Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

9. kuṣṭhacikitsitam

Adhikarana 1 (1-3) · Śloka 3

अथातः कुष्ठचिकित्सितं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२|| विरुद्धाध्यशनासात्म्यवेगविघातैः स्नेहादीनां चायथारम्भैः पापक्रियया पुराकृतकर्मयोगाच्च त्वग्दोषा भवन्ति ||३||

🔊 Audio coming soon

Adhikarana 2 (4) · Śloka 4

तत्र त्वग्दोषी मांसवसादुग्धदधितैलकुलत्थमाषनिष्पावेक्षुपिष्टविकाराम्लविरुद्धाध्यशनाजीर्णविदाह्यभिष्यन्दीनि दिवास्वप्नं व्यवायं च परिहरेत् ||४||

🔊 Audio coming soon

Adhikarana 3 (5) · Śloka 5

ततः शालिषष्टिकयवगोधूमकोरदूषश्यामाकोद्दालकादीननवान् भुञ्जीत मुद्गाढक्योरन्यतरस्य यूषेण सूपेन वा निम्बपत्रारुष्करव्यामिश्रेण, मण्डूकपर्ण्यवल्गुजाटरूषकरूपिकापुष्पैः सर्पिःसिद्धैः सर्षपतैलसिद्धैर्वा, तिक्तवर्गेण वाऽभिहितेन; मांससात्म्याय वा जाङ्गलमांसममेदस्कं वितरेत्; तैलं वज्रकमभ्यङ्गार्थे; आरग्वधादिकषायमुत्सादनार्थे; पानपरिषेकावगाहादिषु च खदिरकषायम्; इत्येष आहाराचारविभागः ||५||

🔊 Audio coming soon

Adhikarana 4 (6) · Śloka 6

तत्र पूर्वरूपेषूभयतः संशोधनमासेवेत | तत्र त्वक्सम्प्राप्ते शोधनालेपनानि, शोणितप्राप्ते संशोधनालेपनकषायपानशोणितावसेचनानि, मांसप्राप्ते शोधनालेपनकषायपानशोणितावसेचनारिष्टमन्थप्राशाः, चतुर्थकर्मगुणप्राप्तं याप्यमात्मवतः संविधानवतश्च, तत्र संशोधनाच्छोणितावसेचनाच्चोर्ध्वं भल्लातशिलाजतुधातुमाक्षीकगुग्गुल्वगुरुतुवरकखदिरासनायस्कृतिविधानमासेवेत; पञ्चमं नैवोपक्रमेत् ||६||

🔊 Audio coming soon

Adhikarana 5 (7) · Śloka 7

तत्र प्रथममेव कुष्ठिनं स्नेहपानविधानेनोपपादयेत् | मेषशृङ्गीश्वदंष्ट्राशार्ङ्गेष्टागुडूचीद्विपञ्चमूलीसिद्धं तैलं घृतं वा वातकुष्ठिनां पानाभ्यङ्गयोर्विदध्यात्, धवाश्वकर्णककुभपलाशपिचुमर्दपर्पटकमधुकरोध्रसमङ्गासिद्धं सर्पिः पित्तकुष्ठिनां, प्रियालशालारग्वधनिम्बसप्तपर्णचित्रकमरिचवचाकुष्ठसिद्धं श्लेष्मकुष्ठिनां भल्लातकाभयाविडङ्गसिद्धं वा, सर्वेषां तुवरकतैलं भल्लातकतैलं वेति ||७||

