🔊 Audio coming soon
Show commentary
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
मर्मविभागादनन्तरं विकृतिविज्ञानीयं शारीरमारभ्यते| यतो मर्मविभागे मर्मशब्द उपात्तः, मरणकारित्वान्मर्मेत्युच्यते, विकृतेरनन्तरं च मरणं दृश्यते, इत्ययमुच्यते-
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
मर्मविभागादनन्तरं विकृतिविज्ञानीयं शारीरमारभ्यते| यतो मर्मविभागे मर्मशब्द उपात्तः, मरणकारित्वान्मर्मेत्युच्यते, विकृतेरनन्तरं च मरणं दृश्यते, इत्ययमुच्यते-
अथातो विकृतिविज्ञानीयं शारीरं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः| गद्यसूत्रे|२|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
प्रकृतिः-स्वभावः, प्रकृतेः-स्वभावात्, प्रच्युतिः-विकृतिः, तस्या विज्ञानं-अवबोधः, स विद्यते यस्मिन्निति "मतोउ छः सूक्तसाम्नोः" इति छः, "अध्यायानुवाकयोर्लुक्" इति तस्य पाक्षिकत्वान्न लुक्, विकृतिविज्ञानीयः, तं शारीरं व्याख्यास्यामः| शेषं पूर्ववत्| विकृतिः पुनरत्र रिष्टमेव विज्ञेयम्|
अत एवाह पुष्पं फलस्य धूमोऽग्नेर्वर्षस्य जलदोदयः| यथा भविष्यतो लिङ्गं रिष्टं मृत्योस्तथा ध्रुवम्||१|| (आयुष्मति क्रियाः सर्वाः सफलाः सम्प्रयोजिताः| भवन्ति भिषजां भूत्यै कृतज्ञ इव भूभुजि||१|| क्षीणायुषि कृतं कर्म व्यर्थं कृतमिवाधमे| अयशो देहसन्देहं स्वार्थहानिं च यच्छति|२| तर्हीदानीं गतासूनां लक्षणं सम्प्रचक्षते| विकृतिः प्रकृतेः प्राज्ञैः प्रदिष्टा रिष्टसंज्ञया)||३||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
यथा फलस्य भाविनो-भविष्यतः पुष्पम्, अग्नेर्भाविनो धूमः, वर्षस्य भाविनो जलदोदयः, तथा-तेनैव दृष्टान्तेन, मृत्योर्भविष्यतो रिष्टं लिङ्गं-गमकं, ध्रुवं-निश्चितम्| द्रुवशब्दनिर्देशादिदं द्योतयति,-रिष्टच्छायानुकारि तदाभासरूपं मृत्योर्न लिङ्गमिति|
अत एवाह अरिष्टं नास्ति मरणं दृष्टरिष्टं च जीवितम्| |२|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
न विद्यते पूर्वं रिष्टं यस्य मरणस्य तदरिष्टं तथाविधं मरणं नास्ति| तथा, दृष्टं रिष्टं यस्य जीवितस्य तदेवंभूतं जीवितमपि नास्ति| यत्तु पुष्पादर्शनेऽपि वटवृक्षादौ फलसद्भावो दृश्यते, तत्तु क्वछिदेव न सर्वत्र, इति नायं दोषोऽत्र चिन्त्यः|
ननु, "दृष्टरिष्टं जीवितं नास्ति" इत्ययुक्तमेतत्, व्यभिचारात्| तथा च वक्ष्यति (श्लो. १२८)- "यं नरं सहसा रोगो दुर्बलं परिमुञ्चति| संशयप्राप्तमात्रेयो जीवितं तस्य मन्यते| " इत्याह | अरिष्टे रिष्टविज्ञानं न च रिष्टेऽप्यनैपुणात्||२||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
परमार्थेन यद्रिष्टत्वेन न च निश्चयीकृतं, तस्मिन्नरिष्टे रिष्टविज्ञानं-रिष्टत्वावगमः| न च रिष्टेऽपि रिष्टविज्ञानं केषाञ्चिद्भवति| कुतो हेतोः ? इत्याह-अनैपुणात्| निपुणस्य भावो नैपुणम्| "हायनान्तयुवादिभ्योऽण्" इत्यण्| न नैपुणमनैपुणं तस्मात्-मिथ्याज्ञानादित्यर्थः| तदेवं यदभ्रान्तरिष्टं तदव्यभिचारित्वान्मरणं निश्चितं सूचयति| यदन्यद्रिष्टच्छायानुकारि "यं नरं सहसा रोगो" इत्यादिलक्षणं तद्भ्रान्तमेव| यथा-अधूमे बाष्पादौ धूम इति ज्ञानम्| न च तस्मान्मिथ्याज्ञानादग्न्युपलब्धिर्निश्चिता भवति| तस्माद्युक्तमुक्तं "अरिष्टं नास्ति मरणं" इत्यादि| मुनिरप्याह (?) (सङ्ग्रहेऽप्युक्तम्, शा. अ.१०)_"अरिष्टं नास्ति मरणं दृष्टरिष्टं च जीवितम्| अरिष्टेरिष्टविज्ञानं न च रिष्टेऽप्यनैपुणात्|| इति| सुश्रुतस्तु पठति (सू. अ. २८/५)-"ध्रुवं हि रिष्टे मरणं ब्राह्मणैस्तत्किलामलैः| रसायनतपोदानतत्परैर्वा निवार्यते|| इति|
कृष्णात्रेयस्तु द्विधा रिष्टमिच्छतीति तन्मतमाविष्कुर्वन्नाह केचित्तु तद्द्विधेत्याहुः स्थाय्यस्थायिविभेदतः| |३|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
केचिदाचार्यास्तत्-रिष्टं, द्विधा वदन्ति| कथम् ? इत्याह-स्थायीत्यादि| तृतीयार्थे तसिः| स्थाय्यस्थायिभेदेन द्विप्रकारम्|
तत्रास्थायिरिष्टभेदं दर्शयन्नाह | दोषाणामपि बाहुल्याद्गिष्टाभासः समुद्भवेत्||३|| स दोषाणां शमे शाम्येत्स्थाय्यवश्यं तु मृत्यवे| |४|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
अपिशब्दः समुच्चये भिन्नक्रमः| रिष्टाभासश्च दोषाणां बाहुल्यात्समुद्भवेत्| दोषाणां शमे-दोषाणां शान्तौ सत्यां, सः-रिष्टाभासः, शाम्येत्-न तु मरणाय सम्पद्यते| स्थायि तु रिष्टमवश्यं मृत्यवे-मरणाय, जायते| ननु, "अरिष्टं नास्ति मरणं' इत्ययुक्तमिवाभाति| रिष्टमन्तरेणाप्यकालमृत्यो राजचौराग्न्युदकादिभिर्दर्शनात्| अत्र सञ्चक्ष्महे| कालमृत्योरेव रिष्टपूर्वकत्वात्| तथा छ वक्ष्यति (श्लो.१४)-सर्वे ते कालछोदिताः|" तथा च (श्लो.६१)-वशगाः समवर्तिनः|" इति| समवर्ती हि कालमृत्युरेव|
