Adhikarana doShopakramaNIyAdhyAyaH (2) · Śloka 2
अतस्तमेवोपक्रमं दर्शयितुं दोषोपक्रमणीयमारिरिप्सुरिदमाह - - - - अथातो दोषोपक्रमणीयमध्यायं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः| (गद्यसूत्रे|२|
🔊 Audio coming soon
Adhikarana doShopakramaNIyAdhyAyaH (2) · Śloka 2
अतस्तमेवोपक्रमं दर्शयितुं दोषोपक्रमणीयमारिरिप्सुरिदमाह - - - - अथातो दोषोपक्रमणीयमध्यायं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः| (गद्यसूत्रे|२|
🔊 Audio coming soon
Adhikarana vAtasyopakramaH (1-3) · Śloka 3
सर्वदोषेभ्यश्च प्रधानो वात इति तदुपक्रमं पूर्वमाह - - - - वातस्योपक्रमः स्नेहः स्वेदः संशोधनं मृदु| स्वाद्वम्ललवणोष्णानि भोज्यान्यभ्यङ्गमर्दनम्||१|| वेष्टनं त्रासनं सेको मद्यं पैष्टिकगौडिकम्| स्निग्धोष्णा बस्तयो बस्तिनियमः सुखशीलता||२|| दीपनैः पाचनैः सिद्धाः स्नेहाश्चानेकयोनयः| विशेषान्मेद्यपिशितरसतैलानुवासनम्||३||
🔊 Audio coming soon
Adhikarana pittasyopakramaH (4-9) · Śloka 9
पित्तस्योपक्रमं वक्ति - - - - पित्तस्य सर्पिषः पानं स्वादुशीतैर्विरेचनम्| स्वादुतिक्तकषायाणि भोजनान्यौषधानि च||४|| सुगन्धिशीतहृद्यानां गन्धानामुपसेवनम्| कण्ठेगुणानां हाराणां मणीनामुरसा धृतिः||५|| कर्पूरचन्दनोशीरैरनुलेपः क्षणे क्षणे| प्रदोषश्चन्द्रमाः सौधं हारि गीतं हिमोऽनिलः||६|| अयन्त्रणसुखं मित्रं पुत्रः सन्दिग्धमुग्धवाक्| छन्दानुवर्तिनो दाराः प्रियाः शीलविभूषिताः||७|| शीताम्बुधारागर्भाणि गृहाण्युद्यानदीर्घिकाः| सुतीर्थविपुलस्वच्छसलिलाशयसैकते||८|| साम्भोजजलतीरान्ते कायमाने द्रुमाकुले| सौम्या भावाः पयः सर्पिर्विरेकश्च विशेषतः||९||
🔊 Audio coming soon
Adhikarana shleShmaNa upakramaH (10-12) · Śloka 12
आधुना श्लेष्मण उपक्रममाह - - - - श्लेष्मणो विधिना युक्तं तीक्ष्णं वमनरेचनम्| अन्नं रूक्षाल्पतीक्ष्णोष्णं कटुतिक्तकषायकम्||१०|| दीर्घकालस्थितं मद्यं रतिप्रीतिः प्रजागरः| अनेकरूपो व्यायामश्चिन्ता रूक्षं विमर्दनम्||११|| विशेषाद्वमनं यूषः क्षौद्रं मेदोघ्नमौषधम्| धूमोपवासगण्डूषा निःसुखत्वं सुखाय च||१२||
🔊 Audio coming soon
Adhikarana saMsargasannipAtabhedAnAmupakramaH (13) · Śloka 13
इदानीं संसर्गोपक्रमं वक्ति - - - उपक्रमः पृथग्दोषान् योऽयमुद्दिश्य कीर्तितः| संसर्गसन्निपातेषु तं यथास्वं विकल्पयेत्||१३||
🔊 Audio coming soon
Adhikarana saMsargabhedAnAmupakramAntaram (14) · Śloka 14
संसर्गे भूयोऽप्युपक्रममाह - - - - ग्रैष्मः प्रायो मरुत्पित्ते वासन्तः कफमारुते| मरुतो योगवाहित्वात्, कफपित्ते तु शारदः||१४||
🔊 Audio coming soon
Adhikarana upakramasya kAlaH (15) · Śloka 15
सम्प्रत्युपक्रमस्य कालं वक्ति - - - - चय एव जयेद्दोषं कुपितं त्वविरोधयन्| सर्वकोपे बलीयांसं शेषदोषाविरोधतः||१५||
🔊 Audio coming soon
Adhikarana ashuddhashuddhaprayogayorlakShaNam (16) · Śloka 16
प्रयोगः शमयेद्व्याधिमेकं योऽन्यमुदीरयेत्| नाऽसौ विशुद्धः शुद्धस्तु शमयेद्यो न कोपयेत्||१६||
🔊 Audio coming soon
Adhikarana doShANAM sthAnAntaraprAptiprakAraH (17-19) · Śloka 19
