अथ कुष्ठनिदानम् | विरोधीन्यन्नपानानि द्रवस्निग्धगुरूणि च | भजतामागतां छर्दिं वेगांश्चान्यान् प्रतिघ्नताम् ||१|| व्यायाममतिसन्तापमतिभुक्त्वा निषेविणाम् | घर्मश्रमभयार्तानां द्रुतं शीताम्बुसेविनाम् ||२|| अजीर्णाध्यशिनां चैव पञ्चकर्मापचारिणाम् | नवान्नदधिमत्स्यातिलवणाम्लनिषेविणाम् ||३|| माषमूलकपिष्टान्नतिलक्षीरगुडाशिनाम् | व्यवायं चाप्यजीर्णेऽन्ने निद्रां च भजतां दिवा ||४|| विप्रान् गुरून् धर्षयतां पापं कर्म च कुर्वताम् | वातादयस्त्रयो दुष्टास्त्वग्रक्तं मांसमम्बु च ||५|| दूषयन्ति स कुष्ठानां सप्तको द्रव्यसङ्ग्रहः | अतः कुष्ठानि जायन्ते सप्त चैकादशैव च ||६|| (च. चि. अ. ७) |
🔊 Audio coming soon
Show commentary
मधुकोश व्याख्या (विजयरक्षित, श्रीकण्ठदत्त कृत)
अष्टादशसङ्ख्यारूपेण तुल्यत्वात् कुष्ठनिदानमुच्यते| विशेषेण कुष्ठजनकं निदानमाह– विरोधीनीत्यादि| विरोधीनि “न मत्स्यान् पयसाऽभ्यवहरेत्” (च. सू. अ. २६) इत्यादिनोक्तानि| भजतामिति पूर्वेण सम्बध्यते| आगतामिति उपस्थितवेगाम्| वेगांश्चान्यानिति मूत्रपुरीषादिवेगान्| व्यायाममतिसन्तापमतिभुक्त्वेति भुक्त्वा व्यायाममतियुज्य सन्तापमतियुज्य च निषेविणामिति एतयोरेव सेवनशीलानां; निषेविणामित्यनेन सह प्रथमतः सम्बन्धे कृद्योगलक्षणा षष्ठी स्यात्, ततश्च व्यायामस्यातिसन्तापस्यातिनिषेविणामिति प्रयोगः प्रसज्येत| “शीतोष्णलङ्घनाहारान् क्रमं मुक्त्वा निषेविणाम्” इति पाठान्तरे शीतोष्णादीनां यदा येन क्रमेण सेव्यत्वमुक्तं, तद्वैपरीत्येन तान् सेव्यमानान्| शीतोष्णलङ्घनाहारानित्यनन्तरं प्रतीति द्रष्टव्यं, तेन शीतोष्णादीन् प्रति यः क्रमस्तं मुक्त्वा एतेषामेव निषेविणाम्| घर्मश्रमभयार्तानामिति घर्मादिभिरार्तत्वे सति द्रुतमविश्रम्य शीताम्बुसेविनाम्| घर्म आतपः| अजीर्णाध्यशिनामिति अजीर्णमाममन्नम्, अपक्वमिति यावत्, तद्भुञ्जानानाम्; अध्यशिनामाहारे एवापरिणते भुञ्जानानाम्| अशिनामिति अजीर्णाधिशब्दाभ्यां सह सम्बन्ध्यते| पञ्चकर्मापचारिणामिति पञ्चकर्मणि क्रियमाणे अपचारिणाम्| नवान्नदधिमत्स्यानीति अतिशब्दो नवान्नादिभिः सर्वैः सम्बध्यते| व्यवायं चाप्यजीर्ण इति विदग्धादिरूपे अजीर्णे| धर्षयतामिति अभिभवताम्| पापं कर्म च कुर्वतामित्यनेनैव विप्रादिधर्षणे लब्धे पुनस्तद्वचनं विशेषार्थम्| दोषदूष्यसङ्ग्रहमाह– वातादय इत्यादिना| वातादीनां त्रित्वे प्रतीतेऽपि त्रय इति वचनं सर्वकुष्ठेषु मिलितानामेव त्रयाणां दुष्टिप्रदर्शनार्थम्| द्रव्यसङ्ग्रह इति द्रव्यमारम्भकं कारणमुच्यते; यथा– “रसनार्थो रसस्तस्य द्रव्यमापः क्षितिस्तथा|” (च. सू. अ. १) इति| अर्थलब्धमपि सप्तकमिति पदं सर्वत्र सप्तकनियमार्थं पुनरुक्तम्| ननु, विसर्पाणां समुत्पादे एतावत्येव सामग्री, यदुक्तम्– “रक्तं लसीका त्वङ्मांसं दूष्यं दोषास्त्रयो मलाः| विसर्पाणां समुत्पत्तौ विज्ञेयाः सप्त धातवः||” (च. चि. अ. २१) इति| लसीकया च तत्रोदकमुच्यते, तत् किन्निबन्धनः कुष्ठविसर्पयोर्भेदः? उच्यते– कुष्ठं चिरक्रियैः स्थिरैरप्रबलरक्तपित्तैर्दोषैर्जन्यते, विसर्पस्त्वचिरविसर्पणशीलैः प्रबलरक्तपित्तैः; कुष्ठे गुरुप्रधर्षणपरद्रव्यापहारादयो निमित्तं, न विसर्पे| अन्ये त्वाहुः– विसर्पा वातादिभिरेकैकशोऽपि भवन्ति, यदुक्तम्– “पृथक् त्रयस्त्रिभिश्चैको विसर्पा द्वन्द्वजास्त्रयः|” (च. चि. अ. २१) इति, कुष्ठं तु त्रिदोषजमेवेति| किं त्वेतत्समाधानं त्रिदोषजत्वेऽपि विसर्पाणामेकदोषजकुष्ठवदेकदोषजत्वकीर्तनं सङ्गतमिति न मनोहरम्| अतः कुष्ठानीति अत इत्यस्मात् दोषदूष्यसमुदायात्| सप्त चैकादशैव चेति विच्छेदपाठेन सप्तानां महाकुष्ठत्वमेकादशानां क्षुद्रत्वमिति बोधयति||१-६||