किं तद्रिष्टम् ? इत्याह | रूपेन्द्रियस्वरच्छायाप्रतिच्छायाक्रियादिषु||४|| अन्येष्वपि च भावेषु प्राकृतेष्वनिमित्ततः| विकृतिर्या समासेन रिष्टं तदिति लक्षयेत्||५||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
रूपं-गौरादिवर्णविशेषः, गौरः श्यामः कृष्णो गौरश्यामः कृष्णश्याम इति देहप्रकृतिवर्णाः| तद्भेदास्तु पद्मगौरादयः| "नीलश्यामताम्रहारिद्रशुक्लादयस्तु विकृतयः" (सं.शा. अ.९)- तथा, चक्षुषा यद्ग्राह्यं वस्तुजातं संस्थानादि तदपि रूपम्| इन्द्रियाणि-चक्षुरादीनि| स्वरः-शब्दः, प्रतिपुरुषं विशिष्टो रवः| छाया-वर्णप्रभाश्रया वक्ष्यमाणलक्षणा| प्रतिच्छाया प्रतिबिम्बम्| क्रिया-देहवाङ्मानोव्यापारः| तत्र धावनप्लवनाद्यनेकरूपो व्यायामो नृत्यस्थानकादिः-कायिको व्यापारः| गीताध्ययनादिः-वाचिको व्यापारः| रागद्वेषभयेर्ष्यादिः-मानसः| आदिशब्दोऽन्येषामपि शरीरगतानां भावानां ग्रहणार्थम्| रूपं चेन्द्रियाणि च स्वरश्च च्छाया च प्रतिच्छाया च क्रियादयश्च, तेषु रुपादिषु भावेषु, तथाऽन्येष्वपि प्राकृतेषु भावेषु, अनिमित्ततः-अकस्मान्निमित्तमन्तरेणैव, या विकृतिः सा (तत्) समासेन रिष्टमिति लक्ष्येत्-जानीयात्| प्रकृतौ भवाः_-प्राकृताः| यथा वातप्रकृतौ चलधृतिस्मृत्यादयः| तदेवं रूपादिषु भावेषु क्रियादिपर्यन्तेष्वन्येषु च प्राकृतेषु भावेषु या विकृतिः-स्वभावप्रच्युतिः, सा (तत्) सङ्क्षेपेण रिष्टम्| विस्तरतस्त्वनेकधा वक्ष्यमाणम्|
केशरोम निरभ्यङ्गं यस्याभ्यक्तमिवेक्ष्यते| |६|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
केशाश्च रोमाणि च तत् केशरोम, यस्य निरभ्यङ्गं-अभ्यङ्गरहितं, अभ्यक्तमिवेक्ष्यते-दृश्यते, स कालचोदित इति वछनविपरिणामेन सम्बन्धः| एवमुत्तरत्रापि| एतद्रूपविकृतेरुदाहरणम्|
इन्द्रियाणामधिष्ठानस्य विकृतिः-इन्द्रियविकृतिः, इत्याह | यस्यात्यर्थं चले नेत्रे स्तब्धान्तर्गतनिर्गते||६|| जिह्मे विस्तृतसङ्क्षिप्ते सङ्क्षिप्तविनतभ्रुणी| उद्भ्रान्तदर्शने हीनदर्शने नकुलोपमे||७|| कपोताभे अलाताभे स्रुते लुलितपक्ष्मणी| |८|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
नेत्रशब्देन नेत्राधिष्ठानमिष्टम्, नेन्द्रियम्| यस्य चले लोचनेऽत्यर्थं-अतिशयेनेतश्चेतश्च परिभ्रमतः| तथा, यस्य नेत्रे स्तब्धे-निश्च्ले| तथा, यस्यान्तर्गते-अन्तःप्रविष्टे| तथा, यस्य निर्गते-बहिर्याते| तथा, यस्य जिह्मे-कुटिले| तथा, यस्य विस्तृते-विस्तारं गते| तथा, यस्य नेत्रे सङ्क्षिप्ते-सङ्कुचिते| तथा, सङ्क्षिप्ते विशेषेण नते भ्रुवौ ययोस्ते सङ्क्षिप्तविनतभ्रुणी| तथा, उद्भ्रान्तदर्शने-विभ्रान्तदृष्टिनी| तथा, हीनदर्शने-अल्पदर्शने नष्टदृष्टिनी वा| तथा, नकुलोपमे-नकुललोचनाभे| समुदायेषु हि प्रवृत्ताः शब्दा अवयवेष्वपि वर्तन्त इति नकुलशब्दोऽत्र नकुललोचनविषयो वेद्यः| यथा च नागानन्दनाटके (अं.१/१७)-"चक्षुस्तामरसानुकारि हरिणा वक्षःस्थलं स्पर्धते" इति| अत्र हि हरिवक्षसा वक्षः स्पर्धते इत्ययमर्थो वेद्यः| अथवा नकुललोचने उपमा ययोस्ते नकुलोपमे, इत्यत्र उत्तरपदलोपी समासः| एवं कपोताभे| तथा, अलाताभे-उल्मुकसदृशे| तथा,स्रुते-निर्निमित्तमश्रु परिस्रवतः| तथा, लुलिते-वातोद्धत इव पक्ष्मणी ययोस्ते लुलितपक्ष्मणी|
| नासिकाऽत्यर्थविवृता संवृता पिटिकाचिता||८|| उच्छूना स्फुटिता म्लाना| |९|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
तथा, यस्य नासिका निर्निमित्तमत्यर्थं-अतिशयेन, विवृता| अथवा, संवृता-सङ्कुचिता| तथा, पिटिकाचिता-पिटिकाभिर्व्याप्ता| तथा, उच्छूना-ऊर्ध्वं श्वयथुनाऽऽक्रान्ता| तथा, स्फुटिता म्लाना च|
यस्यौष्ठो यात्यधोऽधरः| ऊर्ध्वं द्वितीयः स्यातां वा पक्वजम्बूनिभावुभौ||९||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
यस्यौष्ठो-दन्तच्छदः, अधरः-अनुत्तरः, अधो याति| द्वितीयः-उपरिष्टाद्भवो यो दन्तच्छदः, स ऊर्ध्वं याति| तथा, यस्य च पक्वजम्बूफलनीलौ द्वावोष्ठौ भवतः|
दन्ताः सशर्कराः श्यावास्ताम्राः पुष्पितपङ्किताः| सहसैव पतेयुर्वा|१०|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
तथा, यस्य दन्ताः सशर्कराः-शर्कराभिराचिताः, तथा श्यावास्तथा ताम्राश्च वर्णतः, तथा पुष्पिताः-सञ्जातपुष्पाः, तथा पङ्किताः-सञ्जातपङ्काः कर्दमोपलिप्ता इव, तथा सहसैवझगित्येव, यस्य वा द्विजाः पतेयुः-भ्रंशेयुः|
