Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

1. dvivraṇīyacikitsitam

Adhikarana 1 (1-2) · Śloka 2

अथातो द्विव्रणीयं चिकित्सितं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||

🔊 Audio coming soon

Adhikarana 2 (3) · Śloka 3

द्वौ व्रणौ भवतः- शारीर, आगन्तुश्च | तयोः शारीरः पवनपित्तकफशोणितसन्निपातनिमित्तः; आगन्तुरपि पुरुषपशुपक्षिव्यालसरीसृपप्रपतनपीडनप्रहाराग्निक्षारविषतीक्ष्णौषधशकलकपालशृङ्ग- चक्रेषुपरशुशक्तिकुन्ताद्यायुधाभिघातनिमित्तः | तत्र तुल्ये व्रणसामान्ये द्विकारणोत्थानप्रयोजनसामर्थ्याद् ‘द्विव्रणीय’ इत्युच्यते ||३||

🔊 Audio coming soon

Adhikarana 3 (4) · Śloka 4

सर्वस्मिन्नेवागन्तुव्रणे तत्कालमेव क्षतोष्मणः प्रसृतस्योपशमार्थं पित्तवच्छीतक्रियावचारणविधिविशेषः सन्धानार्थं च मधुघृतप्रयोग इत्येतद्द्विकारणोत्थानप्रयोजनम्, उत्तरकालं तु दोषोपप्लवविशेषाच्छारीरवत् प्रतीकारः ||४||

🔊 Audio coming soon

Adhikarana 4 (5) · Śloka 5

दोषोपप्लवविशेषः पुनः समासतः पञ्चदशप्रकारः, प्रसरणसामर्थ्यात्, यथोक्तो व्रणप्रश्नाधिकारे; शुद्धत्वात् षोडशप्रकार इत्येके ||५||

🔊 Audio coming soon

Adhikarana 5 (6) · Śloka 6

तस्य लक्षणं द्विविधं- सामान्यं, वैशेषिकं च | तत्र सामान्यं रुक् | ‘व्रण’ गात्रविचूर्णने, व्रणयतीति व्रणः | विशेषलक्षणं पुनर्वातादिलिङ्गविशेषः ||६||

🔊 Audio coming soon

Adhikarana 6 (7) · Śloka 7

तत्र श्यावारुणाभस्तनुः शीतः पिच्छिलोऽल्पस्रावी रूक्षश्चटचटायनशीलः स्फुरणायामतोदभेदवेदनाबहुलो निर्मांसश्चेति वातात्, क्षिप्रजः पीतनीलाभः किंशुकोदकाभोष्णस्रावी दाहपाकरागविकारकारी पीतपिडकाजुष्टश्चेति पित्तात्, प्रततचण्डकण्डूबहुलः स्थूलौष्ठः स्तब्धसिरास्नायुजालावततः कठिनः पाण्ड्ववभासो मन्दवेदनः शुक्लशीतसान्द्रपिच्छिलास्रावी गुरुश्चेति कफात्, प्रवालदलनिचयप्रकाशः कृष्णस्फोटपिडकाजालोपचितस्तुरङ्गस्थानगन्धिः सवेदनो धूमायनशीलो रक्तस्रावी पित्तलिङ्गश्चेति रक्तात्, तोददाहधूमायनप्रायः पीतारुणाभस्तद्वर्णस्रावी चेति वातपित्ताभ्यां, कण्डूयनशीलः सनिस्तोदो रूक्षो गुरुर्दारुणो मुहुर्मुहुः शीतपिच्छिलाल्पस्रावी चेति वातश्लेष्मभ्यां, गुरुः सदाह उष्णः पीतपाण्डुस्रावी चेति पित्तश्लेष्मभ्यां, रूक्षस्तनुस्तोदबहुलः सुप्त इव च रक्तारुणाभस्तद्वर्णास्रावी चेति वातशोणिताभ्यां, घृतमण्डाभो मीनधावनतोयगन्धिर्मृदुर्विसर्प्युष्णकृष्णस्रावी चेति पित्तशोणिताभ्यां, रक्तो गुरुः स्निग्धः पिच्छिलः कण्डूप्रायः स्थिरो सरक्तपाण्डुस्रावी चेति श्लेष्मशोणिताभ्यां, स्फुरणतोददाहधूमायनप्रायः पीततनुरक्तस्रावी चेति वातपित्तशोणितेभ्यः, कण्डूस्फुरणचुमचुमायमानप्रायः पाण्डुघनरक्तास्रावी चेति वातश्लेष्मशोणितेभ्यः, दाहपाकरागकण्डूप्रायः पाण्डुघनरक्तास्रावी चेति पित्तश्लेष्मशोणितेभ्यः, त्रिविधवर्णवेदनास्रावविशेषोपेतः पवनपित्तकफेभ्यः, निर्दहननिर्मथनस्फुरणतोददाहपाकरागकण्डूस्वापबहुलो नानावर्णवेदनास्रावविशेषोपेतः पवनपित्तकफशोणितेभ्यः, जिह्वातलाभो मृदुः स्निग्धः श्लक्ष्णो विगतवेदनः सुव्यवस्थितो निरास्रावश्चेति शुद्धो व्रण इति ||७||

