Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

5. śarīrasaṁkhyāvyākaraṇaśārīram

Adhikarana 1 (1-2) · Śloka 2

अथातः शरीरसङ्ख्याव्याकरणं शारीरं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||

🔊 Audio coming soon

Adhikarana 2 (3) · Śloka 3

शुक्रशोणितं गर्भाशयस्थमात्मप्रकृतिविकारसम्मूर्च्छितं ‘गर्भ’ इत्युच्यते | तं चेतनावस्थितं वायुर्विभजति, तेज एनं पचति, आपः क्लेदयन्ति, पृथिवी संहन्ति, आकाशं विवर्धयति; एवं विवर्धितः स यदा हस्तपादजिह्वाघ्राणकर्णनितम्बादिभिरङ्गैरुपेतस्तदा ‘शरीरं’ इति सञ्ज्ञां लभते | तच्च षडङ्गं- शाखाश्चतस्रो, मध्यं पञ्चमं, षष्ठं शिर इति ||३||

🔊 Audio coming soon

Adhikarana 3 (4) · Śloka 4

अतः परं प्रत्यङ्गानि वक्ष्यन्ते- मस्तकोदरपृष्ठनाभिललाटनासाचिबुकबस्तिग्रीवा इत्येता एकैकाः, कर्णनेत्रभ्रूशङ्खांसगण्डकक्षस्तनवङ्क्षणवृषणपार्श्वस्फिग्जानुकूर्परबाहूरुप्रभृतयो द्वे द्वे, विंशतिरङ्गुलयः, स्रोतांसि वक्ष्यमाणानि , एष प्रत्यङ्गविभाग उक्तः ||४||

🔊 Audio coming soon

Adhikarana 4 (5) · Śloka 5

तस्य पुनः सङ्ख्यानं - त्वचः कला धातवो मला दोषा यकृत्प्लीहानौ फुप्फुस उण्डुको हृदयमाशया अन्त्राणि वृक्कौ स्रोतांसि कण्डरा जालानि कूर्चा रज्जवः सेवन्यः सङ्घाताः सीमन्ता अस्थीनि सन्धयः स्नायवः पेश्यो मर्माणि सिरा धमन्यो योगवहानि स्रोतांसि च ||५||

🔊 Audio coming soon

Adhikarana 5 (6) · Śloka 6

त्वचः सप्त, कलाः सप्त, आशयाः सप्त, धातवः सप्त, सप्त सिराशतानि, पञ्च पेशीशतानि, नव स्नायुशतानि, त्रीण्यस्थिशतानि, द्वे दशोत्तरे सन्धिशते, सप्तोत्तरं मर्मशतं, चतुर्विंशतिर्धमन्यः, त्रयो दोषाः, त्रयो मलाः, नव स्रोतांसि, (षोडश कण्डराः, षोडश जालानि, षट् कूर्चाः, चतस्रो रज्जवः, सप्त सेवन्यः, चतुर्दश सङ्घाताः, चतुर्दश सीमन्ताः, द्वाविंशतिर्योगवहानि स्रोतांसि, द्विकान्यन्त्राणि ) चेति समासः ||६||

🔊 Audio coming soon

Adhikarana 6 (7) · Śloka 7

विस्तारोऽत ऊर्ध्वं- त्वचोऽभिहिताः कला धातवो मला दोषा यकृत्प्लीहानौ फुप्फुस उण्डुको हृदयं वृक्कौ च ||७||

🔊 Audio coming soon

Adhikarana 7 (8) · Śloka 8

आशयास्तु- वाताशयः, पित्ताशयः, श्लेष्माशयो, रक्ताशय, आमाशयः, पक्वाशयो, मूत्राशयः , स्त्रीणां गर्भाशयोऽष्टम इति ||८||

🔊 Audio coming soon

Adhikarana 8 (9) · Śloka 9

सार्धत्रिव्यामान्यन्त्राणि पुंसां, स्त्रीणामर्धव्यामहीनानि ||९||

🔊 Audio coming soon

Adhikarana 9 (10) · Śloka 10

श्रवणनयनवदनघ्राणगुदमेढ्राणि नव स्रोतांसि नराणां बहिर्मुखानि, एतान्येव स्त्रीणामपराणि च त्रीणि द्वे स्तनयोरधस्ताद्रक्तवहं च ||१०||

