Adhikarana medoroganidAna-samprApti-lakShaNAni, atisthUlalakShaNaM ca (1-9) · Śloka 9
अथ मेदोरोगनिदानम् | अव्यायामदिवास्वप्नश्लेष्मलाहारसेविनः | मधुरोऽन्नरसः प्रायः स्नेहान्मेदः प्रवर्धयेत् ||१|| मेदसाऽऽवृतमार्गत्वात् पुष्यन्त्यन्ये न धावतः | मेदस्तु चीयते तस्मादशक्तः सर्वकर्मसु ||२|| क्षुद्रश्वासतृषामोहस्वप्नक्रथनसादनैः | युक्तः क्षुत्स्वेददुर्गन्धैरल्पप्राणोऽल्पमैथुनः ||३|| मेदस्तु सर्वभूतानामुदरेष्वस्थिषु स्थितम् | अत एवोदरे वृद्धिः प्रायो मेदस्विनो भवेत् ||४|| मेदसाऽऽवृतमार्गत्वाद्वायुः कोष्ठे विशेषतः | चरन् सन्धुक्षयत्यग्निमाहारं शोषयत्यपि ||५|| तस्मात् स शीघ्रं जरयत्याहारमभिकाङ्क्षति | विकारांश्चाप्नुते घोरान् कांश्चित् कालव्यतिक्रमात् ||६|| एतावुपद्रवकरौ विशेषादग्निमारुतौ | एतौ तु दहतः स्थूलं वनदावो वनं यथा ||७|| मेदस्यतीव संवृद्धे सहसैवानिलादयः | विकारान् दारुणान् कृत्वा नाशयन्त्याशु जीवितम् ||८|| मेदोमांसातिवृद्धत्वाच्चलस्फिगुदरस्तनः | अयथोपचयोत्साहो नरोऽतिस्थूल उच्यते ||९|| (च. सू. अ. २१) |
🔊 Audio coming soon