टाङ्गुलौ स्कन्धौ, षडङ्गुलावंसौ, षोडशाङ्गुलौ प्रबाहू, पञ्चदशाङ्गुलौ प्रपाणी, हस्तौ द्वादशाङ्गुलौ , कक्षावष्टाङ्गुलौ, त्रिकं द्वादशाङ्गुलोत्सेधम्, अष्टादशाङ्गुलोत्सेधं पृष्ठं, चतुरङ्गुलोत्सेधा द्वाविंशत्यङ्गुलपरिणाहा शिरोधरा, द्वादशाङ्गुलोत्सेधं चतुर्विंशत्यङ्गुलपरिणाहमाननं, पञ्चाङ्गुलमास्यं, चिबुकौष्ठकर्णाक्षिमध्यनासिकाललाटं चतुरङ्गुलं, षोडशाङ्गुलोत्सेधं द्वात्रिंशदङ्गुलपरिणाहं शिरः; इति पृथक्त्वेनाङ्गावयवानां मानमुक्तम्| केवलं पुनःशरीरमङ्गुलिपर्वाणि चतुरशीतिः| तदायामविस्तारसमं समुच्यते| तत्रायुर्बलमोजः सुखमैश्वर्यं वित्तमिष्टाश्चापरे भावा भवन्त्यायत्ताः प्रमाणवति शरीरे; विपर्ययस्त्वतो हीनेऽधिके वा||११७||

🔊 Audio coming soon

Adhikarana 85 (118) · Śloka 118

सात्म्यतश्चेति सात्म्यं नाम तद्यत् सातत्येनोपसेव्यमानमुपशेते| तत्र ये घृतक्षीरतैलमांसरससात्म्याः सर्वरससात्म्याश्च ते बलवन्तः क्लेशसहाश्चिरजीविनश्च भवन्ति, रूक्षसात्म्याः पुनरेकरससात्म्याश्च ये ते प्रायेणाल्पबला अल्पक्लेशसहा अल्पायुषोऽल्पसाधनाश्च भवन्ति, व्यामिश्रसात्म्यास्तु ये ते मध्यबलाः सात्म्यनिमित्ततो भवन्ति||११८||

🔊 Audio coming soon

Adhikarana 86 (119) · Śloka 119

सत्त्वतश्चेति सत्त्वमुच्यते मनः| तच्छरीरस्य तन्त्रकमात्मसंयोगात्| तत् त्रिविधं बलभेदेन- प्रवरं, मध्यम्, अवरं चेति; अतश्च प्रवरमध्यावरसत्त्वाः पुरुषा भवन्ति| तत्र प्रवरसत्त्वाः सत्त्वसारास्ते सारेषूपदिष्टाः, स्वल्पशरीरा ह्यपि ते निजागन्तुनिमित्तासु महतीष्वपि पीडास्वव्यथा दृश्यन्ते सत्त्वगुणवैशेष्यात्; मध्यसत्त्वास्त्वपरानात्मन्युपनिधाय संस्तम्भयन्त्यात्मनाऽऽत्मानं परैर्वाऽपि संस्तभ्यन्ते; हीनसत्त्वास्तु नात्मना नापि परैः सत्त्वबलं प्रति शक्यन्ते उपस्तम्भयितुं, महाशरीरा ह्यपि ते स्वल्पानामपि वेदनानामसहा दृश्यन्ते, सन्निहितभयशोकलोभमोहमाना रौद्रभैरवद्विष्टबीभत्सविकृतसङ्कथास्वपि च पशुपुरुषमांसशोणितानि चावेक्ष्य विषादवैवर्ण्यमूर्च्छोन्मादभ्रमप्रपतनानामन्यतममाप्नुवन्त्यथवा मरणमिति||११९||

🔊 Audio coming soon

Adhikarana 87 (120) · Śloka 120

आहारशक्तितश्चेति आहारशक्तिरभ्यवहरणशक्त्या जरणशक्तया च परीक्ष्या; बलायुषी ह्याहारायत्ते||१२०||

🔊 Audio coming soon

Adhikarana 88 (121) · Śloka 121

व्यायामशक्तितश्चेति व्यायामशक्तिरपि कर्मशक्त्या परीक्ष्या| कर्मशक्त्या ह्यनुमीयते बलत्रैविध्यम् ||१२१||