🔊 Audio coming soon

Adhikarana 10 (11) · Śloka 11

षोडश कण्डराः- तासां चतस्रः पादयोः, तावत्यो हस्तग्रीवापृष्ठेषु; तत्र हस्तपादगतानां कण्डराणां नखा अग्रप्ररोहाः, ग्रीवाहृदयनिबन्धिनीनामधोभागगतानां मेढ्रं, श्रोणिपृष्टनिबन्धिनीनामधोभागगतानां बिम्बं , मूर्धोरुवक्षोंऽसपिण्डादीनां च ||११||

🔊 Audio coming soon

Adhikarana 11 (12) · Śloka 12

मांससिरास्नाय्वस्थिजालानि प्रत्येकं चत्वारि; तानि मणिबन्धगुल्फसंश्रितानि परस्परनिबद्धानि परस्परगवाक्षितानि चेति, यैर्गवाक्षितमिदं शरीरम् ||१२||

🔊 Audio coming soon

Adhikarana 12 (13) · Śloka 13

षट् कूर्चाः, ते हस्तपादग्रीवामेढ्रेषु; हस्तयोर्द्वौ, पादयोर्द्वौ, ग्रीवामेढ्रयोरेकैकः ||१३||

🔊 Audio coming soon

Adhikarana 13 (14-15) · Śloka 15

महत्यो मांसरज्जवश्चतस्रः- पृष्ठवंशमुभयतः पेशीनिबन्धनार्थं द्वे बाह्ये, आभ्यन्तरे च द्वे ||१४|| सप्त सेवन्यः ; सिरसि विभक्ताः पञ्च, जिह्वाशेफसोरेकैका; ताः परिहर्तव्याः शस्त्रेण ||१५||

🔊 Audio coming soon

Adhikarana 14 (16) · Śloka 16

चतुर्दशास्थ्नां सङ्घाताः; तेषां त्रयो गुल्फजानुवङ्क्षणेषु, एतेनेतरसक्थि बाहू च व्याख्यातौ, त्रिकशिरसोरेकैकः ||१६||

🔊 Audio coming soon

Adhikarana 15 (17) · Śloka 17

चतुर्दशैव सीमन्ताः; ते चास्थिसङ्घातवद्गणनीयाः, यतस्तैर्युक्ता अस्थिसङ्घाताः; ये ह्युक्ताः सङ्घातास्ते खल्वष्टादशैकेषाम् ||१७||

🔊 Audio coming soon

Adhikarana 16 (18) · Śloka 18

त्रीणि सषष्टान्यस्थिशतानि वेदवादिनो भाषन्ते; शल्यतन्त्रेषु तु त्रीण्येव शतानि | तेषां सविंशमस्थिशतं शाखासु, सप्तदशोत्तरं शतं श्रोणिपार्श्वपृष्ठोरःसु, ग्रीवां प्रत्यूर्ध्वं त्रिषष्टिः, एवमस्थ्नां त्रीणि शतानि पूर्यन्ते ||१८||

🔊 Audio coming soon

Adhikarana 17 (19) · Śloka 19

एकैकस्यां तु पादाङ्गुल्यां त्रीणि त्रीणि तानि पञ्चदश, तलकूर्चगुल्फसंश्रितानि दश, पार्ष्ण्यामेकं, जङ्घायां द्वे, जानुन्येकम्, एकमूराविति, त्रिंशदेवमेकस्मिन् सक्थ्नि भवन्ति, एतेनेतरसक्थि बाहू च व्याख्यातौ; श्रोण्यां पञ्च, तेषां गुदभगनितम्बेषु चत्वारि, त्रिकसंश्रितमेकं, पार्श्वे षट्त्रिंशदेकस्मिन् , द्वितीयेऽप्येवं, पृष्ठे त्रिंशत्, अष्टावुरसि , द्वे अंसफलके ; ग्रीवायां नव, कण्ठनाड्यां चत्वारि, द्वे हन्वोः , दन्ता द्वात्रिंशत्, नासायां त्रीणि, एकं तालुनि, गण्डकर्णशङ्खेष्वेकैकं, षट् शिरसीति ||१९||

🔊 Audio coming soon

Adhikarana 18 (20) · Śloka 20

एतानि पञ्चविधानि भवन्ति; तद्यथा- कपालरुचकतरुणवलयनलकसञ्ज्ञानि | तेषां जानुनितम्बांसगण्डतालुशङ्खशिरःसु कपालानि, दशनास्तु रुचकानि , घ्राणकर्णग्रीवाक्षिकोषेषु तरुणानि, पार्श्वपृष्ठोरःसु वलयानि , शेषाणि नलकसञ्ज्ञानि ||२०||