🔊 Audio coming soon

Adhikarana 6 (8-9) · Śloka 9

सप्तपर्णारग्वधातिविषेक्षुरपाठाकटुरोहिण्यमृतात्रिफलापटोलपिचुमर्दपर्पटकदुरालभात्रायमाणामुस्ताचन्दनपद्मक- हरिद्रोपकुल्याविशालामूर्वाशतावरीसारिवेन्द्रयवाटरूषकषड्ग्रन्थामधुकभूनिम्बगृष्टिका इति समभागाः कल्कःस्यात्, कल्काच्चतुर्गुणं सर्पिः प्रक्षिप्य तद्द्विगुणो धात्रीफलरसस्तच्चतुर्गुणा आपस्तदैकध्यं समालोड्य विपचेत्, एतन्महातिक्तकं नाम सर्पिः कुष्ठविषमज्वररक्तपित्तहृद्रोगोन्मादापस्मारगुल्मपिडकासृग्दरगलगण्डगण्डमाला- श्लीपदपाण्डुरोगविसर्पार्शःषाण्ढ्यकण्डूपामादीञ्छमयेदिति ||८|| त्रिफलापटोलपिचुमन्दाटरूषककटुरोहिणीदुरालभात्रायमाणाः पर्पटकश्चैतेषां द्विपलिकान् भागाञ्जलद्रोणे प्रक्षिप्य पादावशेषं कषायमादाय कल्कपेष्याणीमानि भेषजान्यर्धपलिकानि त्रायमाणामुस्तेन्द्रयवचन्दनकिराततिक्तानि पिप्पल्यश्चैतानि घृतप्रस्थे समावाप्य विपचेत्, एतत्तिक्तकं नाम सर्पिः कुष्ठविषमज्वरगुल्मार्शोग्रहणीदोषशोफपाण्डुरोगविसर्पषाण्ढ्यशमनमूर्ध्वजत्रुगतरोगघ्नं चेति ||९||

🔊 Audio coming soon

Adhikarana 7 (10) · Śloka 11

अतोऽन्यतमेन घृतेन स्निग्धस्विन्नस्यैकां द्वे तिस्रश्चतस्रः पञ्च वा सिरा विध्येत्; मण्डलानि चोत्सन्नान्यवलिखेदभीक्ष्णं, प्रच्छयेद्वा, समुद्रफेनशाकगोजीकाकोदुम्बरिकापत्रैर्वाऽवघृष्यालेपयेल्लाक्षासर्जरसरसाञ्जन- प्रपुन्नडावल्गुजतेजोवत्यश्वमारकार्ककुटजारेवतमूलकल्कैर्मूत्रपिष्टैः पित्तपिष्टैर्वा, स्वर्जिकातुत्थकासीसविडङ्गागारधूमचित्रककटुकसुधाहरिद्रासैन्धवकल्कैर्वा, एतान्येवावाप्य क्षारकल्पेन निःस्रुते पालाशे क्षारे ततो विपाच्य फाणीतमिव सञ्जातमवतार्य लेपयेत्, ज्योतिष्कफललाक्षामरिचपिप्पलीसुमनःपत्रैर्वा, हरितालमनःशिलार्कक्षीरतिलशिग्रुमरिचकल्कैर्वा, स्वर्जिकाकुष्ठतुत्थकुटजचित्रकविडङ्गमरिचरोध्रमनःशिलाकल्कैर्वा, हरीतकीकरञ्जिकाविडङ्गसिद्धार्थकलवणरोचनावल्गुजहरिद्राकल्कैर्वा ||१०|| सर्वे कुष्ठापहाः सिद्धा लेपाः सप्त प्रकीर्तिताः |११|

🔊 Audio coming soon

Adhikarana 8 (11-12) · Śloka 12

वैशेषिकानतस्तूर्ध्वं दद्रूश्वित्रेषु मे शृणु ||११|| लाक्षा कुष्ठं सर्षपाः श्रीनिकेतं रात्रिर्व्योषं चक्रमर्दस्य बीजम् | कृत्वैकस्थं तक्रपिष्टः प्रलेपो दद्रूषूक्तो मूलकाद्बीजयुक्तः ||१२||

🔊 Audio coming soon

Adhikarana 9 (13) · Śloka 13

सिन्धूद्भूतं चक्रमर्दस्य बीजमिक्षूद्भूतं केशरं तार्क्ष्यशैलम् | पिष्टो लेपोऽयं कपित्थाद्रसेन दद्रूस्तूर्णं नाशयत्येष योगः ||१३||

🔊 Audio coming soon

Adhikarana 10 (14) · Śloka 14

हेमक्षीरी व्याधिघातः शिरीषो निम्बः सर्जो वत्सकः साजकर्णः | शीघ्रं तीव्रा नाशयन्तीह दद्रूः स्नानालेपोद्धर्षणेषूपयुक्ताः ||१४||