आतङ्कदर्पण व्याख्या (वाचस्पति वैद्य कृत)
अष्टादशरूपसङ्ख्यातुल्यत्वात्कुष्ठनिदानमुच्यते| विशेषेण कुष्ठजनकं निदानमाह– विरोधीनीत्यादि| एतदाचरतां नृणां कुष्ठानि जायन्ते इति सम्बन्धः| विरोधीनि क्षीरमत्स्यादीनि भजतामिति सम्बध्यते| आगतामिति उपस्थितवेगां छर्दिं, तथा वेगांश्चान्यानिति मूत्रपुरीषादिवेगान्, प्रतिघ्नतां प्रतिघातं कुर्वताम्| व्यायाममतिसन्तापमतिभुक्त्वेति भुक्त्वा व्यायाममतियुज्य सन्तापमतियुज्य निषेविणामिति| एतयोरेव सेवनशीलानां, निषेविणामित्यनेन प्रथमतः सम्बन्धे कृद्योगलक्षणा षष्ठी स्यात्; तत्र व्यायामस्यातिसन्तापस्यातिनिषेविणामिति प्रयोगः प्रयुज्यते| शीतेत्यादि शीतोष्णादीनां तु यदा येन क्रमेण सेव्यत्वमुक्तं, तद्वैपरीत्येन तान् सेवमानानाम्| घर्म आतपः| अजीर्णाध्यशिनामित्यादि| अजीर्णमनग्निपक्वमन्नं, चर्वणमिति यावत्, तद्भोजिनाम्| अध्यशिनाम्, आहार एवापरिणते भुञ्जानानाम्| अशिनामिति अजीर्णाधिभ्यां सह सम्बध्यते| पञ्चकर्मापचारिणामिति पञ्च कर्माणि वमनविरेकादीनि, तेषामपचारिणां व्यापत्त्वयोगिनाम्| नवान्नदधिमत्स्यातीति, अतिशब्दो नवान्नादिगुडान्तैः प्रत्येकं सम्बध्यते| व्यवायं चाप्यजीर्णेऽन्ने इत्यादि| व्यवायं मैथुनं, विदग्धरूपे अजीर्णे; दिवा च निद्रां भजताम्| धर्षयतामिति अभिभवताम्| पापं कर्म च कुर्वतामित्यनेनैव विप्रादिधर्षणे लब्धे पुनस्तद्वचनं विशेषार्थप्रतिपादकम्| दोषदूष्यसङ्ग्रहमाह– वातादय इत्यादि| वातादीनां त्रित्वे प्रतीतेऽपि त्रय इति वचनं सर्वकुष्ठेषु मिलितानामेव त्रयाणां दुष्टिप्रदर्शनार्थम्| द्रव्यसङ्ग्रह इति द्रव्यमारम्भकं कारणमुच्यते| यथा– “रसनार्थो रसस्तस्य द्रव्यमापः क्षितिस्तथा|” इति| अर्थलब्धमपि सप्तकमिति पदं सर्वत्र सप्तकनियमार्थं पुनरुक्तम्| ननु, विसर्पाणामप्युत्पत्त्यादौ एतावत्येव सामग्री| यदुक्तम्– “रक्तं लसीका त्वङ्मांसं दूष्यं दोषास्त्रयो मलाः| विसर्पाणां समुत्पत्तौ विज्ञेयाः सप्त धातवः||” इति| तत्कुष्ठविसर्पयोः को भेदः? उच्यते– कुष्ठं चिरक्रियैः स्थिरैरप्रबलरक्तपित्तैर्दोषैर्जन्यते, विसर्पस्त्वचिरविसरणशीलैः प्रबलरक्तपित्तैः, कुष्ठे गुरुप्रधर्षणपरद्रव्यापहारादयो निमित्तं, न विसर्पे| अन्ये त्वाहुः– विसर्पा वातादिभिरेकैकशोऽपि भवन्ति, यदुक्तम्– “पृथक्त्रयस्त्रिभिश्चैको विसर्पा द्वन्द्वजास्त्रयः|” इति; कुष्ठं त्रिदोषजमेवेति| किन्त्वयं समाधिः त्रिदोषजत्वेऽपि विसर्पाणामेकदोषकुष्ठवदेकदोषजत्वकीर्तनं सङ्गतमिति न मनोहरम्| कुष्ठसङ्ख्यामाह– अत इत्यादि| अत इत्यस्माद्दोषदूष्यसमुदायात्सप्त तथा एकादश कुष्ठानि जायन्ते| सप्त चैकादशैवेति विच्छेदपाठेन सप्तानां महाकुष्ठत्वमेकदशानां क्षुद्रत्वमिति बोधयति||१-६||