🔊 Audio coming soon

Adhikarana 89 (122) · Śloka 122

वयस्तश्चेति कालप्रमाणविशेषापेक्षिणी हि शरीरावस्था वयोऽभिधीयते| तद्वयो यथास्थूलभेदेन त्रिविधं- बालं, मध्यं, जीर्णमिति| तत्र बालमपरिपक्वधातुमजातव्यञ्जनं सुकुमारमक्लेशसहमसम्पूर्णबलं श्लेष्मधातुप्रायमाषोडशवर्षं, विवर्धमानधातुगुणं पुनः प्रायेणानवस्थितसत्त्वमात्रिंशद्वर्षमुपदिष्टं; मध्यं पुनः समत्वागतबलवीर्यपौरुषपराक्रमग्रहणधारणस्मरणवचनविज्ञानसर्वधातुगुणं बलस्थितमवस्थितसत्त्वमविशीर्यमाणधातुगुणं पित्तधातुप्रायमाषष्टिवर्षमुपदिष्टम्; अतः परं हीयमानधात्विन्द्रियबलवीर्यपौरुषपराक्रमग्रहणधारणस्मरणवचनविज्ञानं भ्रश्यमानधातुगुणं वायुधातुप्रायं क्रमेण जीर्णमुच्यते आवर्षशतम्| वर्षशतं खल्वायुषः प्रमाणमस्मिन् काले; सन्ति च पुनरधिकोनवर्षशतजीविनोऽपि मनुष्याः; तेषां विकृतिवर्ज्यैः प्रकृत्यादिबलविशेषैरायुषो लक्षणतश्च प्रमाणमुपलभ्य वयसस्त्रित्वं विभजेत्||१२२||

🔊 Audio coming soon

Adhikarana 90 (123) · Śloka 123

एवं प्रकृत्यादीनां विकृतिवर्ज्यानां भावानां प्रवरमध्यावरविभागेन बलविशेषं विभजेत्| विकृतिबलत्रैविध्येन तु दोषबलं त्रिविधमनुमीयते| ततो भैषज्यस्य तीक्ष्णमृदुमध्यविभागेन त्रैविध्यं विभज्य यथादोषं भैषज्यमवचारयेदिति||१२३||

🔊 Audio coming soon

Adhikarana 91 (124) · Śloka 124

आयुषः प्रमाणज्ञानहेतोः पुनरिन्द्रियेषु जातिसूत्रीये च लक्षणान्युपदेक्ष्यन्ते||१२४||

🔊 Audio coming soon

Adhikarana 92 (125) · Śloka 125

कालः पुनः संवत्सरश्चातुरावस्था च| तत्र संवत्सरो द्विधा त्रिधा षोढा द्वादशधा भूयश्चाप्यतः प्रविभज्यते तत्तत्कार्यमभिसमीक्ष्य| अत्र खलु तावत् षोढा प्रविभज्य कार्यमुपदेक्ष्यते- हेमन्तो ग्रीष्मो वर्षाश्चेति शीतोष्णवर्षलक्षणास्त्रय ऋतवो भवन्ति, तेषामन्तरेष्वितरे साधारणलक्षणास्त्रय ऋतवः- प्रावृट्शरद्वसन्ता इति| प्रावृडिति प्रथमः प्रवृष्टः कालः, तस्यानुबन्धो हि वर्षाः| एवमेते संशोधनमधिकृत्य षट् विभज्यन्ते ऋतवः||१२५||