🔊 Audio coming soon

Adhikarana 7 (8) · Śloka 8

तस्य व्रणस्य षष्टिरुपक्रमा भवन्ति | तद्यथा- अपतर्पणमालेपः परिषेकोऽभ्यङ्गः स्वेदो विम्लापनमुपनाहः पाचनं विस्रावणं स्नेहो वमनं विरेचनं छेदनं भेदनं दारणं लेखनमेषणमाहरणं व्यधनं विस्रावणं सीवनं सन्धानं पीडनं शोणितास्थापनं निर्वापणमुत्कारिका कषायो वर्तिः कल्कः सर्पिस्तैलं रसक्रियाऽवचूर्णनं व्रणधूपनमुत्सादनमवसादनं मृदुकर्म दारुणकर्म क्षारकर्माग्निकर्म कृष्णकर्म पाण्डुकर्म प्रतिसारणं रोमसञ्जननं लोमापहरणं बस्तिकर्मोत्तरबस्तिकर्म बन्धः पत्रदानं कृमिघ्नं बृंहणं विषघ्नं शिरोविरेचनं नस्यं कवलधारणं धूमो मधु सर्पिर्यन्त्रमाहारो रक्षाविधानमिति ||८||

🔊 Audio coming soon

Adhikarana 8 (9) · Śloka 9

तेषु कषायो वर्तिः कल्कः सर्पिस्तैलं रसक्रियाऽवचूर्णनमिति शोधनरोपणानि, तेष्वष्टौ शस्त्रकृत्याः, शोणितास्थापनं क्षारोऽग्निर्यन्त्रमाहारो रक्षाविधानं बन्धविधानं चोक्तानि, स्नेहस्वेदनवमनविरेचनबस्त्युत्तरबस्तिशिरोविरेचननस्यधूमकवलधारणान्यन्यत्र वक्ष्यामः , यदन्यदवशिष्टमुपक्रमजातं तदिह वक्ष्यते ||९||

🔊 Audio coming soon

Adhikarana 9 (10) · Śloka 10

षड्विधः प्रागुपदिष्टः शोफः, तस्यैकादशोपक्रमा भवन्त्यपतर्पणादयो विरेचनान्ताः; ते च विशेषेण शोथप्रतीकारे वर्तन्ते, व्रणभावमापन्नस्य च न विरुध्यन्ते; शेषास्तु प्रायेण व्रणप्रतीकारहेतव एव ||१०||

🔊 Audio coming soon

Adhikarana 10 (11) · Śloka 11

अपतर्पणमाद्य उपक्रमः; एष सर्वशोफानां सामान्यः प्रधानतमश्च ||११||

🔊 Audio coming soon

Adhikarana 11 (12) · Śloka 12

भवन्ति चात्र - दोषोच्छ्रायोपशान्त्यर्थं दोषानद्धस्य देहिनः | अवेक्ष्य दोषं प्राणं च कार्यं स्यादपतर्पणम् ||१२||

🔊 Audio coming soon

Adhikarana 12 (13) · Śloka 13

ऊर्ध्वमारुततृष्णाक्षुन्मुखशोषश्रमान्वितैः | न कार्यं गर्भिणीवृद्धबालदुर्बलभीरुभिः ||१३||

🔊 Audio coming soon

Adhikarana 13 (14) · Śloka 14

शोफेषूत्थितमात्रेषु व्रणेषूग्ररुजेषु च | यथास्वैरौषधैर्लेपं प्रत्येकश्येन कारयेत् ||१४||

🔊 Audio coming soon

Adhikarana 14 (15-16) · Śloka 16

यथा प्रवज्वलिते वेश्मन्यम्भसा परिषेचनम् | क्षिप्रं प्रशमयत्यग्निमेवमालेपनं रुजः ||१५|| प्रह्लादने शोधने च शोफस्य हरणे तथा | उत्सादने रोपणे च लेपः स्यात्तु तदर्थकृत् ||१६||

🔊 Audio coming soon

Adhikarana 15 (17-18) · Śloka 18

वातशोफे तु वेदनोपशमार्थं सर्पिस्तैलधान्याम्लमांसरसवातहरौषधनिष्क्वाथैरशीतैः परिषेकान् कुर्वीत, पित्तरक्ताभिघातविषनिमित्तेषु क्षीरघृतमधुशर्करोदकेक्षुरसमधुरौषधक्षीरवृक्षनिष्क्वाथैरनुष्णैः परिषेकान् कुर्वीत, श्लेष्मशोफे तु तैलमूत्रक्षारोदकसुराशुक्तकफघ्नौषधनिष्क्वाथैरशीतैः परिषेकान् कुर्वीत ||१७|| यथाऽम्बुभिः सिच्यमानः शान्तिमग्निर्नियच्छति | दोषाग्निरेवं सहसा परिषेकेण शाम्यति ||१८||

