Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

10. rājayakṣmakṣatakṣīṇanidānam

Adhikarana rAjayakShmanidAnam (1) · Śloka 1

अथ राजयक्ष्मक्षतक्षीणनिदानम् | वेगरोधात् क्षयाच्चैव साहसाद्विषमाशनात् | त्रिदोषो जायते यक्ष्मा गदो हेतुचतुष्टयात् ||१||

🔊 Audio coming soon

Adhikarana rAjayakShmasamprAptiH (2) · Śloka 2

कफप्रधानैर्दोषैस्तु रुद्धेषु रसवर्त्मसु | अतिव्यवायिनो वाऽपि क्षीणे रेतस्यनन्तराः | क्षीयन्ते धातवः सर्वे ततः शुष्यति मानवः ||२||

🔊 Audio coming soon

Adhikarana rAjayakShmapUrvarUpam (3-4) · Śloka 4

श्वासाङ्गमर्दकफसंस्रवतालुशोषवम्यग्निसादमदपीनसकासनिद्राः | शोषे भविष्यति भवन्ति स चापि जन्तुः शुक्लेक्षणो भवति मांसपरो रिरंसुः ||३|| (सु. उ. तं. अ. ४१) | स्वप्नेषु काकशुकशल्लकिनीलकण्ठा गृध्रास्तथैव कपयः कृकलासकाश्च | तं वाहयन्ति स नदीर्विजलाश्च पश्येच्छुष्कांस्तरून् पवनधूमदवार्दितांश्च ||४|| (सु. उ. तं. अ. ४१) |

🔊 Audio coming soon

Adhikarana trirUparAjayakShmaNo lakShaNam (5) · Śloka 5

अंसपार्श्वाभितापश्च सन्तापः करपादयोः | ज्वरः सर्वाङ्गगश्चेति लक्षणं राजयक्ष्मणः ||५|| (च. चि. अ. ८) |

🔊 Audio coming soon

Adhikarana rAjayakShmaNaH ShaDrUpANi (6) · Śloka 6

( भक्तद्वेषो ज्वरः श्वासः कासः शोणितदर्शनम् | स्वरभेदश्च जायेत षड्रूपं राजयक्ष्मणि) |६|

🔊 Audio coming soon

Adhikarana ulbaNadoShabhedena yakShmaNa ekAdasha rUpANi (6-7) · Śloka 7

स्वरभेदोऽनिलाच्छूलं सङ्कोचश्चांसपार्श्वयोः | ज्वरो दाहोऽतिसारश्च पित्ताद्रक्तस्य चागमः ||६|| (सु. उ. तं. अ. ४१) | शिरसः परिपूर्णत्वमभक्तच्छन्द एव च | कासः कण्ठस्य चोद्ध्वंसो विज्ञेयः कफकोपतः ||७|| (सु. उ. तं. अ. ४१) |

🔊 Audio coming soon

Adhikarana yakShmiNo~asAdhyalakShaNam (8-12) · Śloka 12

एकादशभिरेभिर्वा षड्भिर्वाऽपि समन्वितम् | कासातीसारपार्श्वार्तिस्वरभेदारुचिज्वरैः ||८|| त्रिभिर्वा पीडितं लिङ्गैः कासश्वासासृगामयैः | जह्याच्छोषार्दितं जन्तुमिच्छन् सुविमलं यशः ||९|| (सु. उ. तं. अ. ४१) | सर्वैरर्धैस्त्रिभिर्वाऽपि लिङ्गैर्मांसबलक्षये | युक्तो वर्ज्यश्चिकित्स्यस्तु सर्वरूपोऽप्यतोऽन्यथा ||१०|| महाशनं क्षीयमाणमतीसारनिपीडितम् | शूनमुष्कोदरं चैव यक्ष्मिणं परिवर्जयेत् ||११|| शुक्लाक्षमन्नद्वेष्टारमूर्ध्वश्वासनिपीडितम् | कृच्छ्रेण बहुमेहन्तं यक्ष्मा हन्तीह मानवम् ||१२||

🔊 Audio coming soon

Adhikarana yakShmiNaH sAdhyalakShaNam (13) · Śloka 13

ज्वरानुबन्धरहितं बलवन्तं क्रियासहम् | उपक्रमेदात्मवन्तं दीप्ताग्निमकृशं नरम् ||१३|| (सु. उ. तं. अ. ४१) |

🔊 Audio coming soon

Adhikarana shoShabhedAH (14) · Śloka 14

व्यवायशोकवार्धक्यव्यायामाध्वप्रशोषितान् | व्रणोरःक्षतसञ्ज्ञौ च शोषिणौ लक्षणैः शृणु ||१४|| (सु. उ. तं. अ. ४१) |

🔊 Audio coming soon

Adhikarana vyavAyashoShiNo lakShaNam (15) · Śloka 15

व्यवायशोषी शुक्रस्य क्षयलिङ्गैरुपद्रुतः | पाण्डुदेहो यथापूर्वं क्षीयन्ते चास्य धातवः ||१५|| (सु. उ. तं. अ. ४१) |