🔊 Audio coming soon

Adhikarana 93 (126-127) · Śloka 127

तत्र साधारणलक्षणेष्वृतुषु वमनादीनां प्रवृत्तिर्विधीयते, निवृत्तिरितरेषु| साधारणलक्षणा हि मन्दशीतोष्णवर्षत्वात् सुखतमाश्च भवन्त्यविकल्पकाश्च शरीरौषधानाम्, इतरे पुनरत्यर्थशीतोष्णवर्षत्वाद्दुःखतमाश्च भवन्ति विकल्पकाश्च शरीरौषधानाम्||१२६|| तत्र हेमन्ते ह्यतिमात्रशीतोपहतत्वाच्छरीरमसुखोपपन्नं भवत्यतिशीतवाताध्मातमतिदारुणीभूतमवबद्धदोषं च, भेषजं पुनः संशोधनार्थमुष्णस्वभावमतिशीतोपहतत्वान्मन्दवीर्यत्वमापद्यते, तस्मात्तयोः संयोगे संशोधनमयोगायोपपद्यते शरीरमपि च वातोपद्रवाय| ग्रीष्मे पुनर्भृशोष्णोपहतत्वाच्छरीरमसुखोपपन्नं भवत्युष्णवातातपाध्मातमतिशिथिलमत्यर्थप्रविलीनदोषं, भेषजं पुनः संशोधनार्थमुष्णस्वभावमुष्णानुगमनात्तीक्ष्णतरत्वमापद्यते, तस्मात्तयोः संयोगे संशोधनमतियोगायोपपद्यते शरीरमपि पिपासोपद्रवाय| वर्षासु तु मेघजलावतते गूढार्कचन्द्रतारे धाराकुले वियति भूमौ पङ्कजलपटलसंवृतायामत्यर्थोपक्लिन्नशरीरेषु भूतेषु विहतस्वभावेषु च केवलेष्वौषधग्रामेषु तोयतोयदानुगतमारुतसंसर्गाद् गुरुप्रवृत्तीनि वमनादीनि भवन्ति, गुरुसमुत्थानानि च शरीराणि| तस्माद्वमनादीनां निवृत्तिर्विधीयते वर्षान्तेष्वृतुषु , न चेदात्ययिकं कर्म| आत्ययिके पुनः कर्मणि काममृतुं विकल्प्य कृत्रिमगुणोपधानेन यथर्तुगुणविपरीतेन भेषजं संयोगसंस्कारप्रमाणविकल्पेनोपपाद्य प्रमाणवीर्यसमं कृत्वा ततः प्रयोजयेदुत्तमेन यत्नेनावहितः||१२७||

🔊 Audio coming soon

Adhikarana 94 (128) · Śloka 128

आतुरावस्थास्वपि तु कार्याकार्यं प्रति कालाकालसञ्ज्ञा; तद्यथा- अस्यामवस्थायामस्य भेषजस्याकालः , कालः पुनरन्यस्येति; एतदपि हि भवत्यवस्थाविशेषेण; तस्मादातुरावस्थास्वपि हि कालाकालसञ्ज्ञा| तस्य परीक्षा- मुहुर्मुहुरातुरस्य सर्वावस्थाविशेषावेक्षणं यथावद्भेषजप्रयोगार्थम्| न ह्यतिपतितकालमप्राप्तकालं वा भेषजमुपयुज्यमानं यौगिकं भवति; कालो हि भैषज्यप्रयोगपर्याप्तिमभिनिर्वर्तयति||१२८||

🔊 Audio coming soon

Adhikarana 95 (129) · Śloka 129

प्रवृत्तिस्तु प्रतिकर्मसमारम्भः| तस्य लक्षणं भिषगौषधातुरपरिचारकाणां क्रियासमायोगः||१२९||

🔊 Audio coming soon

Adhikarana 96 (130) · Śloka 130

उपायः पुनर्भिषगादीनां सौष्ठवमभिविधानं च सम्यक्| तस्य लक्षणं- भिषगादीनां यथोक्तगुणसम्पत् देशकालप्रमाणसात्म्यक्रियादिभिश्च सिद्धिकारणैः सम्यगुपपादितस्यौषधस्यावचारणमिति||१३०||

🔊 Audio coming soon

Adhikarana 97 (131) · Śloka 131

एवमेते दश परीक्ष्यविशेषाः पृथक् पृथक् परीक्षितव्या भवन्ति||१३१||

🔊 Audio coming soon

Adhikarana 98 (132) · Śloka 132

परीक्षायास्तु खलु प्रयोजनं प्रतिपत्तिज्ञानम्| प्रतिपत्तिर्नाम यो विकारो यथा प्रतिपत्तव्यस्तस्य तथाऽनुष्ठानज्ञानम्||१३२||

🔊 Audio coming soon

Adhikarana 99 (133) · Śloka 133

यत्र तु खलु वमनादीनां प्रवृत्तिः, यत्र च निवृत्तिः, तद्व्यासतः सिद्धिषूत्तरमुपदेक्ष्यामः||१३३||