🔊 Audio coming soon

Adhikarana 16 (19-20) · Śloka 20

अभ्यङ्गस्तु दोषमालोक्योपयुक्तो दोषोपशमं मृदुतां च करोति ||१९|| स्वेदविम्लापनादीनां क्रियाणां प्राक् स उच्यते | पश्चात् कर्मसु चादिष्टः स च विस्रावणादिषु ||२०||

🔊 Audio coming soon

Adhikarana 17 (21) · Śloka 21

रुजावतां दारुणानां कठिनानां तथैव च | शोफानां स्वेदनं कार्यं ये चाप्येवंविधा व्रणाः ||२१||

🔊 Audio coming soon

Adhikarana 18 (22) · Śloka 23

स्थिराणां रुजतां मन्दं कार्यं विम्लापनं भवेत् | अभ्यज्य स्वेदयित्वा तु वेणुनाड्या ततः शनैः ||२२|| विमर्दयेद्भिषक् प्राज्ञस्तलेनाङ्गुष्ठकेन वा |२३|

🔊 Audio coming soon

Adhikarana 19 (23) · Śloka 24

शोफयोरुपनाहं तु कुर्यादामविदग्धयोः ||२३|| अविदग्धः शमं याति विदग्धः पाकमेति च |२४|

🔊 Audio coming soon

Adhikarana 20 (24-26) · Śloka 27

निवर्तते न यः शोफो विरेकान्तैरुपक्रमैः ||२४|| तस्य सम्पाचनं कुर्यात् समाहृत्यौषधानि तु | दधितक्रसुराशुक्तधान्याम्लैर्योजितानि तु ||२५|| स्निग्धानि लवणीकृत्य पचेदुत्कारिकां शुभाम् | सैरण्डपत्रया शोफं नाहयेदुष्णया तया ||२६|| हितं सम्भोजनं चापि पाकायाभिमुखो यदि |२७|

🔊 Audio coming soon

Adhikarana 21 (27-29) · Śloka 30

वेदनोपशमार्थाय तथा पाकशमाय च ||२७|| अचिरोत्पतिते शोफे कुर्याच्छोणितमोक्षणम् | सशोफे कठिने ध्यामे सरक्ते वेदनावति ||२८|| संरब्धे विषमे चापि व्रणे विस्रावणं हितम् | सविषे च विशेषेण जलौकोभिः पदैस्तथा ||२९|| वेदनायाः प्रशान्त्यर्थं पाकस्याप्राप्तये तथा |३०|

🔊 Audio coming soon

Adhikarana 22 (30) · Śloka 31

सोपद्रवाणां रूक्षाणां कृशानां व्रणशोषिणाम् ||३०|| यथास्वमौषधैः सिद्धं स्नेहपानं विधीयते |३१|

🔊 Audio coming soon

Adhikarana 23 (31) · Śloka 32

उत्सन्नमांसशोफे तु कफजुष्टे विशेषतः ||३१|| सङ्क्लिष्टश्या(ध्या)मरुधिरे व्रणे प्रच्छर्दनं हितम् |३२|

🔊 Audio coming soon

Adhikarana 24 (32) · Śloka 33

वातपित्तप्रदुष्टेषु दीर्घकालानुबन्धिषु ||३२|| विरेचनं प्रशंसन्ति व्रणेषु व्रणकोविदाः |३३|

🔊 Audio coming soon

Adhikarana 25 (33) · Śloka 34

अपाकेषु तु रोगेषु कठिनेषु स्थिरेषु च ||३३|| स्नायुकोथादिषु तथा च्छेदनं प्राप्तमुच्यते |३४|

🔊 Audio coming soon

Adhikarana 26 (34) · Śloka 35

अन्तःपूयेष्ववक्त्रेषु तथैवोत्सङ्गवत्स्वपि ||३४|| गतिमत्सु च रोगेषु भेदनं प्राप्तमुच्यते |३५|

🔊 Audio coming soon

Adhikarana 27 (35-37) · Śloka 37

बालवृद्धासहक्षीणभीरूणां योषितामपि ||३५|| मर्मोपरि च जातेषु रोगेषूक्तेषु दारणम् | सुपक्वे पिण्डिते शोफे पीडनैरुपपीडिते ||३६|| पाकोद्वृत्तेषु दोषेषु तत्तु कार्यं विजानता | सुपिष्टैर्दारणद्रव्यैर्युक्तैः क्षारेण वा पुनः ||३७||

🔊 Audio coming soon

Adhikarana 28 (38-39) · Śloka 39

कठिनान् स्थूलवृत्तौष्ठान् दीर्यमाणान् पुनः पुनः | कठिनोत्सन्नमांसांश्च लेखनेनाचरेद्भिषक् ||३८|| समं लिखेत् सुलिखितं लिखेन्निरवशेषतः | वर्त्मनां तु प्रमाणेन समं शस्त्रेण निर्लिखेत् ||३९||