🔊 Audio coming soon

Adhikarana 11 (15) · Śloka 15

भद्रासञ्ज्ञोदुम्बरीमूलतुल्यं दत्त्वा मूलं क्षोदयित्वा मलप्वाः | सिद्धं तोयं पीतमुष्णे सुखोष्णं स्फोटाञ्छ्वित्रे पुण्डरीके च कुर्यात् ||१५||

🔊 Audio coming soon

Adhikarana 12 (16) · Śloka 16

द्वैपं दग्धं चर्म मातङ्गजं वा भिन्ने स्फोटे तैलयुक्तं प्रलेपः |१६|

🔊 Audio coming soon

Adhikarana 13 (16) · Śloka 16

पूतिः कीटो राजवृक्षोद्भवेन क्षारेणाक्तः श्वित्रमेको निहन्ति ||१६||

🔊 Audio coming soon

Adhikarana 14 (17) · Śloka 17

कृष्णस्य सर्पस्य मसी सुदग्धा बैभीतकं तैलमथ द्वितीयम् | एतत् समस्तं मृदितं प्रलेपाच्छ्वित्राणि अर्वाण्यपहन्ति शीघ्रम् ||१७||

🔊 Audio coming soon

Adhikarana 15 (18) · Śloka 18

अध्यर्धतोये सुभतिस्रुतस्य क्षारस्य कल्पेन तु सप्तकृत्वः | तैलं शृतं तेन चतुर्गुणेन श्वित्रापहं म्रक्षणमेतदग्र्यम् ||१८||

🔊 Audio coming soon

Adhikarana 16 (19-20) · Śloka 20

घृतेन युक्तं प्रपुनाडबीजं कुष्ठं च यष्टीमधुकं च पिष्ट्वा | श्वेताय दद्याद्गृहकुक्कुटाय चतुर्थभक्ताय बुभुक्षिताय ||१९|| तस्योपसङ्गृह्य च तत् पुरीषमुत्पाचितं सर्वत एव लिम्पेत् | अभ्यन्तरं मासमिमं प्रयोगं प्रयोजयेच्छ्वित्रमथो निहन्ति ||२०||

🔊 Audio coming soon

Adhikarana 17 (21-22) · Śloka 22

क्षारे सुदग्धे जलगण्डजे तु गजस्य मूत्रेण बहुस्रुते च | द्रोणप्रमाणे दशभागयुक्तं दत्त्वा पचेद्बीजमवल्गुजस्य ||२१|| एतद्यदा चिक्कणतामुपैति तदा समस्तं गुटिका विदध्यात् | श्वित्रं प्रलिम्पेदथ सम्प्रघृष्य तया व्रजेदाशु सवर्णभावम् ||२२||

🔊 Audio coming soon

Adhikarana 18 (23-24) · Śloka 24

कषायकल्पेन सुभावितां तु जलं त्वचा चूतहरीतकीनाम् | तां ताम्रदीपे प्रणिधाय धीमान् वर्तिं वटक्षीरसुभावितां तु ||२३|| आदीप्य तज्जातमसीं गृहीत्वा तां चापि पथ्याम्भसि भावयित्वा | सम्प्रच्छितं तद्बहुशः किलासं तैलेन सिक्तं कटुना प्रयाति ||२४||

🔊 Audio coming soon

Adhikarana 19 (25-26) · Śloka 26

आवल्गुजं बीजमग्र्यं नदीजं काकाह्वानोदुम्बरी या च लाक्षा | लौहं चूर्णं मागधी तार्क्ष्यशैलं तुल्याः कार्याः कृष्णवर्णास्तिलाश्च ||२५|| वर्तिं कृत्वा तां गवां पित्तपिष्टां लेपः कार्यः श्वित्रिणां श्वित्रहारी | लेपात् पित्तं शैखिनं श्वित्रहारि ह्रीबेरं वा दग्धमेतेन युक्तम् ||२६||

