Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

11. ślēṣmābhiṣyandapratiṣēdhādhyāyaḥ

Adhikarana 1 (1-2) · Śloka 2

अथातः श्लेष्माभिष्यन्दप्रतिषेधं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||

🔊 Audio coming soon

Adhikarana 2 (3-4) · Śloka 5

स्यन्दाधिमन्थौ कफजौ प्रवृद्धौ जयेत् सिराणामथ मोक्षणेन | स्वेदावपीडाञ्जनधूमसेकप्रलेपयोगैः कवलग्रहैश्च ||३|| रूक्षैस्तथाऽऽश्च्योतनसंविधानैस्तथैव रूक्षैः पुटपाकयोगैः | त्र्यहात्त्र्यहाच्चाप्यपतर्पणान्ते प्रातस्तयोस्तिक्तघृतं प्रशस्तम् ||४|| तदन्नपानं च समाचरेद्धि यच्छ्लेष्मणो नैव करोति वृद्धिम् |५|

🔊 Audio coming soon

Adhikarana 3 (5) · Śloka 6

कुटन्नटास्फोटफणिज्झबिल्वपत्तूरपिल्वर्ककपित्थभङ्गैः ||५|| स्वेदं विदध्यात्... |६|

🔊 Audio coming soon

Adhikarana 4 (6) · Śloka 6

... अथवाऽनुलेपं बर्हिष्ठशुण्ठीसुरकाष्ठकुष्ठैः |६|

🔊 Audio coming soon

Adhikarana 5 (6-9) · Śloka 10

सिन्धूत्थहिङ्गुत्रिफलामधूकप्रपौण्डरीकाञ्जनतुत्थताम्रैः ||६|| पिष्टैर्जलेनाञ्जनवर्तयः स्युः पथ्याहरिद्रामधुकाञ्जनैर्वा | त्रीण्यूषणानि त्रिफला हरिद्रा विडङ्गसारश्च समानि च स्युः ||७|| बर्हिष्ठकुष्ठामरकाष्ठशङ्खपाठामलव्योषमनःशिलाश्च | पिष्ट्वाऽम्बुना वा कुसुमानि जातिकरञ्जशोभाञ्जनजानि युञ्ज्यात् ||८|| फलं प्रकीर्यादथवाऽपि शिग्रोः पुष्पं च तुल्यं बृहतीद्वयस्य | रसाञ्जनं सैन्धवचन्दनं च मनःशिलाले लशुनं च तुल्यम् ||९|| पिष्ट्वाऽञ्जनार्थे कफजेषु धीमान् वर्तीर्विदध्यान्नयनामयेषु |१०|

🔊 Audio coming soon

Adhikarana 6 (11-12) · Śloka 12

रोगे बलासग्रथितेऽञ्जनं ज्ञैः कर्तव्यमेतत् सुविशुद्धकाये ||१०|| नीलान् यवान् गव्यपयोऽनुपीतान् शलाकिनः शुष्कतनून् विदह्य | तथाऽर्जकास्फोतकपित्थबिल्वनिर्गुण्डिजातीकुसुमानि चैव ||११|| तत्क्षारवत्सैन्धवतुत्थरोचनं पक्वं विदध्यादथ लोहनाड्याम् | एतद्बलासग्रथितेऽञ्जनं स्यादेषोऽनुकल्पस्तु फणिज्झकादौ ||१२||

🔊 Audio coming soon

Adhikarana 7 (13) · Śloka 13

महौषधं मागधिकां च मुस्तां ससैन्धवं यन्मरिचं च शुक्लम् | तन्मातुलुङ्गस्वरसेन पिष्टं नेत्राञ्जनं पिष्टकमाशु हन्यात् ||१३||

🔊 Audio coming soon

Adhikarana 8 (14) · Śloka 14

फले बृहत्या मगधोद्भवानां निधाय कल्कं फलपाककाले | स्रोतोजयुक्तं च तदुद्धृतं स्यात्तद्वत्तु पिष्टे ... |१४|

🔊 Audio coming soon

Adhikarana 9 (14) · Śloka 15

...विधिरेष चापि ||१४|| वार्ताकशिग्र्विन्द्रसुरापटोलकिराततिक्तामलकीफलेषु |१५|

🔊 Audio coming soon

Adhikarana 10 (15) · Śloka 16

कासीससामुद्ररसाञ्जनानि जात्यास्तथा क्षा(को)रकमेव चापि ||१५|| प्रक्लिन्नवर्त्मन्युपदिश्यते तु योगाञ्जनं तन्मधुनाऽवघृष्टम् |१६|

🔊 Audio coming soon

Adhikarana 11 (16) · Śloka 17

नादेयमग्र्यं मरिचं च शुक्लं नेपालजाता च समप्रमाणा ||१६|| समातुलुङ्गद्रव एष योगः कण्डूं निहन्यात् सकृदञ्जनेन |१७|

🔊 Audio coming soon

Adhikarana 12 (17) · Śloka 18

सशृङ्गवेरं सुरदारु मुस्तं सिन्धुप्रभू(सू)तं मुकुलानि जात्याः ||१७|| सुराप्रपिष्टं त्विदमञ्जनं हि कण्ड्वां च शोफे च हितं वदन्ति |१८|

🔊 Audio coming soon

Adhikarana 13 (18) · Śloka 19

स्यन्दाधिमन्थक्रममाचरेच्च सर्वेषु चैतेषु सदाऽप्रमत्तः ||१८|| (विशेषतो नावनमेव कार्यं संसर्जनं चापि यथोपदिष्टम् ) ||१९||

🔊 Audio coming soon

Adhikarana puShpikA · Śloka 11

इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे कफाभिष्यन्दप्रतिषेधो नामैकादशोऽध्यायः ||११||

🔊 Audio coming soon