🔊 Audio coming soon

Adhikarana 29 (40) · Śloka 40

क्षौमं प्लोतं पिचुं फेनं यावशूकं ससैन्धवम् | कर्कशानि च पत्राणि लेखनार्थे प्रदापयेत् ||४०||

🔊 Audio coming soon

Adhikarana 30 (41-42) · Śloka 42

नाडीव्रणाञ् शल्यगर्भानुन्मार्ग्युत्सङ्गिनः शनैः | करीरबालाङ्गुलिभिरेषण्या वैषयेद्भिषक् ||४१|| नेत्रवर्त्मगुदाभ्यासनाड्योऽवक्त्राः सशोणिताः | चुच्चूपोदकजैः श्लक्ष्णैः करीरैरेषयेत्तु ताः ||४२||

🔊 Audio coming soon

Adhikarana 31 (43) · Śloka 43

संवृतासंवृतास्येषु व्रणेषु मतिमान् भिषक् | यथोक्तमाहरेच्छल्यं प्राप्तोद्धरणलक्षणम् ||४३||

🔊 Audio coming soon

Adhikarana 32 (44) · Śloka 44

रोगे व्यधनसाध्ये तु यथोद्देशं प्रमाणतः | शस्त्रं निदध्याद्दोषं च स्रावयेत् कीर्तितं यथा ||४४||

🔊 Audio coming soon

Adhikarana 33 (45) · Śloka 45

अपाकोपद्रुता ये च मांसस्था विवृताश्च ये | यथोक्तं सीवनं तेषु कार्यं सन्धानमेव च ||४५||

🔊 Audio coming soon

Adhikarana 34 (46-47) · Śloka 47

पूयगर्भानणुद्वारान् व्रणान्मर्मगतानपि | यथोक्तैः पीडनद्रव्यैः समन्तात् परिपीडयेत् ||४६|| शुष्यमाणमुपेक्षेत प्रदेहं पीडनं प्रति | न चाभिमुखमालिम्पेत्तथा दोषः प्रसिच्यते ||४७||

🔊 Audio coming soon

Adhikarana 35 (48) · Śloka 48

तैस्तैर्निमित्तैर्बहुधा शोणिते प्रस्रुते भृशम् | कार्यं यथोक्तं वैद्येन शोणितास्थापनं भवेत् ||४८||

🔊 Audio coming soon

Adhikarana 36 (49-50) · Śloka 50

दाहपाकज्वरवतां व्रणानां पित्तकोपतः | रक्तेन चाभिभूतानां कार्यं निर्वापणं भवेत् ||४९|| यथोक्तैः शीतलद्रव्यैः क्षीरपिष्टैर्घृताप्लुतैः | दिह्यादबहलान् सेकान् सुशीतांश्चावचारयेत् ||५०||

🔊 Audio coming soon

Adhikarana 37 (51-52) · Śloka 53

व्रणेषु क्षीणमांसेषु तनुस्राविष्वपाकिषु | तोदकाठिन्यपारुष्यशूलवेपथुमत्सु च ||५१|| वातघ्नवर्गेऽम्लगणे काकोल्यादिगणे तथा | स्नैहिकेषु च बीजेषु पचेदुत्कारिकां शुभाम् ||५२|| तेषां च स्वेदनं कार्यं स्थिराणां वेदनावताम् |५३|

🔊 Audio coming soon

Adhikarana 38 (53) · Śloka 54

दुर्गन्धानां क्लेदवतां पिच्छिलानां विशेषतः ||५३|| कषायैः शोधनं कार्यं शोधनैः प्रागुदीरितैः |५४|

🔊 Audio coming soon

Adhikarana 39 (54-55) · Śloka 56

अन्तःशल्यानणुमुखान् गम्भीरान् मांससंश्रितान् शोधनद्रव्ययुक्ताभिर्वर्तिभिस्तान् यथाक्रमम् ||५४|| पूतिमांसप्रतिच्छन्नान् महादोषांश्च शोधयेत् ||५५|| कल्कीकृतैर्यथालाभं वर्तिद्रव्यैः पुरोदितैः |५६|

🔊 Audio coming soon

Adhikarana 40 (56) · Śloka 57

पित्तप्रदुष्टान् गम्भीरान् दाहपाकप्रपीडितान् ||५६|| कार्पासीफलमिश्रेण जयेच्छोधनसर्पिषा |५७|

🔊 Audio coming soon

Adhikarana 41 (57) · Śloka 58

उत्सन्नमांसानस्निग्धानल्पस्रावान् व्रणांस्तथा ||५७|| सर्षपस्नेहयुक्तेन धीमांस्तैलेन शोधयेत् |५८|