🔊 Audio coming soon

Adhikarana 19 (21-23) · Śloka 23

भवन्ति चात्र- अभ्यन्तरगतैः सारैर्यथा तिष्ठन्ति भूरुहाः | अस्थिसारैस्तथा देहा ध्रियन्ते देहिनां ध्रुवम् ||२१|| तस्माच्चिरविनष्टेषु त्वङ्मांसेषु शरीरिणाम् | अस्थीनि न विनश्यन्ति साराण्येतानि देहिनाम् | मांसान्यत्र निबद्धानि सिराभिः स्नायुभिस्तथा | अस्थीन्यालम्बनं कृत्वा न शीर्यन्ते पतन्ति वा ||२३||

🔊 Audio coming soon

Adhikarana 20 (24-25) · Śloka 25

सन्धयस्तु द्विविधाश्चेष्टावन्तः , स्थिराश्च ||२४|| शाखासु हन्वोः कट्यां च चेष्टावन्तस्तु सन्धयः | शेषास्तु सन्धयः सर्वे विज्ञेया हि स्थिरा बुधैः ||२५||

🔊 Audio coming soon

Adhikarana 21 (26) · Śloka 26

सङ्ख्यातस्तु दशोत्तरे द्वे शते | तेषां शाखास्वष्टषष्टिः, एकोनषष्टिः कोष्ठे, ग्रीवां प्रत्यूर्ध्वं त्र्यशीतिः | एकैकस्यां पादाङ्गुल्यां त्रयस्त्रयः, द्वावङ्गुष्ठे, ते चतुर्दश; जानुगुल्फवङ्क्षणेष्वेकैकः, एवं सप्तदशैकस्मिन् सक्थ्नि भवन्ति; एतेनेतरसक्थि बाहू च व्याख्यातौ; त्रयः कटीकपालेषु, चतुर्विंशतिः पृष्ठवंशे, तावन्त एव पार्श्वयोः, उरस्यष्टौ; तावन्त एव ग्रीवायां, त्रयः कण्ठे, नाडीषु हृदयक्लोमनिबद्धास्वष्टादश, दन्तपरिमाणा दन्तमूलेषु, एकः काकलके नासायां च, द्वौ वर्त्ममण्डलयोर्नेत्राश्रयौ, गण्डकर्णशङ्खेष्वेकैकः, द्वौ हनुसन्धी, द्वावुपरिष्टाद्भ्रुवोः शङ्खयोश्च, पञ्च शिरःकपालेषु, एको मूर्ध्नि ||२६||

🔊 Audio coming soon

Adhikarana 22 (27) · Śloka 27

त एते सन्धयोऽष्टविधाः- कोरोलूखलसामुद्गप्रतरतुन्नसेवनीवायसतुण्डमण्डलशङ्खावर्ताः | तेषामङ्गुलिमणिबन्धगुल्फजानुकूर्परेषु कोराः सन्धयः, कक्षावङ्क्षणदशनेषूलूखलाः, अंसपीठगुदभगनितम्बेषु सामुद्गाः, ग्रीवापृष्ठवंशयोः प्रतराः, शिरःकटीकपालेषु तुन्नसेवन्यः, हन्वोरुभयतस्तु वायसतुण्डाः, कण्ठहृदयनेत्रक्लोमनाडीषु मण्डलाः, श्रोत्रशृङ्गाटकेषु शङ्खावर्ताः | तेषां नामभिरेवाकृतयः प्रायेण व्याख्याताः ||२७||

🔊 Audio coming soon

Adhikarana 23 (28) · Śloka 28

अस्थ्नां तु सन्धयो ह्येते केवलाः परिकीर्तिताः | पेशीस्नायुसिराणां तु सन्धिसङ्ख्या न विद्यते ||२८||

🔊 Audio coming soon

Adhikarana 24 (29) · Śloka 29

नव स्नायुशतानि | तासां शाखासु षट्शतानि, द्वे शते त्रिंशच्च कोष्ठे, ग्रीवां प्रत्यूर्ध्वं सप्ततिः | एकैकस्यां तु पादाङ्गुल्यां षण्निचितास्तास्त्रिंशत् , तावत्य एव तलकूर्चगुल्फेषु, तावत्य एव जङ्घायां, दश जानुनि, चत्वारिंशदूरौ, दश वङ्क्षणे, शतमध्यर्धमेवमेकस्मिन् सक्थ्नि भवन्ति; एतेनेतरसक्थि बहू च व्याख्यातौ; षष्टिः कट्यां, पृष्ठेऽशीतिः, पार्श्वयोः षष्टिः, उरसि त्रिंशत्; षट्त्रिंशद्ग्रीवायां, मूर्ध्नि चतुस्त्रिंशत्; एवं नव स्नायुशतानि व्याख्यातानि भवन्ति ||२९||

