Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

39. āturōpadravacikitsitam

Adhikarana 1 (1-2) · Śloka 2

अथात आतुरोपद्रवचिकित्सितं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||

🔊 Audio coming soon

Adhikarana 2 (3-5) · Śloka 5

स्नेहपीतस्य वान्तस्य विरिक्तस्य स्रुतासृजः | निरूढस्य च कायाग्निर्मन्दो भवति देहिनः ||३|| सोऽन्नैरत्यर्थगुरुभिरुपयुक्तैः प्रशाम्यति | अल्पो महद्भिर्बहुभिश्छादितोऽग्निरिवेन्धनैः ||४|| स चाल्पैर्लघुभिश्चान्नैरुपयुक्तैर्विवर्धते | काष्ठैरणुभिरल्पैश्च सन्धुक्षित इवानलः ||५||

🔊 Audio coming soon

Adhikarana 3 (6) · Śloka 6

हृतदोषप्रमाणेन सदाऽऽहारविधिः स्मृतः |६|

🔊 Audio coming soon

Adhikarana 4 (6) · Śloka 7

त्रीणि चात्र प्रमाणानि प्रस्थोऽर्धाढकमाढकम् ||६|| तत्रावरं प्रस्थमात्रं द्वे शेषे मध्यमोत्तमे |७|

🔊 Audio coming soon

Adhikarana 5 (7-11) · Śloka 12

प्रस्थे परिस्रुते देया यवागूः स्वल्पतण्डुला ||७|| द्वे चैवार्धाढके देये तिस्रश्चाप्याढके गते | विलेपीमुचिताद्भक्ताच्चतुर्थांशकृतां ततः ||८|| दद्यादुक्तेन विधिना क्लिन्नसिक्थामपिच्छिलाम् | अस्निग्धलवणं स्वच्छमुद्गयूषयुतं ततः ||९|| अंशद्वयप्रमाणेन दद्यात् सुस्विन्नमोदनम् | ततस्तु कृतसञ्ज्ञेन हृद्येनेन्द्रियबोधिना ||१०|| त्रीनंशान् वितरेद्भोक्तुमातुरायौदनं मृदु | ततो यथोचितं भक्तं भोक्तुमस्मै विचक्षणः ||११|| लावैणहरिणादीनां रसैर्दद्यात् सुसंस्कृतैः |१२|

🔊 Audio coming soon

Adhikarana 6 (12) · Śloka 13

हीनमध्योत्तमेष्वेषु विरेकेषु प्रकीर्तितः ||१२|| एकद्वित्रिगुणः सम्यगाहारस्य क्रमस्त्वयम् |१३|

🔊 Audio coming soon

Adhikarana 7 (13) · Śloka 14

कफपित्ताधिकान्मद्यनित्यान् हीनविशोधितान् ||१३|| पेयाऽभिष्यन्दयेत्तेषां तर्पणादिक्रमो हितः |१४|

🔊 Audio coming soon

Adhikarana 8 (14) · Śloka 15

वेदनालाभनियमशोकवैचित्त्यहेतुभिः ||१४|| नरानुपोषितांश्चापि विरिक्तवदुपाचरेत् |१५|

🔊 Audio coming soon

Adhikarana 9 (15-16) · Śloka 16

आढकार्धाढकप्रस्थसङ्ख्या ह्येषा विरेचने ||१५|| श्लेष्मान्तत्वाद्विरेकस्य न तामिच्छति तद्विदः | एको विरेकः श्लेष्मान्तो न द्वितीयोऽस्ति कश्चन ||१६||

🔊 Audio coming soon

Adhikarana 10 (17-18) · Śloka 18

बलं यत्त्रिविधं प्रोक्तमतस्तत्र क्रमस्त्रिधा | तत्रानुक्रममेकं तु बलस्थः सकृदाचरेत् ||१७|| द्विराचरेन्मध्यबलस्त्रीन् वारान् दुर्बलस्तथा | केचिदेवं क्रमं प्राहुर्मन्दमध्योत्तमाग्निषु ||१८||

🔊 Audio coming soon

Adhikarana 11 (19-20) · Śloka 20

संसर्गेण विवृद्धेऽग्नौ दोषकोपभयाद्भजेत् | प्राक् स्वादुतिक्तौ स्निग्धाम्ललवणान् कटुकं ततः ||१९|| स्वाद्वम्ललवणान् भूयः स्वादुतिक्तावतः परम् | स्निग्धरूक्षान् रसांश्चैव व्यत्यासात् स्वस्थवत्ततः ||२०||