| जिह्वा जिह्या विसर्पिणी||१०|| शूना शुष्का गुरुः श्यावा लिप्ता सुप्ता सकण्टका| |११|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
तथा, यस्य जिह्वा-जिह्वेन्द्रियाधिष्ठानं, जिह्मा-कुटिला, तथा विसर्पिणी-कारणं विना विशेषेण सर्पति तच्छिला, तथा शूना-निमित्तं विनाऽपि [श्वयथुयुक्ता], तथा शुष्का गुरुश्च, तथा श्यावा, तथालिप्ता, तथा सुप्ता-सुप्तवत्सुप्ता रसाज्ञानाद्विचेतनेत्यर्थः, तथा सकण्टका-कण्टकाचितेव|
| शिरः शिरोधरा वोढुं पृष्ठं वा भारमात्मनः||११|| हनू वा पिण्डामास्यस्थं शक्नुवन्ति न यस्य च| |१२|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
यस्य पुंसः शिरोधरा-ग्रीवा, शिरो वोढुं न शक्नोति| तथा, यस्य पृष्ठं वा आत्मनो भारं-पृष्ठस्य वोढृत्वेनोपर्यारूढं ग्रीवादिकं धारयितुं, न शक्नोति| यस्य वा पुंसो हनू भक्तपिण्डं-कवलं, आस्यस्थं वोढुं न शक्नुतः| एवं शिरोधरादीनि त्रीण्यङ्गानि स्वमात्मीयं कायं यस्य वोडुं न शक्नुवन्ति, स कालचोदित इति योज्यम्|
| यस्यानिमित्तमङ्गानि गुरूण्यति लघूनि वा||१२||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
यस्यानिमित्तं-कारणं विना, अङ्गान्यतिगुरूणि कदाचिदतिलघूनि वा भवन्ति|
विषदोषाद्विना यस्य खेभ्यो रक्तं प्रवर्तते| |१३|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
तथा, यस्य विषदोषमन्तरेण खेभ्यः-छिद्रेभ्यो, रक्तं प्रवर्तते-आयाति|
| उत्सिक्तं मेहनं यस्य वृषणावतिनिःसृतौ||१३|| अतोऽन्यथा वा यस्य स्यात् सर्वे ते कालचोदिताः| |१४|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
यस्य मेहनं-लिङ्गं, उत्सिक्तं-ऊर्ध्वं गतम्| तथा, वृषणावतिनिःसृतौ-प्रलम्बौ| अतोऽन्यथा वा-उक्तप्रकाराद्विपरीतः प्रकारो यः सोऽन्यथा, यथा-वृषणावुत्सिक्तावतिनिःसृतं मेहनमिति| "केशरोम निरभ्यङ्गं" (श्लो.६) इत्यारभ्य यावत् "अतोऽन्यथा वा" इत्येतत्पर्यन्तग्रन्थोक्तं लक्षणं येषां जातं ते पुरुषाः सर्वे कालेन-मृत्युना, चोदिताः-अन्तकेनात्मसाकृता इत्यर्थः| ननु, अत्र कालनियमो न कृतः कियता कालेन मृत्युर्भवति मासेनार्धमासेन वा ? इति सन्देहान्न युक्तमेतत्| अत्र ब्रूमः| अनिर्दिष्टकालानां संवत्सरोऽवधिरिति व्यवस्था वेद्या| तथा चाह (श्लो.२४)-"वर्षान्तं तस्य जीवितम्" तथा (श्लो.२५)-"सोऽपि वर्षं न जीवति" इत्यादिवचनान्नास्ति वर्षादूर्ध्वं जातरिष्टस्य जीवितमिति निश्चयः|
| यस्यापूर्वाः सिरालेखा बालेन्द्वाकृतयोऽपि वा||१४|| ललाटे बस्तिशीर्षे वा षण्मासान्न स जीवति| |१५|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
यस्य-पुंसः स्वस्थस्य निर्निमित्तमेव, ललाटे बस्तेर्वा शिरसि, अपूर्वाः-अभिनवा न तु प्रागवस्थिताः, सिरालेखाः-सिराराजयो, दृश्यन्ते| अथवा बालेन्द्वाकृतयो-वक्राः, स पुमान् षण्मासान्न जीवति|
| पद्मिनीपत्रवत्तोयं शरीरे यस्य देहिनः||१५|| प्लवते प्लवमानस्य षण्मासास्तस्य जीवितम्| |१६|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
तथा, यस्य पुंसः प्लवमानस्य-जले स्नानं कुर्वतः, शरीरे पद्मिनीपत्रवत्-पद्मिनीपत्रस्थिततोयवत्, तोयं प्लवते-अनवस्थितस्थिति भवति, तस्यापि षण्मासा न जीवितम्| पद्मिनीपत्रवदिति सप्तम्यर्थे वतिर्न षष्ठ्यर्थे, शरीर इति सप्तम्या निर्दिष्टत्वात्| तथा चोक्तं भाष्यकृता-"उपमाने यः संशयः स उपमेयाद्व्यावर्तते|" इति|
| हरिताभाः सिरा यस्य रोमकूपाश्च संवृताः||१६|| सोऽम्लाभिलाषी पुरुषः पित्तान्मरणमश्नुते| |१७|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
यस्य सिरा हरिताभा रोमकूपाश्च संवृताः स्युः, स नरोऽम्लाभिलाषी सन् पित्तेन मृत्युं प्राप्नोति|
| यस्य गोमयचूर्णाभं चूर्णं मूर्ध्नि मुख़ेऽपि वा||१७|| सस्नेहं, मूर्ध्नि धूमो वा, मासान्तं तस्य जीवितम्| |१८|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
यस्य पुरुषस्य गोमयचूर्णसदृशं चूर्णं सस्नेहं मूर्ध्नि मुखे वा भवेत्, तथा मूर्ध्नि धूमो यस्य वा भवति, तस्य मासान्तं जीवितं स्यात्|
| मूर्ध्नि भ्रुवोर्वा कुर्वन्ति सीमन्तावर्तका नवाः||१८|| मृत्युं स्वस्थस्य षड्रात्रात्त्रिरात्रादातुरस्य तु| |१९|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