🔊 Audio coming soon

Adhikarana 25 (30-36) · Śloka 36

भवन्ति चात्र- स्नायूश्चतुर्विधा विद्यात्तास्तु सर्वा निबोध मे | प्रतानवत्यो वृत्ताश्च पृथ्व्यश्च शुषिरास्तथा ||३०|| प्रतानवत्यः शाखासु सर्वसन्धिषु चाप्यथ | वृत्तास्तु कण्डराः सर्वा विज्ञेयाः कुशलैरिह ||३१|| आमपक्वाशयान्तेषु बस्तौ च शुषिराः खलु | पार्श्वोरसि तथा पृष्ठे पृथुलाश्च शिरस्यथ ||३२|| नौर्यथा फलकास्तीर्णा बन्धनैर्बहुभिर्युता | भारक्षमा भवेदप्सु नृयुक्ता सुसमाहिता ||३३|| एवमेव शरीरेऽस्मिन् यावन्तः सन्धयः स्मृताः | स्नायुभिर्बहुभिर्बद्धास्तेन भारसहा नराः ||३४|| न ह्यस्थीनि न वा पेश्यो न सिरा न च सन्धयः | व्यापादितास्तथा हन्युर्यथा स्नायुः शरीरिणम् ||३५|| यः स्नायूः प्रविजानाति बाह्याश्चाभ्यन्तरास्तथा | स गूढं शल्यमाहर्तुं देहाच्छक्नोति देहिनाम् ||३६||

🔊 Audio coming soon

Adhikarana 26 (37-38) · Śloka 38

पञ्च पेशीशतानि भवन्ति | तासां चत्वारि शतानि शाखासु, कोष्ठे षट्षष्टिः, ग्रीवां प्रत्यूर्ध्वं चतुस्त्रिंशत् | एकैकस्यां तु पादाङ्गुल्यां तिस्रस्तिस्रस्ताः पञ्चदश, दश प्रपदे, पादोपरि कूर्चसन्निविष्टास्तावत्य एव, दश गुल्फतलयोः, गुल्फजान्वन्तरे विंशतिः, पञ्च जानुनि, विंशतिरूरौ , दश वङ्क्षणे, शतमेवमेकस्मिन् सक्थ्नि भवति; एतेनेतरसक्थि बाहू च व्याख्यातौ; तिस्रः पायौ, एका मेढ्रे, सेवन्यां चापरा, द्वे वृषणयोः , स्फिचोः पञ्च पञ्च, द्वे बस्तिशिरसि, पञ्चोदरे , नाभ्यामेका, पृष्ठोर्ध्वसन्निविष्टाः पञ्च पञ्च दीर्घाः, षट् पार्श्वयोः, दश वक्षसि, अक्षकांसौ प्रति समन्तात् सप्त, द्वे हृदयामाशययोः, षट् यकृत्प्लीहोण्डु(न्दु)केषु; ग्रीवायां चतस्रः, अष्टौ हन्वोः , एकैका काकलकगलयोः, द्वे तालुनि, एका जिह्वायां , द्वे ओष्ठयोः, द्वे नासायां , द्वे नेत्रयोः, गण्डयोश्चतस्रः, कर्णयोर्द्वे, चतस्रो ललाटे, एका शिरसीति ; एवमेतानि पञ्च पेशीशतानि ||३७|| भवति चात्र- सिरास्नाय्वस्थिपर्वाणि सन्धयश्च शरीरिणाम् | पेशीभिः संवृतान्यत्र बलवन्ति भवन्त्यतः ||३८||

🔊 Audio coming soon

Adhikarana 27 (39) · Śloka 39

स्त्रीणां तु विंशतिरधिका | दश तासां स्तनयोरेकैकस्मिन् पञ्च पञ्चेति, यौवने तासां परिवृद्धिः; अपत्यपथे चतस्रः- तासां प्रसृते अभ्यन्तरतो द्वे, मुखाश्रिते बाह्ये च वृत्ते द्वे, गर्भच्छिद्रसंश्रितास्तिस्रः, शुक्रार्तवप्रवेशिन्यस्तिस्र एव | पित्तपक्वाशययोर्मध्ये गर्भशय्या, यत्र गर्भस्तिष्ठति ||३९||