🔊 Audio coming soon

Adhikarana 20 (27-28) · Śloka 29

तुत्थालकटुकाव्योषसिंहार्कहयमारकाः | कुष्ठावल्गुजभल्लातक्षीरिणीसर्षपाः स्नुही ||२७|| तिल्वकारिष्टपीलूनां पत्राण्यारग्वधस्य च | बीजं विडङ्गाश्वहन्त्रोर्हरिद्रे बृहतीद्वयम् ||२८|| आभ्यां श्वित्राणि योगाभ्यां लेपान्नश्यन्त्यशेषतः |२९|

🔊 Audio coming soon

Adhikarana 21 (29-33) · Śloka 33

वायसीफल्गुतिक्तानां शतं दत्त्वा पृथक् पृथक् ||२९|| द्वे लोहरजसः प्रस्थे त्रिफलात्र्याढकं तथा | त्रिद्रोणेऽपां पचेद्यावद्भागौ द्वावसनादपि ||३०|| शिष्टौ च विपचेद्भूय एतैः श्लक्ष्णप्रपेषितैः | कल्कैरिन्द्रयवव्योषत्वग्दारुचतुरङ्गुलैः ||३१|| पारावतपदीदन्तीबाकुचीकेशराह्वयैः | कण्टकार्या च तत्पक्वं घृतं कुष्ठिषु योजयेत् ||३२|| दोषधात्वाश्रितं पानादभ्यङ्गात्त्वग्गतं तथा | अप्यसाध्यं नृणां कुष्ठं नाम्ना नीलं नियच्छति ||३३||

🔊 Audio coming soon

Adhikarana 22 (34-38) · Śloka 38

त्रिफलात्वक् त्रिकटुकं सुरसा मदयन्तिका | वायस्यारग्वधश्चैषां तुलां कुर्यात् पृथक् पृथक् ||३४|| काकमाच्यर्कवरुणदन्तीकुटजचित्रकात् | दार्वीनिदिग्धिकाभ्यां तु पृथग्दशपलं तथा ||३५|| त्रिद्रोणेऽपां पचेद्यावत् षट्प्रस्थं परिशेषितम् | शकृद्रसदधिक्षीरमूत्राणां पृथगाढकम् ||३६|| तद्वद्धृतस्य तत्साध्यं भूनिम्बव्योषचित्रकैः | करञ्जफलनीलिकाश्यामावल्गुजपीलुभिः ||३७|| नीलिनीनिम्बकुसुमैः सिद्धं कुष्ठापहं घृतम् | म्रक्षणादङ्गसावर्ण्यं श्वित्रिणां जनयेन्नृणाम् | भगन्दरं कृमीनर्शो महानीलं नियच्छति ||३८||

🔊 Audio coming soon

Adhikarana 23 (39) · Śloka 39

मूत्रं गव्यं चित्रकव्योषयुक्तं सर्पिःकुम्भे क्षौद्रयुक्तं स्थितं हि | पक्षादूर्ध्वं श्वित्रिभिः पेयमेतत् | कुर्याच्चास्मिन् कुष्ठदिष्टं विधानम् ||३९||

🔊 Audio coming soon

Adhikarana 24 (40) · Śloka 40

पूतीकार्कस्नुङ्नरेन्द्रद्रुमाणां मूत्रैः पिष्टाः पल्लवाः सौमनाश्च | लेपः श्वित्रं हन्ति दद्रूर्व्रणांश्च दुष्टान्यर्शांस्येष नाडीव्रणांश्च ||४०||

🔊 Audio coming soon

Adhikarana 25 (41) · Śloka 41

अस्मादूर्ध्वं निःस्रुते दुष्टरक्ते जातप्राणं सर्पिषा स्नेहयित्वा | तीक्ष्णैर्योगैश्छर्दयित्वा प्रगाढं पश्चाद्दोषं निर्हरेच्चाप्रमत्तः ||४१||

🔊 Audio coming soon

Adhikarana 26 (42) · Śloka 42

दुर्वान्तो वा दुर्विरिक्तोऽपि वा स्यात् कुष्ठी दोषैरुद्धतैर्व्याप्तदेहः | निःसन्दिग्धं यात्यसाध्यत्वमाशु तस्मात् कृत्स्नान्निर्हरेत्तस्य दोषान् ||४२||