🔊 Audio coming soon

Adhikarana 100 (134) · Śloka 134

प्रवृत्तिनिवृत्तिलक्षणसंयोगे तु गुरुलाघवं सम्प्रधार्य सम्यगध्यवस्येदन्यतरनिष्ठायाम्| सन्ति हि व्याधयः शास्त्रेषूत्सर्गापवादैरुपक्रमं प्रति निर्दिष्टाः| तस्माद्गुरुलाघवं सम्प्रधार्य सम्यगध्यवस्येदित्युक्तम्||१३४||

🔊 Audio coming soon

Adhikarana 101 (135) · Śloka 135

यानि तु खलु वमनादिषु भेषजद्रव्याण्युपयोगं गच्छन्ति तान्यनुव्याख्यास्यामः| तद्यथा- फलजीमूतकेक्ष्वाकुधामार्गवकुटजकृतवेधनफलानि, फलजीमूतकेक्ष्वाकुधामार्गवपत्रपुष्पाणि आरग्वधवृक्षकमदनस्वादुकण्टकपाठापाटलाशार्ङ्गेष्टामूर्वासप्तपर्णनक्तमालपिचुमर्दपटोलसुषवीगुडूची- चित्रकसोमवल्कशतावरीद्वीपीशिग्रुमूलकषायैः, मधुकमधूककोविदारकर्वुदारनीपविदुलबिम्बीशणपुष्पीसदापुष्पाप्रत्यक्पुष्पाकषायैश्च, एलाहरेणुप्रियङ्गुपृथ्वीकाकुस्तुम्बुरुतगरनलदह्रीवेरतालीशोशीरकषायैश्च , इक्षुकाण्डेक्ष्विक्षुवालिकादर्भपोटगलकालङ्कृ(ङ्क)तकषायैश्च, सुमनासौमनस्यायनीहरिद्रादारुहरिद्रावृश्चीरपुनर्नवामहासहाक्षुद्रसहाकषायैश्च, शाल्मलिशाल्मलिकभद्रपर्ण्येलापर्ण्युपोदिकोद्दालकधन्वनराजादनोपचित्रागोपीशृङ्गाटिकाकषायैश्च, पिप्पलीपिप्पलीमूलचव्यचित्रकशृङ्गवेरसर्षपफाणितक्षीरक्षारलवणोदकैश्च, यथालाभं यथेष्टं वाऽप्युपसंस्कृत्य वर्तिक्रियाचूर्णावलेहस्नेहकषायमांसरसयवागूयूषकाम्बलिकक्षीरोपधेयान्मोदकानन्यांश्च भक्ष्यप्रकारान् विविधाननुविधाय यथार्हं वमनार्हाय दद्याद्विधिवद्वमनम्| इति कल्पसङ्ग्रहो वमनद्रव्याणाम्| कल्पमेषां विस्तारेणोत्तरकालमुपदेक्ष्यामः||१३५||

🔊 Audio coming soon

Adhikarana 102 (136) · Śloka 136

विरेचनद्रव्याणि तु श्यामात्रिवृच्चतुरङ्गुलतिल्वकमहावृक्षसप्तलाशङ्खिनीदन्तीद्रवन्तीनां क्षीरमूलत्वक्पत्रपुष्पफलानि यथायोगं तैस्तैः क्षीरमूलत्वक्पत्रपुष्पफलैर्विक्लिप्ताविक्लिप्तैः , अजगन्धाश्वगन्धाजशृङ्गीक्षीरिणीनीलिनीक्लीतककषायैश्च, प्रकीर्योदकीर्यामसूरविदलाकम्पिल्लकविडङ्गगवाक्षीकषायैश्च, पीलुप्रियालमृद्वीकाकाश्मर्यपरूषकबदरदाडिमामलकहरीतकीबिभीतकवृश्चीरपुनर्नवाविदारिगन्धादिकषायैश्च, सीधुसुरासौवीरकतुषोदकमैरेयमेदकमदिरामधुमधूलकधान्याम्लकुवलबदरखर्जूरकर्कन्धुभिश्च, दधिदधिमण्डोदश्विद्भिश्च, गोमहिष्यजावीनां च क्षीरमूत्रैर्यथालाभं यथेष्टं वाऽप्युपसंस्कृत्य वर्तिक्रियाचूर्णासवलेहस्नेहकषायमांसरसयूषकाम्बलिकयवागूक्षीरोपधेयान् मोदकानन्यांश्च भक्ष्यप्र(वि)कारान् विविधांश्च योगाननुविधाय यथार्हं विरेचनार्हाय दद्याद्विरेचनम्| इति कल्पसङ्ग्रहो विरेचनद्रव्याणाम्| कल्पमेषां विस्तरेण यथावदुत्तरकालमुपदेक्ष्यामः||१३६||