सीमन्तानामावर्तकाः-मण्डलानि,-सीमन्तावर्तकाः, शिरसि भ्रुवोर्वा नवाः-अपूर्वाः, स्वस्थस्य षड्रात्रान्मृत्युं कुर्वन्ति| आतुरस्य पुनस्त्रिरात्रात् कुर्वन्ति| अनेकार्थत्वाद्धातूनां सूचयन्तीत्यर्थः, न तु विषवन्मारणे तेषां कर्तृत्वम्| तर्हि सूचयन्तीत्येतदेव कस्मान्न कृतम् ? ब्रूमः| यदोत्पद्यन्ते सीमन्तावर्तकास्तदा निश्चितं स्थायि रिष्टं समुत्पन्नमित्यवगन्तव्यमिति प्रतिपादनार्थं कुर्वन्तीत्युक्तम्|
| जिह्वा श्यावा मुख़ं पूति सव्यमक्षि निमज्जति||१९|| ख़गा वा मूर्ध्नि लीयन्ते यस्य तं परिवर्जयेत्| |२०|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
तथा, यस्य जिह्वा श्यावा भवति, तथा मुखं पूति-दुर्गन्धि, तथा सव्यं-वाममक्षि, निमज्जति-अन्तःप्रविशति, तथा यस्य खगाः-पक्षिणश्च, मूर्ध्नि लीयन्ते-श्लिष्यन्ति, तं परिवर्जयेत्| वैद्य इति शेषः|
| यस्य स्नातानुलिप्तस्य पूर्वं शुष्यत्युरो भृशम्||२०|| आर्द्रेषु सर्वगात्रेषु सोऽर्धमासं न जीवति| |२१|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
यस्य स्नातानुलिप्तस्य-पूर्वं स्नातः पश्चादनुलिप्तस्तस्य, आर्द्रेषु सर्वगात्रेषु पूर्वं-आदौ, भृशमुरः शुष्यति-अतिशयेन वक्षःशोषमायाति, सोऽर्धमासं-पक्षं, न जीवति| ननु,, "आर्द्रेषु सर्वगात्रेषु" इति न वक्तव्यम्, पुनरुक्तत्वात्| तथा हि-"पूर्वंशुष्यत्युरो भृशम्" इत्युक्ते "आर्द्रेषु सर्वगात्रेषु" इत्यर्थाद्गम्यत एव| अन्यथा पूर्वग्रहणमनर्थकं स्यात्| मैवम्| अत्र हि भृशग्रहणात् पूर्वमुरो भृशं शुष्यति, न पुनरन्यान्यपि गात्राणि न शुष्यन्तीत्यायाति| न चैतदिष्टं शास्त्रकृतः| अत एव "आर्द्रेषु" इत्याह| तदयमर्थोऽत्राभिप्रेतः-यथैवोरसो भृशंशोषः, तथैव शेषाणामङ्गानां भृशार्द्रता स्यादिति, एतच्च प्रतिपादयितुं "आर्द्रेषु" इत्युक्तम्| सर्वगात्रेष्वाद्रेषु सत्सु पूर्वमुरो भृशं शुष्यतीत्यैतदाश्चर्यम्| आश्चर्यत्वाद्रिष्टम्|
| अकस्माद्युगपद्गात्रे वर्णौ प्राकृतवैकृतौ||२१|| तथैवोपचयग्लानिरौक्ष्यस्नेहादि मृत्यवे| |२२|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
तत्र प्राकृतो वर्णो-गौरादिः, प्रागुक्तः, वैकुतस्तु वर्णो-नीलादिः, तौ प्राकृतवैकृतौ वर्णौ यस्य निमित्तमन्तरेणापि तुल्यकालं देहे भवतः, तौ मृत्यवे| तथैवोपचयग्लान्यादयः परस्परं प्रतिपक्षभूता युगपद्यस्योत्पद्यन्ते तस्य मृत्यवे| आदिशब्देन शैत्यौष्ण्यादीनि गृह्यन्ते|
| यस्य स्फुटेयुरङ्गुल्यो नाकृष्टा न स जीवति||२२|| क्षवकासादिषु तथा यस्यापूर्वो ध्वनिर्भवेत्| ह्रस्वो दीर्घोऽति वोच्छ्वासः पूतिः सुरभिरेव वा||२३||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
यस्य आकृष्टा अङ्गुल्यो न स्फुटेयुः-न त्रुटेयुः, स न जीवति| यस्य क्षवादिष्वपूर्वो ध्वनिः-अलौकिकः शब्दः, स्यात् स न जीवति| यस्योच्छ्वासोऽतिह्रस्वोऽतिदीर्घो वा भवेत्, अथवोच्छ्वासः पूतिगन्धिः सुरभिर्वा यस्य, स न जीवति|
आप्लुतानाप्लुते काये यस्य गन्धोऽतिमानुषः| मलवस्त्रव्रणादौ वा वर्षान्तं तस्य जीवितम्||२४||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
तथा, आप्लुतानाप्लते-स्नातास्नाते, काये यस्य मानुषमतिक्रान्तः-अतिमानुषः, गन्धः-सुरभिरसुरभिर्वा, भवति| यस्य मलवस्त्रव्रणादौ वाऽतिमानुषो गन्धः स्यात्, वर्षान्तं तस्य जीवितं-तत्क्षणादारभ्य तावदसाववस्थितजीवितो यावद्वर्षम्| तदन्ते-वत्सरान्ते, मृत्युभाक् जायत इत्यर्थः|
भजन्तेऽयङ्गसौरस्याद्यं यूकामक्षिकादयः| त्यजन्ति वाऽतिवैरस्यात्सोऽपि वर्षं न जीवति||२५||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
शोभनस्य रसस्य भावः सौरस्यम्, अङ्गस्य सौरस्यमङ्गसौरस्यम्, अतिशयेनाङ्गसौरस्याद्धेतोर्यूकामक्षिकादयो यं भजन्ते, अथवा यमतिरैरस्यत्त्यजन्ति, सोऽपि वर्षं न जीवति|
सततोष्मसु गात्रेषु शैत्यं यस्योपलक्ष्यते| शीतेषु भृशमौष्ण्यं वा स्वेदः स्तम्भोऽप्यहेतुकः||२६||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
तथा, यस्य सततोष्मसु-सदोष्णेषु, गात्रेषु-अवयवेषु, भृशं शैत्यमुपलक्षयते-उपलभ्यते, शीतेषु वा गात्रेषु भृशमौष्ण्यं यस्योपलभ्यते, भृशशब्दस्यात्र हि विषयद्वयेऽपि सम्बन्धः| यस्याहेतुकः-निर्निमित्तः, अङ्गेष्वतिस्वेदः, तथा स्वेदविषयो यः स्तम्भः, सोऽपि यस्य स्यात्, सोऽपि वर्षं न जीवतीति योज्यम्|
Adhikarana शीतगात्रस्य रिष्टम्, शीतपिटिकस्य शीताङ्गस्य च रिष्टम्, शीतार्तस्य रिष्टम् (२७) · Śloka २७
यो जातशीतपिटिकः शीताङ्गो वा विदह्यते| उष्णद्वेषी च शीतार्तः स प्रेताधिपगोचरः||२७||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