अत कथं दोषाः कोष्ठाच्छाखास्थिमर्मसु यान्ति ? इत्याह - - - - व्यायामादूष्मणस्तैक्ष्ण्यादहिताचरणादपि| कोष्ठाच्छाखास्थिमर्माणि द्रुतत्वान्मारुतस्य च||१७|| शाखादिभ्यः कथं दोषाः कोष्ठं यान्ति ? इत्याह - - - - दोषा यान्तितथा तेभ्यः स्रोतोमुखविशोधनात्| वृद्ध्याऽभिष्यन्दनात्पाकात्कोष्ठं वायोश्च निग्रहात्||१८|| कोष्ठस्था दोषाः किं कुर्यः ? इत्याह - - - - तत्रस्थाश्च विलम्बेरन् भूयो हेतुप्रतीक्षिणः| |१९|
🔊 Audio coming soon
Adhikarana doShAH kAlAdibalenAnyasthAne~api kupyanti (19) · Śloka 19
यद्येवं किं कदाचिदप्यन्यस्थानगता दोषा हीनशक्तित्वान्न रोगान् कुर्युः ? इत्याह - - - - | ते कालादिबलं लब्ध्वा कुपयन्त्यन्याश्रयेष्वपि||१९||
🔊 Audio coming soon
Adhikarana AgantudoShasyAlpabalasya sthAnicikitsA (20) · Śloka 20
इदानीं परस्थानगतानां दोषाणां विकल्पेन चिकित्सामुपदिशन्नाह - - - - तत्रान्यस्थानसंस्थेषु तदीयामबलेषु तु| कुर्याच्चिकित्साम्|२०|
🔊 Audio coming soon
Adhikarana prabalasyAgantoH svacikitsA (20) · Śloka 20
अत एवाह - - - - | स्वामेव बलेनान्याभिभाविषु||२०||
🔊 Audio coming soon
Adhikarana AgantusthAninostulyabalayoH krameNa cikitsA (21) · Śloka 21
किमेष एव नियमः ? यदन्यस्थानगतेष्वबलेष्वागन्तुषु स्थानिदोषसम्बन्धिनीं चिकित्सां कुर्यात्| बलवत्सु पुनरागन्तुसम्बन्धिनीं चिकित्सां कुर्यात्| अथ पक्षान्तरोऽपि कुत्रचित् कश्चिदस्ति ? इत्याह - - - - आगन्तुं शमयेद्दोषं स्थानिनं प्रतिकृत्य वा| |२१|
🔊 Audio coming soon
Adhikarana tiryaggateShu doSheShu sAvadhAnena cikitsA (21-22) · Śloka 22
तिर्यग्गतेषु दोषेषु यत्कार्यं तदाह - - - - | प्रायस्तिर्यग्गता दोषाः क्लेशयन्त्यातुरांश्चिरम्||२१|| कुर्यान्न तेषु त्वरया देहाग्निबलवित् क्रियाम्| |२२|
🔊 Audio coming soon
Adhikarana taccikitsAprakAraH (22-23) · Śloka 23
कथं तेषामुपक्रमः कार्यः ? इत्याह - - - - | शमयेत्तान् प्रयोगेण सुखं वा कोष्ठमानयेत्||२२|| ज्ञात्वा कोष्ठप्रपन्नांश्च यथासन्नं विनिर्हरेत्| |२३|
🔊 Audio coming soon
Adhikarana sAmadoShalakShaNam, nirAmadoShalakShaNam (23-24) · Śloka 24
सम्प्रति साममललिङ्गमाह - - - - | स्रोतोरोधबलभ्रंशगौरवानिलमूढताः||२३|| आलस्यापक्तिनिष्ठीवमलसङ्गारुचिक्लमाः| लिङ्गं मलानां सामानां, निरामाणां विपर्ययः||२४||
🔊 Audio coming soon
Adhikarana AmalakShaNam (25) · Śloka 25
सम्प्रत्यामलिङ्गमाह - - - - ऊष्मणोऽल्पबलत्वेन धातुमाद्यमपाचितम्| दुष्टमामाशयगतं रसमामं प्रचक्षते||२५||
🔊 Audio coming soon
Adhikarana anyamatenAmalakShaNam (26) · Śloka 26
अन्ये दोषेभ्य एवातिदुष्टेभ्योऽन्योन्यमूर्च्छनात्| कोद्रवेभ्यो विषस्येव वदन्त्यामस्य सम्भवम्||२६||
🔊 Audio coming soon
Adhikarana sAmA doShA rogAshca (27) · Śloka 27
आमेन तेन सम्पृक्ता दोषा दूष्याश्च दूषिताः| सामा इत्युपदिश्यन्ते ये च रोगास्तदुद्भवाः||२७||
🔊 Audio coming soon
Adhikarana sAmadoShANAM cikitsA, sarvadehapravisRutAdisAmadoSheShu shodhananiShedhaH (28-29) · Śloka 29
सामा अपि दोषा यादृशा न निर्हार्यास्तादृशान् दर्शयति - - - - सर्वदेहप्रविसृतान् सामान् दोषान् न निर्हरेत्| लीनान् धातुष्वनुत्क्लिष्टान् फलादामाद्रसानिव||२८|| आश्रयस्य हि नाशाय ते स्युर्दुर्निर्हरत्वतः| |२९|
🔊 Audio coming soon