🔊 Audio coming soon

Adhikarana 27 (43) · Śloka 43

पक्षात् पक्षाच्छर्दनान्यभ्युपेयान्मासान्मासात् स्रंसनं चापि देयम् | स्राव्यं रक्तं वत्सरे हि द्विरल्पं नस्यं दद्याच्च त्रिरात्रात्त्रिरात्रात् ||४३||

🔊 Audio coming soon

Adhikarana 28 (44-49) · Śloka 49

पथ्या व्योषं सेक्षुजातं सतैलं लीढ्वा शीघ्रं मुच्यते कुष्ठरोगात् | धात्रीपथ्याक्षोपकुल्याविडङ्गान् क्षौद्राज्याभ्यामेकतो वाऽवलिह्यात् ||४४|| पीत्वा मासं वा पलांशां हरिद्रां मूत्रेणान्तं पापरोगस्य गच्छेत् | एवं पेयश्चित्रकः श्लक्ष्णपिष्टः पिप्पल्यो वा पूर्ववन्मूत्रयुक्ताः ||४५|| तद्वत्तार्क्ष्यं मासमात्रं च पेयं, तेनाजस्रं देहमालेपयेच्च | आरिष्टीत्वक् साप्तपर्णी च तुल्या लाक्षा मुस्तं पञ्चमूल्यौ हरिद्रे ||४६|| मञ्जिष्ठाक्षौ वासको देवदारु पथ्यावह्नी व्योषधात्रीविडङ्गाः | सामान्यांशं योजयित्वा विडङ्गैश्चूर्णं कृत्वा तत्पलोन्मानमश्नन् ||४७|| कुष्ठाज्जन्तुर्मुच्यते त्रैफलं वा सर्पिर्द्रोणं व्योषयुक्तं च युञ्जन् | गोमूत्राम्बुद्रोणसिद्धेऽक्षपीडे सिद्धं सर्पिर्नाशयेच्चापि कुष्ठम् ||४८|| आरग्वधे सप्तपर्णे पटोले सवृक्षके नक्तमाले सनिम्बे जीर्णं पक्वं तद्धरिद्राद्वयेन हन्यात् कुष्ठं मुष्कके चापि सर्पिः ||४९||

🔊 Audio coming soon

Adhikarana 29 (50) · Śloka 50

रोध्रारिष्टं पद्मकं रक्तसारः सप्ताह्वाक्षौ वृक्षको बीजकश्च | योज्याः स्नाने दह्यमानस्य जन्तोः पेया वा स्यात् क्षौद्रयुक्ता त्रिभण्डी ||५०||

🔊 Audio coming soon

Adhikarana 30 (51) · Śloka 51

खादेत् कुष्ठी मांसशा(पा)ते पुराणान् मुद्गान् सिद्धान्निम्बतोये सतैलान् |५१|

🔊 Audio coming soon

Adhikarana 31 (51-53) · Śloka 53

निम्बक्वाथं जातसत्त्वः पिबेद्वा क्वाथं वाऽर्कालर्कसप्तच्छदानाम् ||५१|| जग्धेष्वङ्गेष्वश्वमारस्य मूलं लेपो युक्तः स्याद्विडङ्गैः समूत्रैः | मूत्रैश्चैनं सेचयेद्भोजयेच्च सर्वाहारान् सम्प्रयुक्तान् विडङ्गैः ||५२|| कारञ्जं वा सार्षपं वा क्षतेषु क्षेप्यं तैलं शिग्रुकोशाम्रयोर्वा | पक्वं सर्वैर्वा कटूष्णैः सतिक्तैः शेषं च स्याद्दुष्टवत् संविधानम् ||५३||