🔊 Audio coming soon

Adhikarana 103 (137) · Śloka 137

आस्थापनेषु तु भूयिष्ठकल्पानि द्रव्याणि यानि योगमुपयान्ति तेषु तेष्ववस्थान्तरेष्वातुराणां, तानि द्रव्याणि नामतो विस्तरेणोपदिश्यमानान्यपरिसङ्ख्येयानि स्युरतिबहुत्वात्; इष्टश्चानतिसङ्क्षेपविस्तरोपदेशस्तन्त्रे, इष्टं च केवलं ज्ञानं, तस्माद्रसत एव तान्यत्र व्याख्यास्यामः| रससंसर्गविकल्पविस्तरो ह्येषामपरिसङ्ख्येयः, समवेतानां रसानामंशांशबलविकल्पातिबहुत्वात्| तस्माद्द्रव्याणां चैकदेशमुदाहरणार्थं रसेष्वनुविभज्य रसैकैकश्येन च नामलक्षणार्थं षडास्थापनस्कन्धा रसतोऽनुविभज्य व्याख्यास्तन्ते||१३७||

🔊 Audio coming soon

Adhikarana 104 (138) · Śloka 138

यत्तु षड्विधमास्थापनमेकरसमित्याचक्षते भिषजः, तद्दुर्लभतमं संसृष्टरसभूयिष्ठत्वाद्द्रव्याणाम्| तस्मान्मधुराणि मधुरप्रायाणि मधुरविपाकानि मधुरप्रभावाणि च मधुरस्कन्धे मधुराण्येव कृत्वोपदेक्ष्यन्ते, तथेतराणि द्रव्याण्यपि||१३८||

🔊 Audio coming soon

Adhikarana 105 (139) · Śloka 139

तद्यथा- जीवकर्षभकौ जीवन्ती वीरा तामलकी काकोली क्षीरकाकोली मुद्गपर्णी माषपर्णी शालपर्णी पृश्निपर्ण्यसनपर्णी मधुपर्णी मेदा महामेदा कर्कटशृङ्गी शृङ्गाटिका छिन्नरुहा च्छत्राऽतिच्छत्रा श्रावणी महाश्रावणी सहदेवा विश्वदेवा शुक्ला क्षीरशुक्ला बलाऽतिबला विदारी क्षीरविदारी क्षुद्रसहा महासहा ऋष्यगन्धाऽश्वगन्धा वृश्चीरः पुनर्नवा बृहती कण्टकारिकोरुबूको मोरटः श्वदंष्ट्रा संहर्षा शतावरी शतपुष्पा मधूकपुष्पी यष्टीमधु मधूलिका मृद्वीका खर्जूरं परूषकमात्मगुप्ता पुष्करबीजं कशेरुकं राजकशेरुकं राजादनं कतकं काश्मर्यं शीतपाक्योदनपाकी तालखर्जूरमस्तकमिक्षुरिक्षुवालिका दर्भः कुशः काशः शालिर्गुन्द्रेत्कटकः शरमूलं राजक्षवकः ऋष्यप्रोक्ता द्वारदा भारद्वाजी वनत्रपुष्यभीरुपत्री हंसपादी काकनासिका कुलिङ्गाक्षी क्षीरवल्ली कपोलवल्ली कपोतवल्ली सोमवल्ली गोपवल्ली मधुवल्ली चेति; एषामेवंविधानामन्येषां च मधुरवर्गपरिसङ्ख्यातानामौषधद्रव्याणां छेद्यानि खण्डशश्छेदयित्वा भेद्यानि चाणुशो भेदयित्वा प्रक्षाल्य पानीयेन सुप्रक्षालितायां स्थाल्यां समावाप्य पयसाऽर्धोदकेनाभ्यासिच्य साधयेद्दर्व्या सततमवघट्टयन्; तदुपयुक्तभूयिष्ठेऽम्भसि गतरसेष्वौषधेषु पयसि चानुपदग्धे स्थालीमुपहृत्य सुपरिपूतं पयः सुखोष्णं घृततैलवसामज्जलवणफाणितोपहितं बस्तिं वातविकारिणे विधिज्ञो विधिवद्दद्यात्; शीतं तु मधुसर्पिर्भ्यामुपसंसृज्य पित्तविकारिणे विधिवद्दद्यात्| इति मधुरस्कन्धः||१३९||