जाताः शीताः पिटिका यस्य स जातशीतपिटिकः,-कफोद्भूतपिटिकाक्रान्तदेहो, यो विदह्यते-विदाहमनुभवति, शीताङ्गः सन् यो वा विदह्यते, तथोष्णं द्वेष्टि यः पुरुषः शीतार्तः सन्, स प्रेताधिपगोचरः-स मृत्युनाऽऽत्मसात्क्रियत इत्यर्थः|
उरस्यूष्मा भवेद्यस्य जठरे चातिशीतता| भिन्नं पुरीषं तृष्णा च यथा प्रेतस्तथैव सः||२८||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
उरसि-यस्योष्मा-औष्ण्यं, भवेत्, जठरे--उदरे चातिशैत्यम्, पुरीषं भिन्नं तृष्णा च भवति, स प्रेततुल्यः, प्राप्तमरणत्वादिति भावः|
मूत्रं पुरीषं निष्ठ्यूतं शुक्रं वाऽप्सु निमज्जति| निष्ठ्यूतं बहुवर्णं वा यस्य मासात्स नश्यति||२९||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
यस्य मूत्रं पुरीषं निष्ठ्यूतं शुक्रं वा अप्सु निमज्जति-ब्रुडति, यस्य वा निष्ठ्यूतं-निष्ठीवनं, अनेकवर्णं भवति, असौ मासेन नश्यति|
ग़नीभूतमिवाकाशमाकाशमिव यो ग़नम्| अमूर्तमिव मूर्तं च मूर्तं चामूर्तवत्स्थितम्||३०|| तेजस्व्यतेजस्तद्वच्च शुक्लं कृष्णमसच्च सत्| अनेत्ररोगश्चन्द्रं च बहुरूपमलाञ्छनम्||३१|| जाग्रद्रक्षांसि गन्धर्वान् प्रेतनन्यांश्च तद्विधान्| रूपं व्याकृति तत्तच्च यः पश्यति स नश्यति||३२|| सप्तर्षीणां समीपस्थां यो न पश्यत्यरून्धतीम्| ध्रुवमाकाशगङ्गां वा स न पश्यति तां समाम्||३३||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
मरणाभिमुखः पुरुषो विपर्यासकारिभिर्दोषैरघनादि घनादिरूपं मन्यते, घनादि वाऽघनादि मन्यते, तद्विपर्ययेण| अत एवोपमार्थमिवशब्दं प्रायुङ्क्त| अघनो घनः सम्पन्नो घनीभूतः| च्विप्रत्ययान्तस्यास्य "च्वौ" इतीत्वम्| घनीभूतमिवान्तरिक्षमन्तरिक्षमिव घनं मेदिनीधर्ममन्तरिक्षमूर्ध्वस्थं यत्तदधःस्थं पातालस्थमिव पश्यति, स नश्यतीति वक्ष्यमाणेन सम्बन्धः| चशब्दो भिन्नक्रम इवशब्दश्च| अमूर्तं च वातादिकं मूर्तमिव-रूपवन्तमिव, पश्यति| मूर्तं च वह्न्यादिकममूर्तमिव स्थितं यः पश्यति स नश्यति| भेडोऽप्यधीते (इं.अ.७)- "यस्य दर्शनमायाति वायुरम्बरगोचरः| वह्निर्नायाति दीप्तोऽपि तस्या युःक्षयमादिशेत्||" इति| तथा, तेजस्वि-यद्वस्त्वग्न्यादिकं भास्वरं, तदतेजो-निस्तेजो, यः पश्यति| तेजस्वीति "अस्मायामेधा" इत्यादिनाविनिः| तद्वच्चेति तेजस्व्यतेजोदर्शनेन तुल्यं-तद्वत्, शुक्लं कृष्णं यः पश्यति, असच्च यद्वस्तु तत्सत् यः पश्यति स नश्यति| नेत्रेषु रोगो नेत्ररोगः स विद्यते यस्य नैव सोऽनेत्ररोगी, तिमिरादिकमन्तरेण बहुरूपं चन्द्रं पश्यति-बहून् शशाङ्काना- लोकयत इत्यर्थः| यो वा अलाञ्छनं-अकलङ्कं, चन्द्रं पश्यति स नश्यति| एषु च घनीभूतमित्यादिषु विशिष्टेषु वस्तुविपर्यासदर्शनमात्रलक्षणस्यैकस्मिन्नेवोदाहरणत्वेन रिष्टे दर्शयितुं युक्ते यदनेकरिष्टप्रदर्शनं तत्प्रपञ्चार्थं वेद्यम्| आसन्नमरणो नरो जाग्रदेव यथास्वरूपाणि रक्षःपिशाचादीनि यः पश्यति, न विपर्ययवस्तुरूपाणि| यतस्तदानीं तैरेव स उपास्यते| तथा च वक्ष्यति (श्लो.१३०)-"यमदूतपिशाचाद्यैर्यत्परासुरुपास्यते|" इति| रक्षांसीति बहुवचननिर्देशो बहुराक्षसदर्शने सुतरामस्य रिष्टस्य परिपूर्णत्वमिति द्योतयितुम्| एकस्मिन्नपि हि राक्षसे दृष्टे रिष्टं भवत्येव| जातौ वा बहुवचनम्| अन्यांश्च तद्विधान्-राक्षसादिप्रकारान्, यः पश्यति| तथा, विकृता-द्रष्टुं दुःशक्या, आकृतिर्यस्य-रूपस्य, तद्रूपं व्याकृति, रक्षःपिशाचादिव्यतिरिक्तं तत्तत्-अनेकं, यः पश्यति स नश्यति| यो नरोऽरुन्धतीं सप्तर्षीणां समीपस्थां न पश्यति, स तां समां न पश्यति-स तस्य संवत्सरस्यान्तरे म्रियत इत्यर्थः| सप्तर्षीणां समीपस्थामित्यरुन्धत्या विशेषणं सप्तर्षिसमीपेऽरुन्धत्याः स्थितिर्भवतीति वेदयति| तथा चान्यैः सामान्येनैवोक्तम्| यथा "अरुन्धतीं ध्रुवं चैव सोमच्छायां महापथम्| यो न पश्येन्न पश्येत्स नरः संवत्सरात्परम्||" इति| तथा, यो ध्रुवं न पश्यति, तथा आकाशगङ्गां यो न पश्यति, स तां समां न पश्यति|
Adhikarana शब्दस्य रिष्टम्, गन्धस्य रिष्टम्, रसस्य रिष्टम्, स्पर्शस्य रिष्टम्, मनसः रिष्टम् (३४-३८) · Śloka ३८
इदनीम् श्रोत्रेन्द्रियस्य विक्रुतिमाचिख्यासुराह मेघतोयौघनिर्घोषवीणापणववेणुजान्| शृणोत्यन्यांश्च यः शब्दानसतो न सतोऽपि वा||३४|| निष्पीड्य कर्णौ शृणुयान्न यो धुकधुकास्वनम्| तद्वद्गन्धरसस्पर्शान् मन्यते यो विपर्ययात्||३५|| सर्वशो वा न यो, यश्च दीपगन्धं न जिघ्रति| विधिना यस्य दोषाय स्वास्थ्यायाविधिना रसाः||३६|| यः पांसुनेव कीर्णाङ्गो योऽङ्गे घातं न वेत्ति वा| अन्तरेण तपस्तीव्रं योगं वा विधिपूर्वकम्||३७|| जानात्यतीन्द्रियं यश्च तेषां मरणमादिशेत्| |३८|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