🔊 Audio coming soon

Adhikarana 28 (40) · Śloka 40

तासां बहलपेलवस्थूलाणुपृथुवृत्तह्रस्वदीर्घस्थिरमृदुश्लक्ष्णकर्कशभावाः सन्ध्यस्थिसिरास्नायुप्रच्छादका यथाप्रदेशं स्वभावत एव भवन्ति ||४०||

🔊 Audio coming soon

Adhikarana 29 (41) · Śloka 41

भवति चात्र- पुंसां पेश्यः पुरस्ताद्याः प्रोक्ता लक्षणमुष्कजाः | स्त्रीणामावृत्य तिष्ठन्ति फलमन्तर्गतं हि ताः ||४१||

🔊 Audio coming soon

Adhikarana 30 (42) · Śloka 42

मर्मसिराधमनीस्रोतसामन्यत्र प्रविभागः ||४२||

🔊 Audio coming soon

Adhikarana 31 (43-44) · Śloka 44

शङ्खनाभ्याकृतिर्योनिस्त्र्यावर्ता सा प्रकीर्तिता | तस्यास्तृतीये त्वावर्ते गर्भशय्या प्रतिष्ठिता ||४३|| यथा रोहितमत्स्यस्य मुखं भवति रूपतः | तत्संस्थानां तथारूपां गर्भशय्यां विदुर्बुधाः ||४४||

🔊 Audio coming soon

Adhikarana 32 (45) · Śloka 45

आभुग्नोऽभिमुखः शेते गर्भो गर्भाशये स्त्रियाः | स योनिं शिरसा याति स्वभावात् प्रसवं प्रति ||४५||

🔊 Audio coming soon

Adhikarana 33 (46) · Śloka 46

त्वक्पर्यन्तस्य देहस्य योऽयमङ्गविनिश्चयः | शल्यज्ञानादृते नैष वर्ण्यतेऽङ्गेषु केषुचित् ||४६||

🔊 Audio coming soon

Adhikarana 34 (47-48) · Śloka 48

तस्मान्निःसंशयं ज्ञानं हर्त्रा शल्यस्य वाञ्छता | शोधयित्वा मृतं सम्यग्द्रष्टव्योऽङ्गविनिश्चयः ||४७|| प्रत्यक्षतो हि यद्दृष्टं शास्त्रदृष्टं च यद्भवेत् | समासतस्तदुभयं भूयो ज्ञानविवर्धनम् ||४८||

🔊 Audio coming soon

Adhikarana 35 (49) · Śloka 49

तस्मात् समस्तगात्रमविषोपहतमदीर्घव्याधिपीडितमवर्षशतिकं निःसृष्टान्त्रपुरीषं पुरुषमावहन्त्यामापगायां निबद्धं पञ्जरस्थं मुञ्जवल्कलकुशशणादीनामन्यतमेनावेष्टिताङ्गमप्रकाशे देशे कोथयेत्, सम्यक्प्रकुथितं चोद्धृत्य, ततो देहं सप्तरात्रादुशीरबालवेणुबल्वजकूर्चानामन्यतमेन शनैः शनैरवघर्षयंस्त्वगादीन् सर्वानेव बाह्याभ्यन्तरानङ्गप्रत्यङ्गविशेषान् यथोक्तान् लक्षयेच्चक्षुषा ||४९||

🔊 Audio coming soon

Adhikarana 36 (50) · Śloka 50

न शक्यश्चक्षुषा द्रष्टुं देहे सूक्ष्मतमो विभुः | दृश्यते ज्ञानचक्षुर्भिस्तपश्चक्षुर्भिरेव च ||५०||

🔊 Audio coming soon

Adhikarana 37 (51) · Śloka 51

शरीरे चैव शास्त्रे च दृष्टार्थः स्याद्विशारदः | दृष्टश्रुताभ्यां सन्देहमवापोह्याचरेत् क्रियाः ||५१||

🔊 Audio coming soon

Adhikarana puShpikA · Śloka 5

इति सुश्रुतसंहितायां शारीरस्थाने शरीरसङ्ख्याव्याकरणशारीरं नाम पञ्चमोऽध्यायः ||५||

🔊 Audio coming soon