🔊 Audio coming soon

Adhikarana 12 (21) · Śloka 21

केवलं स्नेहपीतो वा वान्तो यश्चापि केवलम् | स सप्तरात्रं मनुजो भुञ्जीत लघु भोजनम् ||२१||

🔊 Audio coming soon

Adhikarana 13 (22) · Śloka 22

कृतः सिराव्यधो यस्य कृतं यस्य च शोधनम् | स ना परिहरेन्मासं यावद्वा बलवान् भवेत् ||२२||

🔊 Audio coming soon

Adhikarana 14 (23) · Śloka 23

त्र्यहं त्र्यहं परिहरेदेकैकं बस्तिमातुरः | तृतीये तु परीहारे यथायोगं समाचरेत् ||२३||

🔊 Audio coming soon

Adhikarana 15 (24) · Śloka 24

तैलपूर्णाममृद्भाण्डसधर्माणो व्रणातुराः | स्निग्धशुद्धाक्षिरोगार्ता ज्वरातीसारिणश्च ये ||२४||

🔊 Audio coming soon

Adhikarana 16 (25-37) · Śloka 37

क्रुध्यतः कुपितं पित्तं कुर्यात्तांस्तानुपद्रवान् | आयास्यतः शोचतो वा चित्तं विभ्रममृच्छति ||२५|| मैथुनोपगमाद्धोरान् व्याधीनाप्नोति दुर्मतिः | आक्षेपकं पक्षघातमङ्गप्रग्रहमेव च ||२६|| गुह्यप्रदेशे श्वयथुं कासश्वासौ च दारुणौ | रुधिरं शुक्रवच्चापि सरजस्कं प्रवर्तते ||२७|| लभते च दिवास्वप्नात्तांस्तान् व्याधीन् कफात्मकान् | प्लीहोदरं प्रतिश्यायं पाण्डुतां श्वयथुं ज्वरम् ||२८|| मोहं सदनमङ्गानामविपाकं तथाऽरुचिम् | तमसा चाभिभूतस्तु स्वप्नमेवाभिनन्दति ||२९|| उच्चैः सम्भाषणाद्वायुः शिरस्यापादयेद्रुजम् | आन्ध्यं जाड्यमजिघ्रत्वं बाधिर्यं मूकतां तथा ||३०|| हनुमोक्षमधीमन्थमर्दितं च सुदारुणम् | नेत्रस्तम्भं निमेषं वा तृष्णां कासं प्रजागरम् ||३१|| लभते दन्तचालं च तांस्तांश्चान्यानुपद्रवान् | यानयानेन लभते छर्दिमूर्च्छाभ्रमक्लमान् ||३२|| तथैवाङ्गग्रहं घोरमिन्द्रियाणां च विभ्रमम् | चिरासनात्तथा स्थानाच्छ्रोण्यां भवति वेदना ||३३|| अतिचङ्क्रमणाद्वायुर्जङ्घयोः कुरुते रुजः | सक्थिप्रशोषं शोफं वा पादहर्षमथापि वा ||३४|| शीतसम्भोगतोयानां सेवा मारुतवृद्धये | ततोऽङ्गमर्दविष्टम्भशूलाध्मानप्रवेपकाः ||३५|| वातातपाभ्यां वैवर्ण्यं ज्वरं चापि समाप्नुयात् | विरुद्धाध्यशनान्मृत्युं व्याधिं वा घोरमृच्छति ||३६|| असात्म्यभोजनं हन्याद्बलवर्णमसंशयम् | अनात्मवन्तः पशुवद्भुञ्जते येऽप्रमाणतः | रोगानीकस्य ते मूलमजीर्णं प्राप्नुवन्ति हि ||३७||

🔊 Audio coming soon

Adhikarana 17 (38) · Śloka 38

व्यापदां कारणं वीक्ष्य व्यापत्स्वेतासु बुद्धिमान् | प्रयतेतातुरारोग्ये प्रत्यनीकेन हेतुना ||३८||

🔊 Audio coming soon

Adhikarana 18 (39) · Śloka 39

विरिक्तवान्तैर्हरिणैणलावकाः शशश्च सेव्यः समयूरतित्तिरीः | सषष्टिकाश्चैव पुराणशालयस्तथैव मुद्गा लघु यच्च कीर्तितम् ||३९||

🔊 Audio coming soon

Adhikarana puShpikA · Śloka 39

इति सुश्रुतसंहितायां चिकित्सास्थाने आतुरोपद्रवचिकित्सितं नामैकोनचत्वारिंशोऽध्यायः ||३९||

🔊 Audio coming soon