🔊 Audio coming soon

Adhikarana 42 (58-61) · Śloka 61

तैलेनाशुध्यमानानां शोधनीयां रसक्रियाम् ||५८|| व्रणानां स्थिरमांसानां कुर्याद्द्रव्यैरुदीरितैः | कषाये विधिवत्तेषां कृते चाधिश्रयेत् पुनः ||५९|| सुराष्ट्रजां सकासीसां दद्याच्चापि मनःशिलाम् | हरितालं च मतिमांस्ततस्तामवचारयेत् ||६०|| मातुलुङ्गरसोपेतां सक्षौद्रामतिमर्दिताम् | व्रणेषु दत्त्वा तां तिष्ठेत्त्रींस्त्रींश्च दिवसान् परम् ||६१||

🔊 Audio coming soon

Adhikarana 43 (62) · Śloka 62

मेदोजुष्टानगम्भीरान् दुर्गन्धांश्चूर्णशोधनैः | उपाचरेत् भिषक् प्राज्ञः श्लक्ष्णैः शोधनवर्तिजैः ||६२||

🔊 Audio coming soon

Adhikarana 44 (63) · Śloka 63

शुद्धलक्षणयुक्तानां कषायं रोपणं हितम् | तत्र कार्यं यथोद्दिष्टैर्द्रव्यैर्वैद्येन जानता ||६३||

🔊 Audio coming soon

Adhikarana 45 (64) · Śloka 64

अवेदनानां शुद्धानां गम्भीराणां तथैव च | हिता रोपणवर्त्यङ्गकृता रोपणवर्तयः ||६४||

🔊 Audio coming soon

Adhikarana 46 (65-69) · Śloka 70

अपेतपूतिमांसानां मांसस्थानामरोहताम् | कल्कः संरोहणः कार्यस्तिलजो मधुसंयुतः ||६५|| स माधुर्यात्तथौष्ण्याच्च स्नेहाच्चानिलनाशनः | कषायभावान्माधुर्यात्तिक्तत्वाच्चापि पित्तहृत् ||६६|| औष्ण्यात् कषायभावाच्च तिक्तत्वाच्च कफे हितः | शोधयेद्रोपयेच्चापि युक्तः शोधनरोपणैः ||६७|| निम्बपत्रमधुभ्यां तु युक्तः संशोधनः स्मृतः | पूर्वाभ्यां सर्पिषा चापि युक्तश्चाप्युपरोपणः ||६८|| तिलवद्यवकल्कं तु केचिदाहुर्मनीषिणः | शमयेदविदग्धं च विदग्धमपि पाचयेत् ||६९|| पक्वं भिनत्ति भिन्नं च शोधयेद्रोपयेत्तथा |७०|

🔊 Audio coming soon

Adhikarana 47 (70) · Śloka 71

पित्तरक्तविषागन्तून् गम्भीरानपि च व्रणान् ||७०|| रोपयेद्रोपणीयेन क्षीरसिद्धेन सर्पिषा |७१|

🔊 Audio coming soon

Adhikarana 48 (71) · Śloka 72

कफवाताभिभूतानां व्रणानां मतिमान् भिषक् ||७१|| कारयेद्रोपणं तैलं भेषजैस्तद्यथोदितैः |७२|

🔊 Audio coming soon

Adhikarana 49 (72) · Śloka 73

अबन्ध्यानां चलस्थानां शुद्धानां च प्रदुष्यताम् ||७२|| द्विहरिद्रायुतां कुर्याद्रोपणार्थां रसक्रियाम् |७३|

🔊 Audio coming soon

Adhikarana 50 (73) · Śloka 74

समानां स्थिरमांसानां त्वक्स्थानां रोपणं भिषक् ||७३|| चूर्णं विदध्यान्मतिमान् प्राक्स्थानोक्तो विधिर्यथा |७४|

🔊 Audio coming soon

Adhikarana 51 (74) · Śloka 75

शोधनो रोपणश्चैव विधिर्योऽयं प्रकीर्तितः ||७४|| सर्वव्रणानां सामान्येनोक्तो दोषाविशेषतः |७५|

🔊 Audio coming soon

Adhikarana 52 (75) · Śloka 76

एष आगमसिद्धत्वात्तथैव फलदर्शनात् ||७५|| मन्त्रवत् सम्प्रयोक्तव्यो न मीमांस्यः कथञ्चन |७६|

🔊 Audio coming soon

Adhikarana 53 (76) · Śloka 77

स्वबुद्ध्या चापि विभजेत् कषायादिषु सप्तसु ||७६|| भेषजानि यथायोगं यान्युक्तानि पुरा मया |७७|

🔊 Audio coming soon

Adhikarana 54 (77-79) · Śloka 80

आद्ये द्वे पञ्चमूल्यौ तु गणो यश्चानिलापहः ||७७|| स वातदुष्टे दातव्यः कषायादिषु सप्तसु | न्यग्रोधादिर्गणो यस्तु काकोल्यादिश्च यः स्मृतः ||७८|| तौ पित्तदुष्टे दातव्यौ कषायादिषु सप्तसु | आरग्वधादिस्तु गणो यश्चोष्णः परिकीर्तितः ||७९|| तौ देयौ कफदुष्टे तु, संसृष्टे संयुता गणाः |८०|