🔊 Audio coming soon

Adhikarana shokashoShiNo lakShaNam (16) · Śloka 16

प्रध्यानशीलः स्रस्ताङ्गः शोकशोष्यपि तादृशः |१६| (सु. उ. तं. अ. ४१) |

🔊 Audio coming soon

Adhikarana vArdhakyashoShiNo lakShaNam (16-17) · Śloka 17

जराशोषी कृशो मन्दवीर्यबुद्धिबलेन्द्रियः ||१६|| कम्पनोऽरुचिमान् भिन्नकांस्यपात्रहतस्वरः | ष्ठीवति श्लेष्मणा हीनं गौरवारतिपीडितः ||१७|| सम्प्रस्रुतास्यनासाक्षिः शुष्करूक्षमलच्छविः | (सु. उ. तं. अ. ४१) |

🔊 Audio coming soon

Adhikarana adhvashoShiNo lakShaNam (18) · Śloka 18

अध्वशोषी च स्रस्ताङ्गः सम्भृष्टपरुषच्छविः ||१८|| प्रसुप्तगात्रावयवः शुष्कक्लोमगलाननः | (सु. उ. तं. अ. ४१) |

🔊 Audio coming soon

Adhikarana vyAyAmashoShiNo lakShaNam (19) · Śloka 19

व्यायामशोषी भूयिष्ठमेभिरेव समन्वितः | लिङ्गैरुरःक्षतकृतैः संयुक्तश्च क्षतं विना ||१९|| (सु. उ. तं. अ. ४१) |

🔊 Audio coming soon

Adhikarana vraNashoShiNo lakShaNam (20) · Śloka 20

रक्तक्षयाद्वेदनाभिस्तथैवाहारयन्त्रणात् | व्रणितस्य भवेच्छोषः स चासाध्यतमो मतः ||२०|| (सु. उ. तं. अ. ४१) |

🔊 Audio coming soon

Adhikarana sanidAnamuraHkShatalakShaNam (21-28) · Śloka 28

धनुषाऽऽयस्यतोऽत्यर्थं भारमुद्वहतो गुरुम् | युध्यमानस्य बलिभिः पततो विषमोच्चतः ||२१|| वृषं हयं वा धावन्तं दम्यं वाऽन्यं निगृह्णतः | शिलाकाष्ठाश्मनिर्घातान् क्षिपतो निघ्नतः परान् ||२२|| अधीयानस्य वाऽत्युच्चैर्दूरं वा व्रजतो द्रुतम् | महानदीर्वा तरतो हयैर्वा सह धावतः ||२३|| सहसोत्पततो दूरं तूर्णं वाऽपि प्रनृत्यतः | तथाऽन्यैः कर्मभिः क्रूरैर्भृशमभ्याहतस्य वा ||२४|| विक्षते वक्षसि व्याधिर्बलवान् समुदीर्यते | स्त्रीषु चातिप्रसक्तस्य रूक्षाल्पप्रमिताशिनः ||२५|| उरो विभज्यतेऽत्यर्थं भिद्यतेऽथ विरुज्यते | प्रपीड्यते ततः पार्श्वे शुष्यत्यङ्गं प्रवेपते ||२६|| क्रमाद्वीर्यं बलं वर्णो रुचिरग्निश्च हीयते | ज्वरो व्यथा मनोदैन्यं विड्भेदाग्निवधावपि ||२७|| दुष्टः श्यावः सुदुर्गन्धः पीतो विग्रथितो बहुः | कासमानस्य चाभीक्ष्णं कफः सासृक् प्रवर्तते ||२८|| स क्षती क्षीयतेऽत्यर्थं तथा शुक्रौजसोः क्षयात् | (च. चि. अ. १६) |

🔊 Audio coming soon

Adhikarana uraHkShatapUrvarUpam (29) · Śloka 29

अव्यक्तं लक्षणं तस्य पूर्वरूपमिति स्मृतम् ||२९||

🔊 Audio coming soon

Adhikarana kShatakShINayorasAdhyalakShaNam (30) · Śloka 30

उरोरुक् शोणितच्छर्दिः कासो वैशेषिकः क्षते | क्षीणे सरक्तमूत्रत्वं पार्श्वपृष्ठकटीग्रहः ||३०|| (च. चि. अ. १६) |

🔊 Audio coming soon

Adhikarana kShatakShINayoH sAdhyAsAdhyavicAraH (31) · Śloka 31

अल्पलिङ्गस्य दीप्ताग्नेः साध्यो बलवतो नवः | परिसंवत्सरो याप्यः सर्वलिङ्गं तु वर्जयेत् ||३१|| (च. चि. अ. १६) |

🔊 Audio coming soon

Adhikarana puShpikA · Śloka 10

इति श्रीमाधवकरविरचिते माधवनिदाने राजयक्ष्मक्षतक्षीणनिदानं समाप्तम् ||१०||

🔊 Audio coming soon