🔊 Audio coming soon

Adhikarana 106 (140) · Śloka 140

आम्राम्रातकलकुचकरमर्दवृक्षाम्लाम्लवेतसकुवलबदरदाडिममातुलुङ्गगण्डीरामलकनन्दीतकशीतक- तिन्तिण्डीकदन्तशठैरावतककोशाम्रधन्वनानां फलानि, पत्राणि चाम्रातकाश्मन्तकचाङ्गेरीणां चतुर्विधानां चाम्लिकानां द्वयोश्च कोलयोश्चामशुष्कयोर्द्वयोश्चैव शुष्काम्लिकयोर्ग्राम्यारण्ययोः, आसवद्रव्याणि च सुरासौवीरकतुषोदकमैरेयमेदकमदिरामधुशुक्तशीधुदधिदधिमण्डोदश्विद्धान्याम्लादीनि च, एषामेवंविधानामन्येषां चाम्लवर्गपरिसङ्ख्यातानामौषधद्रव्याणां छेद्यानि खण्डशश्छेदयित्वा भेद्यानि चाणुशो भेदयित्वा द्रवैः स्थाल्यामभ्यासिच्य साधयित्वोपसंस्कृत्य यथावत्तैलवसामज्जलवणफाणितोपहितं सुखोष्णं बस्तिं वातविकारिणे विधिज्ञो विधिवद्दद्यात्| इत्यम्लस्कन्धः||१४०||

🔊 Audio coming soon

Adhikarana 107 (141) · Śloka 141

सैन्धवसौवर्चलकालविडपाक्यानूपकूप्यवालुकैलमौलकसामुद्ररोमकौद्भिदौषरपाटेयकपांशुजान्येवम्प्रकाराणि चान्यानि लवणवर्गपरिसङ्ख्यातानि, एतान्यम्लोपहितान्युष्णोदकोपहितानि वा स्नेहवन्ति सुखोष्णं बस्तिं वातविकारिणे विधिज्ञो विधिवद्दद्यात्| इति लवणस्कन्धः||१४१||

🔊 Audio coming soon

Adhikarana 108 (142) · Śloka 142

पिप्पलीपिप्पलीमूलहस्तिपिप्पलीचव्यचित्रकशृङ्गवेरमरिचाजमोदार्द्रकविडङ्गकुस्तुम्बुरुपीलुतेजोवत्येलाकुष्ठ- भल्लातकास्थिहिङ्गुनिर्यासकिलिममूलकसर्षपलशुनकरञ्जशिग्रुकमधुशिग्रुकखरपुष्पभूस्तृणसुमुखसुरसकुठेरकार्जक- गण्डीरकालमालकपर्णासक्षवकफणिज्झकक्षारमूत्रपित्तानीति; एषामेवंविधानां चान्येषां कटुकवर्गपरिसङ्ख्यातानामौषधद्रव्याणां छेद्यानि खण्डशश्छेदयित्वा भेद्यानि चाणुशो भेदयित्वा गोमूत्रेण सह साधयित्वोपसंस्कृत्य यथावन्मधुतैललवणोपहितं सुखोष्णं बस्तिं श्लेष्मविकारिणे विधिज्ञो विधिवद्दद्यात्| इति कटुकस्कन्धः||१४२||

