Adhikarana 1 (1-2) · Śloka 2
अथातोऽवाक्शिरसीयमिन्द्रियं व्याख्यास्यामः||१|| इति ह स्माह भगवानात्रेयः||२||
🔊 Audio coming soon
Adhikarana 1 (1-2) · Śloka 2
अथातोऽवाक्शिरसीयमिन्द्रियं व्याख्यास्यामः||१|| इति ह स्माह भगवानात्रेयः||२||
🔊 Audio coming soon
Adhikarana 2 (3-7) · Śloka 7
अवाक्शिरा वा जिह्मा वा यस्य वा विशिरा भवेत्| जन्तो रूपप्रतिच्छाया नैनमिच्छेच्चिकित्सितुम्||३|| जटीभूतानि पक्ष्माणि दृष्टिश्चापि निगृह्यते | यस्य जन्तोर्न तं धीरो भेषजेनोपपादयेत्||४|| यस्य शूनानि वर्त्मानि न समायान्ति शुष्यतः| चक्षुषी चोपदिह्येते यथा प्रेतस्तथैव सः||५|| भ्रुवोर्वा यदि वा मूर्ध्नि सीमन्तावर्तकान् बहून्| अपूर्वानकृतान् व्यक्तान् दृष्ट्वा मरणमादिशेत्||६|| त्र्यहमेतेन जीवन्ति लक्षणेनातुरा नराः| अरोगाणां पुनस्त्वेतत् षड्रात्रं परमुच्यते ||७||
🔊 Audio coming soon
Adhikarana 3 (8-9) · Śloka 9
आयम्योत्पाटितान् केशान् यो नरो नावबुध्यते| अनातुरो वा रोगी वा षड्रात्रं नातिवर्तते||८|| यस्य केशा निरभ्यङ्गा दृश्यन्तेऽभ्यक्तसन्निभाः| उपरुद्धायुषं ज्ञात्वा तं धीरः परिवर्जयेत्||९||
🔊 Audio coming soon
Adhikarana 4 (10-12) · Śloka 12
ग्लायते नासिकावंशः पृथुत्वं यस्य गच्छति| अशूनः शूनसङ्काशः प्रत्याख्येयः स जानता||१०|| अत्यर्थविवृता यस्य यस्य चात्यर्थसंवृता| जिह्मा वा परिशुष्का वा नासिका न स जीवति||११|| मुखं शब्दश्रवावोष्ठौ शुक्लश्यावातिलोहितौ| विकृत्या यस्य वा नीलौ न स रोगाद्विमुच्यते||१२||
🔊 Audio coming soon
Adhikarana 5 (13-20) · Śloka 20
अस्थिश्वेता द्विजा यस्य पुष्पिताः पङ्कसंवृताः| विकृत्या न स रोगं तं विहायारोग्यमश्नुते||१३|| स्तब्धा निश्चेतना गुर्वी कण्टकोपचिता भृशम्| श्यावा शुष्काऽथवा शूना प्रेतजिह्वा विसर्पिणी||१४|| दीर्घमुच्छ्वस्य यो ह्रस्वं नरो निःश्वस्य ताम्यति| उपरुद्धायुषं ज्ञात्वा तं धीरः परिवर्जयेत्||१५|| हस्तौ पादौ च मन्ये च तालु चैवातिशीतलम्| भवत्यायुःक्षये क्रूरमथवाऽपि भवेन्मृदु||१६|| घट्टयञ्जानुना जानु पादावुद्यम्य पातयन्| योऽपास्यति मुहुर्वक्रमातुरो न स जीवति||१७|| दन्तैश्छिन्दन्नखाग्राणि नखैच्छिन्दञ्छिरोरुहान्| काष्ठेन भूमिं विलिखन्न रोगात् परिमुच्यते||१८|| दन्तान् खादति यो जाग्रदसाम्ना विरुदन् हसन्| विजानाति न चेद्दुःखं न स रोगाद्विमुच्यते||१९|| मुहुर्हसन् मुहुः क्ष्वेडन् शय्यां पादेन हन्ति यः| उच्चैश्छिद्राणि विमृशन्नातुरो न स जीवति||२०||
🔊 Audio coming soon
Adhikarana 6 (21-27) · Śloka 27
यैर्विन्दति पुरा भावैः समेतैः परमां रतिम्| तैरेवारममाणस्य ग्लास्नोर्मरणमादिशेत्||२१|| न बिभर्ति शिरो ग्रीवा न पृष्ठं भारमात्मनः| न हनू पिण्डमास्यस्थमातुरस्य मुमूर्षतः||२२|| सहसा ज्वरसन्तापस्तृष्णा मूर्च्छा बलक्षयः| विश्लेषणं च सन्धीनां मुमूर्षोरुपजायते||२३|| गोसर्गे वदनाद्यस्य स्वेदः प्रच्यवते भृशम्| लेपज्वरोपतप्तस्य दुर्लभं तस्य जीवितम्||२४|| नोपैति कण्ठमाहारो जिह्वा कण्ठमुपैति च| आयुष्यन्तं गते जन्तोर्बलं च परिहीयते||२५|| शिरो विक्षिपते कृच्छ्रान्मुञ्चयित्वा प्रपाणिकौ| ललाटस्रुप्रतस्वेदो मुमूर्षुश्च्युतबन्धनः ||२६|| तत्र श्लोकः- इमानि लिङ्गानि नरेषु बुद्धिमान् विभावयेतावहितो मुमूर्षुषु| क्षणेन भूत्वा ह्युपयान्ति कानिचिन्नचाफलं लिङ्गमिहास्ति किञ्चन||२७||
🔊 Audio coming soon
Adhikarana puShpikA · Śloka 8
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते इन्द्रियस्थानेऽवाक्शिरसीयमिन्द्रियं नामाष्टमोऽध्यायः||८||
🔊 Audio coming soon