मेघादिजान् वेणुपर्यन्तान् शब्दांस्तथाऽन्यांश्च शब्दांस्तथा रूपान्महतो यः पुरुषोऽसतः-परैरनुपलभ्यमानान्, शृणोति, तथा मेघादिजांस्तथाऽन्यांश्च यः शब्दान् सतो-विद्यमानान्, न शृणोति, तेषां मरणमादिशेदिति वक्ष्यमाणस्य वचनविपरिणामेनात्र सम्बन्धः कार्यः| यो धुकधुकाशब्दं कर्णावङ्गुलीभिर्निष्पीड्य न शृणुयात्| तैर्मेघादिजैः शब्दैस्तुल्यं-तद्वत्| यथा-मेघादिजान् शब्दान्योऽसतः शृणोति सतश्च न शृणोति, तद्वद्यो गन्धरसस्पर्शान् विपर्ययात्-वैपरीत्येन मन्यते, न यथावस्तु- बलि| तत्र गन्धविपर्ययो यथा-सुगन्धि दुर्गन्धं मन्यते| रसविपर्ययो यथा-मधुरमम्लमम्लं मधुरमित्यादि| स्पर्शविपर्ययो यथा मृदुस्पर्शं खरस्पर्शं मन्यते| सर्वसर्विकया गन्धादीन् वा योऽपि न मन्यते, सोऽपि नश्यति| तत्कालनिर्वाणस्य दीपस्य यो गन्धं न जिघ्रति-घ्राणेन्द्रियेण नानुभवति| विधिना-शास्त्रप्रयुक्तेन, प्रयुक्ता रसा यस्य दोषाय-रोगाय, अविधिना-शास्त्रविशिव्यतिक्रमेण, प्रयुक्ताः स्वास्थ्याय स्युः| तथा, यः पांसुना-रजसेव, कीर्णाङ्गो-धूलिधूसरितशरीरः| यश्चाङ्गे घातं-हतिं, न वेत्ति| तपस्तीव्रमन्तरेण-उग्रं तपो विना, यः पुरुषोऽतीन्द्रियं-इन्द्रियेभ्योऽतिक्रान्तं वेत्ति, इन्द्रियाणामगोचरं स्वर्गादि वेत्ति, तथा योगं वा विधिपूर्वकमन्तरेण योऽतीन्द्रियं जानाति| तेषां-पूर्वोक्तानां सर्वेषां, मरणमादिशेत्| योगः-चित्तवृत्तिनिरोधः, विधिपूर्वको यथाशास्त्रं सम्यगुपदेशः| तथा, अन्योऽपि योगो-रसायनादिः| युज्यत इति योगो-विधिविशेषः| शास्त्रोद्दिष्टरसायनाञ्जनादिनाऽपि ह्यतीन्द्रियं दृष्यते दूरव्यवहितादि|
अधुना खरविकृतिमाह | हीनो दीनः स्वरोऽव्यक्तो यस्य स्याद्गद्गदोऽपि वा||३८|| सहसा यो विमुह्योद्वा विवक्षुर्न स जीवति| |३९|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
यस्य पुरुषस्य स्वरः-शब्दो, निमित्तमन्तरेण हिनोऽथवा दीनो-दैन्ययुक्तो, भवति| अव्यक्तः-अस्फुटो, यस्य स्यात्| गद्गदो-घर्घरो, वा यस्य भवति| यो वा विवक्षुः-वक्तुमिच्छन्, कारणमन्तरेण विमुह्येत्-वक्तुं न शक्नोति, स न जीवति|
| स्वरस्य दुर्बलीभावं हानिं च बलवर्णयोः||३९|| रोगवृद्धिमयुक्त्या च दृष्ट्वा मरणमादिशेत्| |४०|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स्वरस्य-शब्दस्य, दौर्बल्यं दृष्ट्वा बलवर्णयोश्च हानिमयुक्त्या दृष्ट्वा मरणमादिशेत्| चशब्दः समुच्चये| रोगवृद्धिमयुक्त्या च दृष्ट्वा नरस्य मरणमादिशेत्| अयुक्त्या-निर्निमित्तमेवेत्यर्थः|
| अपस्वरं भाषमाणं प्राप्तं मरणमात्मनः||४०|| श्रोतारं चास्य शब्दस्य दूरतः परिवर्जयेत्| |४१|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स्वभावस्वरादपगतं भ्रष्टं-अपस्वरं,-हीनस्वरं कृत्वा, यो नरोऽहं मरिष्यामि मरिष्यामीत्येवमात्मनो मरणं भाषते परस्य, तं तथाभूतं दूरादेव वर्जयेत्-वैद्यो न चिकित्सेत्| तथा, अस्य शब्दस्य-अहं मरिष्यामीत्येवंभूतस्य योनरः श्रोता, तमपि वैद्यो दूरतो वर्जयेत्|
स्वराश्रय रिष्टमुक्त्वा छायाश्रयं रिष्टमभीधित्सुराह | संस्थानेन प्रमाणेन वर्णेन प्रभयाऽपि वा||४१|| छाया विवर्तते यस्य स्वप्नेऽपि प्रेत एव सः| |४२|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
संस्थानं-प्रतिपुरुषं विलक्षणं समविषमं रूपम्, आकृतिरित्यर्थः| तत्र यदि शरीरस्य समं संस्थानं भवति, छाया त्वस्य विषमा दृश्यते, तदा रिष्टम्| तथा, यदि शरीरस्य विषमं संस्थानं छाया तु समा भवति, तदा रिष्टम्| तथा, यदि दीर्घप्रमाणस्य सतो ह्रस्वा छाया भवति ह्रस्वप्रमाणस्य वा दीर्घा भवति, तदपि रिष्टम्| एवं संस्थानेन प्रमाणेन च छायाविवृत्तिर्वेद्या| तथा, यस्य नाभसी छाया आग्नेय्या छाया या वर्णतो दृश्यते सा वर्णविवृत्तिः| एवं पृथिव्यादिमयीषु छायासु वर्णविवृत्तिर्योज्या| तथा, यस्य यथाभूता प्रभा साऽन्यथाभूता भवति सा प्रभाविवृत्तिः| एवं संस्थानाद्यन्यतमेन यस्य छाया विवर्तते-अन्यथाभूताऽन्यथा| सम्पद्यते, स्वप्नेऽपि स पुमान् प्रेत एव, किं पुनर्जाग्रदवस्थायां न प्रेतः ? इति एवकारेण रिष्टस्यास्याव्यभिचारित्वं सूचयति| उत्पन्नश्चेन्नरस्य छायाया अन्यथाभावः, तदानीं पुरुषो यमसात्सम्पन्नो मन्तव्य इत्यर्थः|
अस्याश्च छायाया द्वैरूप्यं दर्शयितुमाह | आतपादर्शतोयादौ या संस्थानप्रमाणतः||४२|| छायाऽङ्गात्सम्भवत्युक्ता प्रतिच्छायेति सा पुनः| वर्णप्रभाश्रया या तु सा छायैव शरीरगा||४३||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