🔊 Audio coming soon

Adhikarana 32 (54-63) · Śloka 64

सप्तपर्णकरञ्जार्कमालतीकरवीरजम् | स्नुहीशिरीषायोर्मूलं चित्रकास्फोतयोरपि ||५४|| विषलाङ्गलवज्राख्यकासीसालमनःशिलाः | करञ्जबीजं त्रिकटु त्रिफलां रजनीद्वयम् ||५५|| सिद्धार्थकान् विडङ्गानि प्रपुन्नाडं च संहरेत् | मूत्रपिष्टैः पचेदेतैस्तैलं कुष्ठविनाशनम् ||५६|| एतद्वज्रकमभ्यङ्गान्नाडीदुष्टव्रणापहम् | सिद्धार्थकः करञ्जौ द्वौ द्वे हरिद्रे रसाञ्जनम् ||५७|| कुटजश्च प्रपुन्नाडसप्तपर्णौ मृगादनी | लाक्षा सर्जरसोऽर्कश्च सास्फोतारग्वधौ स्नुही ||५८|| शिरीषस्तुवराख्यस्तु कुटजारुष्करौ वचा | कुष्ठं कृमिघ्नं मञ्जिष्ठा लाङ्गली चित्रकं तथा ||५९|| मालती कटुतुम्बी च गन्धाह्वा मूलकं तथा | सैन्धवं करवीरश्च गृहधूमं विषं तथा ||६०|| कम्पिल्लकं ससिन्दूरं तेजोह्वातुत्थकाह्वये | समभागानि सर्वाणि कल्कपेष्याणि कारयेत् ||६१|| गोमूत्रं द्विगुणं दद्यात्तिलतैलाच्चतुर्गुणम् | कारञ्जं या महावीर्यं सार्षपं वा महागुणम् ||६२|| अभ्यङ्गात् सर्वकुष्ठानि गण्डमालाभगन्दरान् | नाडीदुष्टव्रणान् घोरान् नाशयेन्नात्र संशयः ||६३|| महावज्रकमित्येतन्नाम्ना तैलं महागुणम् |६४|

🔊 Audio coming soon

Adhikarana 33 (64-65) · Śloka 66

पित्तावापैर्मूत्रपिष्टैस्तैलं लाक्षादिकैः कृतम् ||६४|| सप्ताहं कटुकालाब्वां निदधीत चिकित्सकः | पीतवन्तं ततो मात्रां तेनाभ्यक्तं च मानवम् ||६५|| शाययेदातपे तस्य दोषा गच्छन्ति सर्वशः |६६|

🔊 Audio coming soon

Adhikarana 34 (66) · Śloka 67

स्रुतदोषं समुत्थाप्य स्नातं खदिरवारिणा ||६६|| यवागूं पाययेदेनं साधितां खदिराम्बुना |६७|

🔊 Audio coming soon

Adhikarana 35 (67) · Śloka 68

एवं संशोधने वर्गे कुष्ठघ्नेष्वौषधेषु च ||६७|| कुर्यात्तैलानि सर्पींषि प्रदेहोद्धर्षणानि च |६८|

🔊 Audio coming soon

Adhikarana 36 (68) · Śloka 68

प्रातः प्रातश्च सेवेत योगान् वैरेचनाञ् शुभान् | पञ्च षट् सप्त चाष्टौ वा यैरुत्थानं न गच्छति ||६८||

🔊 Audio coming soon

Adhikarana 37 (69) · Śloka 69

कारभं वा पिबेन्मूत्रं जीर्णे तत्क्षीरभोजनम् | जातसत्त्वानि कुष्ठानि मासैः षड्भिरपोहति ||६९||

🔊 Audio coming soon

Adhikarana 38 (70-71) · Śloka 71

दिदृक्षुरन्तं कुष्ठस्य खदिरं कुष्ठपीडितः | सर्वथैव प्रयुञ्जीत स्नानपानाशनादिषु ||७०|| यथा हन्ति प्रवृद्धत्वात् कुष्ठमातुरमोजसा | तथा हन्त्युपयुक्तस्तु खदिरः कुष्ठमोजसा ||७१||

🔊 Audio coming soon

Adhikarana 39 (72) · Śloka 72

नीचरोमनखः श्रान्तो हिताश्यौषधतत्परः | योषिन्मांससुरावर्जी कुष्ठी कुष्ठमपोहति ||७२||

🔊 Audio coming soon

Adhikarana puShpikA · Śloka 9

इति सुश्रुतसंहितायां चिकित्सास्थाने कुष्ठचिकित्सितं नाम नवमोऽध्यायः ||९||

🔊 Audio coming soon