🔊 Audio coming soon

Adhikarana 109 (143) · Śloka 143

चन्दननलदकृतमालनक्तमालनिम्बतुम्बुरुकुटजहरिद्रादारुहरिद्रामुस्तमूर्वाकिराततिक्तककटुकरोहिणीत्रायमाणा- कारवेल्लिकाकरीरकरवीरकेबुककठिल्लकवृषमण्डूकपर्णीकर्कोटकवार्ताकुकर्कशकाकमाचीकाकोदुम्बरिकासुषव्यतिविषा- पटोलकुलकपाठागुडूचीवेत्राग्रवेतसविकङ्कतबकुलसोमवल्कसप्तपर्णसुमनार्कावल्गुजवचातगरागुरुवालकोशीराणीति , एषामेवंविधानां चान्येषां तिक्तवर्गपरिसङ्ख्यातानामौषधद्रव्याणां छेद्यानि खण्डशश्छेदयित्वा भेद्यानि चाणुशो भेदयित्वा प्रक्षाल्य पानीयेनाभ्यासिच्य साधयित्वोपसंस्कृत्य यथावन्मधुतैललवणोपहितं सुखोष्णं बस्तिं श्लेष्मविकारिणे विधिज्ञो विधिवद्दद्यात्, शीतं तु मधुसर्पिर्भ्यामपसंसृज्य पित्तविकारिणे विधिज्ञो विधिवद्दद्यात्| इति तिक्तस्कन्धः||१४३||

🔊 Audio coming soon

Adhikarana 110 (144) · Śloka 144

प्रियङ्ग्वनन्ताम्रास्थ्यम्बष्ठकीकट्वङ्गलोध्रमोचरससमङ्गाधातकीपुष्पपद्मापद्मकेशरजम्ब्वाम्रप्लक्षवट- कपीतनोदुम्बराश्वत्थभल्लातकास्थ्यश्मन्तकशिरीषशिंशपासोमवल्कतिन्दुकप्रियालबदरखदिर- सप्तपर्णाश्वकर्णस्यन्दनार्जुनारिमेदैलवालुकपरिपेलवकदम्बशल्लकीजिङ्गिनीकाशकशेरुकराजकशेरुकट्फलवंश- पद्मकाशोकशालधवसर्जभूर्जशणखरपुष्पापुरशमीमाचीकवरकतुङ्गाजकर्णस्फूर्जकबिभीतककुम्भीपुष्करबीज- बिसमृणालतालखर्जूरतरुणानीति , एषामेवंविधानां चान्येषां कषायवर्गपरिसङ्ख्यातानामौषधद्रव्याणां छेद्यानि खण्डशश्छेदयित्वा भेद्यानि चाणुशो भेदयित्वा प्रक्षाल्य पानीयेनाभ्यासिच्य साधयित्वोपसंस्कृत्य यथावन्मधुतैललवणोपहितं सुखोष्णं बस्तिं श्लेष्मविकारिणे विधिज्ञो विधिवद्दद्यात्, शीतं तु मधुसर्पिर्भ्यामुपसंसृज्य पित्तविकारिणे दद्यात्| इति कषायस्कन्धः||१४४||

🔊 Audio coming soon

Adhikarana 111 (145-146) · Śloka 146

तत्र श्लोकाः- षड्वर्गाः परिसङ्ख्याता य एते रसभेदतः| आस्थापनमभिप्रेत्य तान्विद्यात्सार्वयौगिकान्||१४५|| सर्वशो हि प्रणिहिताः सर्वरोगेषु जानता| सर्वान्रोगान्नियच्छन्ति येभ्य आस्थापनं हितम्||१४६||

🔊 Audio coming soon

Adhikarana 112 (147-148) · Śloka 148

येषां येषां प्रशान्त्यर्थं ये ये न परिकीर्तिताः| द्रव्यवर्गा विकाराणां तेषां ते परिकोपकाः||१४७|| इत्येते षडास्थापनस्कन्धा रसतोऽनुविभज्य व्याख्याताः||१४८||

🔊 Audio coming soon

Adhikarana 113 (149) · Śloka 149

तेभ्यो भिषग्बुद्धिमान् परिसङ्ख्यातमपि यद्यद्द्रव्यमयौगिकं मन्येत, तत्तदपकर्षयेत्; यद्यच्चानुक्तमपि यौगिकं मन्येत, तत्तद्विदध्यात्; वर्गमपि वर्गेणोपसंसृजेदेकमेकेनानेकेन वा युक्तिं प्रमाणीकृत्य| प्रचरणमिव भिक्षुकस्य बीजमिव कर्षकस्य सूत्रं बुद्धिमतामल्पमप्यनल्पज्ञानाय भवति; तस्माद्बुद्धिमतामूहापोहवितर्काः, मन्दबुद्धेस्तु यथोक्तानुगमनमेव श्रेयः| यथोक्तं हि मार्गमनुगच्छन् भिषक् संसाधयति कार्यमनतिमहत्त्वाद्वा विनिपातयत्यनतिह्रस्वत्वादुदाहरणस्येति||१४९||