🔊 Audio coming soon

Adhikarana 55 (80) · Śloka 81

वातात्मकानुग्ररुजान् सास्रावानपि च व्रणान् ||८०|| सक्षौमयवसर्पिर्भिर्धूपनाङ्गैश्च धूपयेत् |८१|

🔊 Audio coming soon

Adhikarana 56 (81-82) · Śloka 83

परिशुष्काल्पमांसानां गम्भीराणां तथैव च ||८१|| कुर्यादुत्सादनीयानि सर्पींष्यालेपनानि च | मांसाशिनां च मांसानि भक्षयेद्विधिवन्नरः ||८२|| विशुद्धमनसस्तस्य मांसं मांसेन वर्धते |८३|

🔊 Audio coming soon

Adhikarana 57 (83) · Śloka 84

उत्सन्नमृदुमांसानां व्रणानामवसादनम् ||८३|| कुर्याद्द्रव्यैर्यथोद्दिष्टैश्चूर्णितैर्मधुना सह |८४|

🔊 Audio coming soon

Adhikarana 58 (84-85) · Śloka 86

कठिनानाममांसानां दुष्टानां मातरिश्वना ||८४|| मृद्वी क्रिया विधातव्या शोणितं चापि मोक्षयेत् | वातघ्नौषधसंयुक्तान् स्नेहान् सेकांश्च कारयेत् ||८५|| मृदुत्वमाशुरोहं च गाढो बन्धः करोति हि |८६|

🔊 Audio coming soon

Adhikarana 59 (86-87) · Śloka 87

व्रणेषु मृदुमांसेषु दारुणीकरणं हितम् | धवप्रियङ्ग्वशोकानां रोहिण्याश्च त्वचस्तथा ||८६|| त्रिफलाधातकीपुष्परोध्रसर्जरसान् समान् | कृत्वा सूक्ष्माणि चूर्णानि व्रणं तैरवचूर्णयेत् ||८७||

🔊 Audio coming soon

Adhikarana 60 (88) · Śloka 88

उत्सन्नमांसान् कठिनान् कण्डूयुक्तांश्चिरोत्थितान् | तथैव खलु दुःशोध्याञ् शोधयेत् क्षारकर्मणा ||८८||

🔊 Audio coming soon

Adhikarana 61 (89) · Śloka 89

स्रवतोऽश्मभवान्मूत्रं ये चान्ये रक्तवाहिनः | निःशेषच्छिन्नसन्धींश्च साधयेदग्निकर्मणा ||८९||

🔊 Audio coming soon

Adhikarana 62 (89-93) · Śloka 94

दुरूढत्वात्तु शुक्लानां कृष्णकर्म हितं भवेत् | भल्लातकान् वासयेत्तु क्षीरे प्राङ्मूत्रभावितान् | ततो द्विधाच्छेदयित्वा लौहे कुम्भे निधापयेत् ||९०|| कुम्भेऽन्यस्मिन् निखाते तु तं कुम्भमथ योजयेत् | मुखं मुखेन सन्धाय गोमयैर्दाहयेत्ततः ||९१|| यः स्नेहश्च्यवते तस्माद्ग्राहयेत्तं शनैर्भिषक् | ग्राम्यानूपशफान् दग्ध्वा सूक्ष्मचूर्णानि कारयेत् ||९२|| तैलेनानेन संसृष्टं शुक्लमालेपयेद्व्रणम् | भल्लातकविधानेन सारस्नेहांस्तु कारयेत् ||९३|| ये च केचित् फलस्नेहा विधानं तेषु पूर्ववत् |९४|

🔊 Audio coming soon

Adhikarana 63 (94-98) · Śloka 99

दुरूढत्वात्तु कृष्णानां पाण्डुकर्म हितं भवेत् ||९४|| सप्तरात्रं स्थितं क्षीरे छागले रोहिणीफलम् | तेनैव पिष्टं सुश्लक्ष्णं सवर्णकरणं हितम् ||९५|| नवं कपालिकाचूर्णं वैदुलं सर्जनाम च | कासीसं मधुकं चैव क्षौद्रयुक्तं प्रलेपयेत् ||९६|| कपित्थमुद्धृते मांसे मूत्रेणाजेन पूरयेत् | कासीसं रोचनां तुत्थं हरितालं मनःशिलाम् ||९७|| वेणुनिर्लेखनं चापि प्रपुन्नाडरसाञ्जनम् | अधस्तादर्जुनस्यैतन्मासं भूमौ निधापयेत् ||९८|| मासादूर्ध्वं ततस्तेन कृष्णमालेपयेद्व्रणम् |९९|