Adhikarana tAn shedhanayogyAn kRutva yathAsannaM shodhayet (29-30) · Śloka 30
तर्हीदृशे दोषे किं कार्यम् ? इत्याह - - - - | पाचनैर्दीपनैः स्नेहैस्तान् स्वेदैश्च परिष्कृतान्||२९|| शोधयेच्छोधनैः काले यथासन्नं यथाबलम्| |३०|
🔊 Audio coming soon
Adhikarana yathAsannamArgaH (30-31) · Śloka 31
कस्य को मार्ग आसन्नः ? इत्याह - - - - | हन्त्याशु युक्तं वक्क्रेण द्रव्यमामाशयान्मलान्||३०|| घ्राणेन चोर्ध्वजत्रूत्थान् पक्वाधानाद्गुदेन च| |३१|
🔊 Audio coming soon
Adhikarana svayaMpravRuttAnsAmAnna stambhayet (31-32) · Śloka 32
इदानीं यादृशा आमा न धार्यास्तादृशान् दर्शयति - - - - | उत्क्लिष्टानध ऊर्ध्वं वा न चामान् वहतः स्वयम्||३१|| धारयेदौषधैर्दोषान् विधृतास्ते हि रोगदाः| |३२|
🔊 Audio coming soon
Adhikarana teShUpekShaiva bheShajam, savibandheShu teShu pAcanA nirharaNaM vA (32-33) · Śloka 33
तेषु तु यत्कार्यं तदाह - - - - | प्रवृत्तान् प्रागतो दोषानुपेक्षेत हिताशिनः||३२|| विबद्धान् पाचनैस्तैस्तैः पाचयन्निर्हरेत वा| |३३|
🔊 Audio coming soon
Adhikarana svasthasya shodhanakAlaH (33-34) · Śloka 34
अथ कः शोधनकालः ? इत्याह - - - - | श्रावणे कार्तिके चैत्रे मासि साधारणे क्रमात्||३३|| ग्रीष्मवर्षाहिमचितान् वाय्वादीनाशु निर्हरेत्| |३४|
🔊 Audio coming soon
Adhikarana asandhau shodhananiShedhaH (34-35) · Śloka 35
ननु, ग्रीष्मादिष्वेव कस्माद्वातादयो न शोध्यन्ते ? इत्याह - - - - | अत्युष्णवर्षशीता हि ग्रीष्मवर्षाहिमागमाः||३४|| सन्धौ साधारणे तेषां दुष्टान् दोषान् विशोधयेत्| संशोधनसाध्यस्यायमेव संशोधनकालः ? नेत्याह - - - - स्वस्थवृत्तमभिप्रेत्य, व्याधौ व्याधिवशेन तु||३५||
🔊 Audio coming soon
Adhikarana vyAdhitasya shodhanakAlaH (36) · Śloka 36
यदि हेमन्तादावतिशीतोष्णादौ काले व्याधिः संशोधनसाध्यः सम्भवेत्, तदा कथं संशोधनं कार्यम् ? इत्याह - - - - कृत्वा शीतोष्णवृष्टीनां प्रतीकारं यथायथम्| प्रयोजयेत्क्रियां प्राप्तां क्रियाकालं न हापयेत्||३६||
🔊 Audio coming soon
Adhikarana shamanauShadhakAlAH dasha (37) · Śloka 37
सम्प्रत्यौषधकालान् दर्शयन्नाह - - - - युञ्ज्यादनन्नमन्नादौ मध्येऽन्ते कवलान्तरे| ग्रासे ग्रासे मुहुः सान्नं सामुद्गं निशिचौषधम्||३७||
🔊 Audio coming soon
Adhikarana anannasya viShayaH, prAgbhaktasya viShayaH, madhyebhaktasya viShayaH, adhobhaktasya viShayaH, grAsagrAsAntayorviShayaH, muhurauShadhasya viShayaH, sAnnasya viShayaH, sAmudrasya viShayaH, naishauShadhasya viShayaH (13) · Śloka 13
अधुना विषयविभागेन यस्मिन् व्याधौ यदुपयुज्यते तद्दर्शयति - - - - कफोद्रेके गदेऽनन्नं बलिनो रोगरोगिणोः| अन्नादौ विगुणेऽपाने, समाने मध्य इष्यते||३८|| व्यानेऽन्ते प्रातराशस्य, सायमाशस्य तूत्तरे| ग्रासग्रासान्तयोः प्राणे प्रदुष्टे मातरिश्वनि||३९|| मुहुर्मुहुर्विषच्छर्दिहिध्मातृट्श्वासकासिषु| योज्यं सभोज्यं भैषज्यं भोज्यैश्चित्रैररोचके||४०|| कम्पाक्षेपकहिध्मासु सामुद्रं लघुभोजिनाम्| ऊर्ध्वजत्रुविकारेषु स्वप्नकाले प्रशस्यते||४१|| इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां सूत्रस्थाने दोषोपक्रमणीयो नाम त्रयोदशोऽध्यायः||१३||
🔊 Audio coming soon