🔊 Audio coming soon

Adhikarana 114 (150) · Śloka 150

अतः परमनुवासनद्रव्याण्यनुव्याख्यास्यामः| अनुवासनं तु स्नेह एव| स्नेहस्तु द्विविधः- स्थावरात्मकः, जङ्गमात्मकश्च| तत्र स्थावरात्मकः स्नेहस्तैलमतैलं च| तद्द्वयं तैलमेव कृत्वोपदेक्ष्यामः, सर्वतस्तैलप्राधान्यात्| जङ्गमात्मकस्तु वसा, मज्जा, सर्पिरिति| तेषां तैलवसामज्जसर्पिषां यथापूर्वं श्रेष्ठं वातश्लेष्मविकारेष्वनुवासनीयेषु, यथोत्तरं तु पित्तविकारेषु, सर्व एव वा सर्वविकारेष्वपि योगमुपयान्ति संस्कारविधिविशेषादिति||१५०||

🔊 Audio coming soon

Adhikarana 115 (151) · Śloka 151

शिरोविरेचनद्रव्याणि पुनरपामार्गपिप्पलीमरिचविडङ्गशिग्रुशिरीषतुम्बुरुपिल्वजाज्यमोदावार्ताकीपृथ्वीकैलाहरेणुकाफलानि च, सुमुखसुरसकुठेरकगण्डीरकालमालकपर्णासक्षवकफणिज्झकहरिद्राशृङ्गवेरमूलकलशुनतर्कारीसर्षपपत्राणि च, अर्कालर्ककुष्ठनागदन्तीवचापामार्गश्वेताज्योतिष्मतीगवाक्षीगण्डीरपुष्प्यवाक्पुष्पीवृश्चिकालीवयस्थातिविषामूलानि च, हरिद्राशृङ्गवेरमूलकलशुनकन्दाश्च, लोध्रमदनसप्तपर्णनिम्बार्कपुष्पाणि च, देवदार्वगुरुसरलशल्लकीजिङ्गिन्यसनहिङ्गुनिर्यासाश्च, तेजोवतीवराङ्गेङ्गुदीशोभाञ्जनकबृहतीकण्टकारिकात्वचश्चेति| शिरोविरेचनं सप्तविधं, फल-पत्र-मूल-कन्द-पुष्प-निर्यास-त्वगाश्रयभेदात्| लवणकटुतिक्तकषायाणि चेन्द्रियोपशयानि तथाऽपराण्यनुक्तान्यपि द्रव्याणि यथायोगविहितानि शिरोविरेचनार्थमुपदिश्यन्त इति||१५१||

🔊 Audio coming soon

Adhikarana 116 (152-154) · Śloka 154

तत्र श्लोकाः- लक्षणाचार्यशिष्याणां परीक्षा कारणं च यत्| अध्येयाध्यापनविधी सम्भाषाविधिरेव च||१५२|| षड्भिरूनानि पञ्चाशद्वादमार्गपदानि च| पदानि दश चान्यानि कारणादीनि तत्त्वतः||१५३|| सम्प्रश्नश्च परीक्षादेर्नवको वमनादिषु| भिषग्जितीये रोगाणां विमाने सम्प्रकाशितः||१५४||

🔊 Audio coming soon

Adhikarana 117 (155-157) · Śloka 157

बहुविधमिदमुक्तमर्थजातं बहुविधवाक्यविचित्रमर्थकान्तम्| बहुविधशुभशब्दसन्धियुक्तं बहुविधवादनिसूदनं परेषाम्||१५५|| इमां मतिं बहुविधहेतुसंश्रयां विजज्ञिवान् परमतवादसूदनीम्| न सज्जते परवचनावमर्दनैर्न शक्यते परवचनैश्च मर्दितुम्||१५६|| दोषादीनां तु भावानां सर्वेषामेव हेतुमत्| मानात् सम्यग्विमानानि निरुक्तानि विभागशः||१५७||

🔊 Audio coming soon

Adhikarana puShpikA · Śloka 8

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते विमानस्थाने रोगभिषग्जितीयविमानं नामाष्टमोऽध्यायः||८|| (अग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते| अनेनावधिना स्थानं विमानानां समर्थितम्|)|

🔊 Audio coming soon