🔊 Audio coming soon

Adhikarana 64 (99-100) · Śloka 100

कुक्कुटाण्डकपालानि कतकं मधुकं समम् ||९९|| तथा समुद्रमण्डूकी मणिचूर्णं च दापयेत् | गुटिका मूत्रपिष्टास्ता व्रणानां प्रतिसारणम् ||१००||

🔊 Audio coming soon

Adhikarana 65 (101-103) · Śloka 103

हस्तिदन्तमसीं कृत्वा मुख्यं चैव रसाञ्जनम् | रोमाण्येतेन जायन्ते लेपात्पाणितलेष्वपि ||१०१|| चतुष्पदानां त्वग्रोमखुरशृङ्गास्थिभस्मना | तैलाक्ता चूर्णिता भूमिर्भवेद्रोमवती पुनः ||१०२|| कासीसं नक्तमालस्य पल्लवांश्चैव संहरेत् | कपित्थरसपिष्टानि रोमसञ्जननं परम् ||१०३||

🔊 Audio coming soon

Adhikarana 66 (104-108) · Śloka 108

रोमाकीर्णो व्रणो यस्तु न सम्यगुपरोहति | क्षुरकर्तरिसन्दंशैस्तस्य रोमाणि निर्हरेत् ||१०४|| (शङ्खचूर्णस्य भागौ द्वौ हरितालं च भागिकम् | शुक्तेन सह पिष्टानि लोमशातनमुत्तमम्) ||१०५|| तैलं भल्लातकस्याथ स्नुहीक्षीरं तथैव च | प्रगृह्यैकत्र मतिमान् रोमशातनमुत्तमम् ||१०६|| कदलीदीर्घवृन्ताभ्यां भस्मालं लवणं शमीबीजं शीतोदपिष्टं वा रोमशातनमाचरेत् ||१०७|| आगारगोधिकापुच्छं रम्भाऽऽलं बीजमैङ्गुदम् | दग्ध्वा तद्भस्मतैलाम्बु सूर्यपक्वं कचान्तकृत् ||१०८||

🔊 Audio coming soon

Adhikarana 67 (109) · Śloka 109

वातदुष्टो व्रणो यस्तु रूक्षश्चात्यर्थवेदनः | अधःकाये विशेषेण तत्र बस्तिर्विधीयते ||१०९||

🔊 Audio coming soon

Adhikarana 68 (110) · Śloka 110

मूत्राघाते मूत्रदोषे शुक्रदोषेऽश्मरीव्रणे | तथैवार्तवदोषे च बस्तिरप्युत्तरो हितः ||११०||

🔊 Audio coming soon

Adhikarana 69 (111) · Śloka 111

यस्माच्छुध्यति बन्धेन व्रणो याति च मार्दवम् | रोहत्यपि च निःशङ्कस्तस्माद्बन्धो विधीयते ||१११||

🔊 Audio coming soon

Adhikarana 70 (112-118) · Śloka 118

स्थिराणामल्पमांसानां रौक्ष्यादनुपरोहताम् | पत्रदानं भवेत् कार्यं यथादोषं यथर्तु च ||११२|| एरण्डभूर्जपूतीकहरिद्राणां तु वातजे | पत्रमाश्वबलं यच्च काश्मरीपत्रमेव च ||११३|| पत्राणि क्षीरवृक्षाणामौदकानि तथैव च | दूषिते रक्तपित्ताभ्यां व्रणे दद्याद्विचक्षणः ||११४|| पाठामूर्वागुडूचीनां काकमाचीहरिद्रयोः | पत्रं च शुकनासाया योजयेत् कफजे व्रणे ||११५|| अकर्कशमविच्छिन्नमजीर्णं सुकुमारकम् | अजन्तुजग्धं मृदु च पत्रं गुणवदुच्यते ||११६|| स्नेहमौषधसारं च पट्टः पत्रान्तरीकृतः | नादत्ते यत्ततः पत्रं लेपस्योपरि दापयेत् ||११७|| शैत्यौष्ण्यजननार्थाय स्नेहसङ्ग्रहणाय च | दत्तौषधेषु दातव्यं पत्रं वैद्येन जानता ||११८||

🔊 Audio coming soon

Adhikarana 71 (119-122) · Śloka 122

मक्षिका व्रणमागत्य निःक्षिपन्ति यदा कृमीन् | श्वयथुर्भक्षिते तैस्तु जायते भृशदारुणः ||११९|| तीव्रा रुजो विचित्राश्च रक्तास्रावश्च जायते | सुरसादिर्हितस्तत्र धावने पूरणे तथा ||१२०|| सप्तपर्णकरञ्जार्कनिम्बराजादनत्वचः | हिता गोमूत्रपिष्टाश्च सेकः क्षारोदकेन वा ||१२१|| प्रच्छाद्य मांसपेश्या वा कृमीनपहरेद्व्रणात् | विंशतिं कृमिजातीस्तु वक्ष्याम्युपरि भागशः ||१२२||