या शरीरादातपादर्शतोयघृतादौ शरीरसंस्थानप्रमाणानुरूपा सम्भवति प्रतिबिम्बकरूपा, सा प्रतिच्छायेत्युच्यते| तस्या हि न वर्णप्रभे आश्रयः| यस्याः पुनर्वर्णप्रभे आश्रयश्च्छायायाः, सा शरीरगैव-शरीरस्थैव, छाया| न प्रतिच्छायावच्छरीरादन्यत्रातपादर्शतोयादौ कुत्रचिदपयाति प्रतिबिम्बकरूपतया|
भवेद्यस्य प्रतिच्छाया छिन्ना भिन्नाऽधिकाऽऽकुला| विशिरा द्विशिरा जिह्मा विकृता यदि वाऽन्यथा||४४|| तं समाप्तायुषं विद्यान्न चेल्लक्ष्यनिमित्तजा| प्रतिच्छायामयी यस्य न चाक्ष्णीक्ष्येत कन्यका||४५||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
यस्य पुंसः प्रतिच्छाया छिन्ना-द्विधा, दृश्यते| अथवा भिन्नाकिञ्चित्सच्चिद्रेव यस्य दृश्यते| तथा, यस्याधिका दृश्यते-न यथा प्रमाणा| यस्य वा आकुला-चलस्वरूपा अनिश्चितप्रतिबिम्बा, भवति| तथा, यस्य विशिरा-शिरोरहिता| तथा, यस्य द्विशिरा| तथा, यस्य जिह्मा-कुटिला| विकृतेति उक्तप्रकारादन्यथा अन्येन प्रकारेण, यस्य विकृता दृश्यते आतापादर्शतोयादौ, तं पूर्वोक्तं च सर्वमेव, समाप्तायुषं-क्षीणजीवितं, विद्यात्| न चेदित्यादि| लक्षयितुं प्रत्यक्षादिभिः प्रमाणैः शक्यं-लक्ष्यम्| शक्यार्थे कृत्यः| लक्ष्यं च तन्निमित्तं च, तस्मात्तथाविधान्निमित्ताद्विकृताज्जाता [प्रति] च्छाया यदि न भवति तदा रिष्टम्, नान्यथा| प्रतिच्छायामयी कन्यका-प्रतिबिम्बकुमारिकेति या लोके प्रसिद्धा, साऽक्ष्णि-नेत्रे, यस्य नेक्ष्येत-नोपलभ्येत, तं समाप्तायुषं विद्यात्|
Adhikarana ख़ादीनां महाभूतानां पञ्च छायाः ,नाभसी छाया ,वायवी छाया ,आग्नेयी छाया ,आम्भसी छाया, पार्थिवी छाया (४६-४८) · Śloka ४८
इदानीं यस्य महाभूतस्य यादृशी छाया स्यात्, तां कथयितुमाह खादीनां पञ्च पञ्चानां छाया विविधलक्षणाः| नाभसी निर्मलाऽऽनीला सस्नेहा सप्रभेव च||४६|| वाताद्रजोऽरुणा श्यावा भस्मरूक्षा हतप्रभा| विशुद्धरक्ता त्वाग्नेयी दीप्ताभा दर्शनप्रिया||४७|| शुद्धवैदूर्यविमला सुस्निग्धा तोयजा सुखा| स्थिरास्निग्धा घना शुद्धा श्यामा श्वेता च पार्थिवी||४८||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
खादीनां महाभूतानां पञ्चानां पञ्च छाया भवन्ति| ननु, खादीनां पञ्चत्वाच्छायानां पञ्चत्वमर्थाल्लब्धमेव| तत्किं पञ्चग्रहणेन ? अस्त्वेवैतत्| किन्तु यथा खादिभ्यः पञ्चभ्यो द्रव्यमेकं भूतोत्कर्षापकर्षभेदाच्चासङ्ख्येयं द्रव्यम्, तथा छायानामप्येकत्वं भूतोत्कर्षापकर्षभेदाच्चासङ्ख्येयत्वमाशङ्क्येत, तदाशङ्कानिवृत्त्यर्थं पञ्चग्रहणम्| पञ्चैव छाया भवन्ति, नोनाधिका इति| किम्भूताश्च्छायाः ? विविधलक्षणाः,-विविधं लक्षणं वक्ष्यमाणं यासां ता एवम्| आकाशजा छाया निर्मला-शुद्धा| तथा, आनीला-ईषन्नीला, इत्याकारप्रश्लेषोऽत्र वेद्यः| "शुद्धवैदूर्यविमला" हि "तोयजा" (श्लो.४८) इति वक्ष्यति| तथा, किञ्चित्स्निग्धा| सप्रभेत्यनेन शोभनत्वमुक्तम्| एतदेव स्फुटयितुमिवशब्दं तन्त्रकृत्प्रायुङ्क्त| अन्यथा छायाप्रभयोर्भिन्नविषयत्वादनुपपन्नमेतद्वाक्यं स्यात्| भेदश्चानयोरधुनैव वक्ष्यति (श्लो.५१)|वाताद्रजोरुणादियुक्ता छाया भवति| आग्नेयी विशुद्धरक्तवर्णा, दीप्ताभा, तथा दर्शनं प्रियं यस्याः सैवंविधा, भवति| तोयजा छाया निर्मलवैदूर्यविमला, सुष्ठु स्निग्धा, सुखा-सुखावहा| पार्थिवी छाया स्थिरादिगुणयुक्ता| ननु, च, अग्निजलभुवां स्वयं वर्णादियोगादाग्नेय्यादिकानां तद्वर्णकत्वमुपपन्नम्| नभोमारुतयोस्तु स्वयं वर्णाद्ययोगात्कथं तच्छायानां वर्णादियोगो युज्येत ? इति केचित्| तान् ब्रूमहे| अचिन्त्यत्वाद्धेतुफलस्यादोषः| तथा हि,-मधुरादयो रसाः कालादमूर्ताद्भवन्तो दृश्यन्ते यथा, तथा तच्छाये अप्येते भविष्यतः| तत्र यस्य नरस्य कर्मादिसहायं नभश्च्छायामुत्पादयति तस्य नाभसीति युज्यत एव| एवं वायव्यामपि वाच्यम्|
इदानीमासां छायानां गुणनिर्देशमाह वायवी रोगमरणक्लेशायान्याः सुखोदयाः| |४९|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
वायवी छाया रोगाद्यर्थं जायते| अन्याः-शेषाश्चतस्रः, छायाः सुखोदयाः-सुखावहाः|
| प्रभोक्ता तैजसी सर्वा, सा तु सप्तविधा स्मृता||४९|| रक्ता पीता सिता श्यावा हरिता पाण्डुराऽसिता| |५०|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
प्रभा सर्वा-सप्तप्रकाराऽपि, तैजसी-आग्नेयी, उक्ता-तन्त्रकृद्भिः स्मृता| तदेव सप्तविधत्वमाह-रक्तेत्यादि|
| तासां याः स्युर्विकासिन्यः स्निग्धाश्च विमलाश्च याः||५०|| ताः शुभा, मलिना रूक्षाः सङ्क्षिप्ताश्चाशुभोदयाः| |५१|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