🔊 Audio coming soon

Adhikarana 72 (123) · Śloka 123

दीर्घकालातुराणां तु कृशानां व्रणशोषिणाम् | बृंहणीयो विधिः सर्वः कायाग्निं परिरक्षता ||१२३||

🔊 Audio coming soon

Adhikarana 73 (124) · Śloka 124

विषजुष्टस्य विज्ञानं विषनिश्चयमेव च | चिकित्सितं च वक्ष्यामि कल्पेषु प्रतिभागशः ||१२४||

🔊 Audio coming soon

Adhikarana 74 (125) · Śloka 125

कण्डूमन्तः सशोफाश्च ये च जत्रूपरि व्रणाः | शिरोविरेचनं तेषु विदध्यात्कुशलो भिषक् ||१२५||

🔊 Audio coming soon

Adhikarana 75 (126) · Śloka 126

रुजावन्तोऽनिलाविष्टा रूक्षा ये चोर्ध्वजत्रुजाः | व्रणेषु तेषु कर्तव्यं नस्यं वैद्येन जानता ||१२६||

🔊 Audio coming soon

Adhikarana 76 (127-128) · Śloka 128

दोषप्रच्यावनार्थाय रुजादाहक्षयाय च | जिह्वादन्तसमुत्थस्य हरणार्थं मलस्य च ||१२७|| शोधनो रोपणश्चैव व्रणस्य मुखजस्य वै | उष्णो वा यदि वा शीतः कवलग्रह इष्यते ||१२८||

🔊 Audio coming soon

Adhikarana 77 (129) · Śloka 129

ऊर्ध्वजत्रुगतान् रोगान् व्रणांश्च कफवातजान् | शोफस्रावरुजायुक्तान् धूमपानैरुपाचरेत् ||१२९||

🔊 Audio coming soon

Adhikarana 78 (130) · Śloka 130

क्षतोष्मणो निग्रहार्थं सन्धानार्थं तथैव च | सद्योव्रणेष्वायतेषु क्षौद्रसर्पिर्विधीयते ||१३०||

🔊 Audio coming soon

Adhikarana 79 (131) · Śloka 131

अवगाढास्त्वणुमुखा ये व्रणाः शल्यपीडिताः | निवृत्तहस्तोद्धरणा यन्त्रं तेषु विधीयते ||१३१||

🔊 Audio coming soon

Adhikarana 80 (132) · Śloka 132

लघुमात्रो लघुश्चैव स्निग्ध उष्णोऽग्निदीपनः | सर्वव्रणिभ्यो देयस्तु सदाऽऽहारो विजानता ||१३२||

🔊 Audio coming soon

Adhikarana 81 (133) · Śloka 133

निशाचरेभ्यो रक्ष्यस्तु नित्यमेव क्षतातुरः | रक्षाविधानैरुद्दिष्टैर्यमैः सनियमैस्तथा ||१३३||

🔊 Audio coming soon

Adhikarana 82 (134) · Śloka 134

षण्मूलोऽष्टपरिग्राही पञ्चलक्षणलक्षितः | षष्ट्या विधानैर्निर्दिष्टैश्चतुर्भिः साध्यते व्रणः ||१३४||

🔊 Audio coming soon

Adhikarana 83 (135) · Śloka 135

योऽल्पौषधकृतो योगो बहुग्रन्थभयान्मया | द्रव्याणां तत्समानानां तत्रावापो न दुष्यति ||१३५||

🔊 Audio coming soon

Adhikarana 84 (136) · Śloka 136

प्रसङ्गाभिहितो यो वा बहुदुर्लभभेषजः | यथोपपत्ति तत्रापि कार्यमेव चिकित्सितम् ||१३६||

🔊 Audio coming soon

Adhikarana 85 (137) · Śloka 137

गणोक्तमपि यद्द्रव्यं भवेद्व्याधावयौगिकम् | तदुद्धरेद्यौगिकं तु प्रक्षिपेदप्यकीर्तितम् ||१३७||

🔊 Audio coming soon

Adhikarana 86 (138-139) · Śloka 139

उपद्रवास्तु विविधा व्रणस्य व्रणितस्य च | तत्र गन्धादयः पञ्च व्रणस्योपद्रवाः स्मृताः ||१३८|| ज्वरातिसारौ मूर्च्छा च हिक्का च्छर्दिररोचकः | श्वासकासाविपाकाश्च तृष्णा च व्रणितस्य तु ||१३९||

🔊 Audio coming soon

Adhikarana 87 (140) · Śloka 140

व्रणक्रियास्वेवमासु व्यासेनोक्तास्वपि क्रियाम् | भूयोऽप्युपरि वक्ष्यामि सद्योव्रणचिकित्सिते ||१४०||

🔊 Audio coming soon

Adhikarana puShpikA · Śloka 1

इति सुश्रुतसंहितायां चिकित्सास्थाने द्विव्रणीयचिकित्सितं नाम प्रथमोऽध्यायः ||१||

🔊 Audio coming soon