तासां-पूर्वोक्तानां प्रभाणां मध्यात्, याः प्रभा विकासिन्यः-प्रसृता इव, तथा स्निग्धा विमलाश्च स्युः, ताः शुभाः-कल्याणकारिण्यः| याश्च मलिनादिगुणयुक्तास्ता अशुभोदयाः-अमाङ्गल्यकारिण्यः|
छायाप्रभयोरन्यत्वं प्रदर्शयितुं लक्षणमाह | वर्णमाक्रामति छाया प्रभा वर्णप्रकाशिनी||५१||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
छाया रक्तादिवर्णमाक्रामति-परिभूयावतिष्ठते| प्रभा तु वर्णप्रकाशिनी-वर्णं प्रकाशयितुं शीलमस्याः सा वर्णप्रकाशिनी|
तथेदमपि छायाप्रभयोरन्यत्वे लक्षणमाह आसन्ने लक्ष्यते छाया विकृष्टे भा प्रकाशते| नाच्छायो नाप्रभः कश्चिद्विशेषाश्चिह्नयन्ति तु||५२|| नृणां शुभाशुभोत्पत्तिं काले छायासमाश्रयाः| |५३|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
निकटे छाया लक्ष्यते| प्रभा पुनर्विकृष्टे-दूरप्रदेशे, प्रकाशते-दूरादवभासत इत्यर्थः| यथा-पाषाणादिपरिपूर्णानामपि पर्वतादिप्रदेशानां दूराद्विलक्षणैव कान्तिः प्रकाशते| एवं छायाप्रभयोरन्यत्वं प्रदर्श्य तयोरेव व्याप्ति प्रदर्शयति- कश्चिदपि पुरुषश्च्छायारहितः प्रभाहीनश्च नास्ति| विशेषास्तु नृणां शुभाशुभोत्पत्तिं काले विशिष्टे चिह्नयन्ति-व्यञ्जयन्तीत्यर्थः| किम्भूता विशेषाः ? छायासमाश्रयाः-छायाश्रिताः|
Adhikarana चङ्क्रमतो रिष्टम्, हितमश्नतः रिष्टम्, अल्पाशिनः रिष्टम्, बह्वाशिनः रिष्टम्, कफार्तस्य रिष्टम्, श्वासोच्छ्वासवतः रिष्टम्, शिरोविक्षेपवतः रिष्टम्, स्रुतस्वेदस्य रिष्टम्, उत्थाप्यमानस्य रिष्टम्, उत्तानशयानस्य रिष्टम्, जिग़ृक्षावतः रिष्टम्, अहास्यहासिनः रिष्टम्, उत्तरौष्ठलिहतः रिष्टम्, छायाभिद्रववतः रिष्टम्, भिषगादिद्वेषवतः रिष्टम् (५३-६१) · Śloka ६१
| निकषन्निव यः पादौ च्युतांसः परिसर्पति||५३|| हीयते बलतः शश्वद्योऽन्नमश्नन् हितं बहु| योऽल्पाशी बहुविण्मूत्रो बह्वाशी चाल्पमूत्रविट्||५४|| यो वाऽल्पाशी कफेनार्तो दीर्ग़ं श्वसिति चेष्टते| दीर्ग़मुच्छ्वस्य यो ह्रस्वं निःश्वस्य परिताम्यति||५५|| ह्रस्वं च यः प्रश्वसिति व्याविद्धं स्पन्दते भृशम्| शिरो विक्षिपते कृच्छ्राद्योऽञ्चयित्वा प्रपाणिकौ||५६|| यो ललाटात्स्रुतस्वेदः श्लथसन्धानबन्धनः| उत्थाप्यमानः सम्मुह्येद्यो बली दुर्बलोऽपि वा||५७|| उत्तान एव स्वपिति यः पादौ विकरोति च| शयनासनकुड्यादेर्योऽसदेव जिग़ृक्षति||५८|| आहास्यहासी सम्मुह्यन् यो लेढि दशनच्छदौ| उत्तरौष्ठं परिलिहन् फूत्कारांश्च करोति यः||५९|| यमभिद्रवति च्छाया कृष्णा पीताऽरुणाऽपि वा| भिषग्भेषजपानान्नगुरुमित्रद्विषश्च ये||६०|| वशगाः सर्व एवैते विज्ञेयाः समवर्तिनः| |६१|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
निकषन्-ग़र्षयन्निव, यः पादौ च्युतांसः-स्रस्तांसः सन्, भूमौ परिसर्पति| तथा, ये वक्ष्यमाणाश्च ते सर्वे समवर्तिनो वशगा इति योज्यम्; अन्तदीपकालङ्कारत्वादस्य| तथा, योऽन्नमश्नन्-भक्तं भक्षयन्, बलान्नित्यं हीयते| किम्भूतमन्नम् ? हितं-पथ्यम्| बहु-भूरि| योऽल्पाशी बहुविण्मूत्रो यश्च बह्वाशी-बह्वश्नाति, नित्यमल्पविण्मूत्रश्च| यश्चा(यो वाऽ)ल्पाशी कफेनार्तः-पीडितो, दीर्ग़ं श्वसिति-बहुश्वासं मुञ्चति| तथा, चेष्टते-परिलुठति| तथा, यो दीर्ग़मुच्छ्वस्य-बहूर्ध्वं श्वासं मुक्त्वा, अनन्तरं ह्रस्वं निःश्वस्य-अल्पं श्वासं प्रत्यावृत्यान्तःकृत्वा, परिताम्यति-दुःख़ायते| यश्च ह्रस्वं प्रश्वसिति| व्याविद्धं-विषमं कृत्वा, नाडीभिः स्पन्दते भृशं-अतिशयेन स्फुरति| यः प्रपाणिकौ-पाण्योः पश्चाद्भागस्थितावव यवविशेषौ, अञ्चयित्वा-सङ्कोच्य, कृच्छ्रेण शिरो-मूर्धानं विक्षिपते| यो ललाटात्-अलिकात्, स्रुतस्वेदः सन् शिथिलसन्धिबन्धो भवति| य उत्थाप्यमानो बली दुर्बलो वा सम्मुह्येत्-मोहमुपैति| य उत्तान एव-जातुचित्पार्श्वे न, स्वपिति| यश्च पादौ विकरोति-विकृति नयति| यः शयनादेरसत्-अविद्यमानमेव वस्तु, ग्रहीतुमिच्छति| यः अहास्ये-हास्यविषयाभावेऽपि, अभीक्ष्णं हसन् सम्मुह्यन् दशनच्छदौ लेढिजिह्वया परिमृशति| यश्चोत्तरौष्ठं परिलिहन् फूत्कारान्-नानाविधान् शब्दान्, करोति| यं-नरं, छायाऽभिद्रवति-अभिभवति| कीदृशी ? कृष्णा पीताऽरुणाऽपि वा| ये च भिषगादिद्विषः| एते सर्वे समवर्तिनो वशगा विज्ञेयाः| समंवर्तते रागद्वेषौ हित्वा समवर्ती,-यमः| सर्व एवेत्येतत् "निकषन्निव यः पादौ" इत्यत आरभ्य यावत् "भिषग्भेषजपानान्नगुरुमित्रद्विषश्च ये|" इत्येतत्पर्यन्तस्य ग्रन्थस्य सम्बन्धार्थम्|
(ग्रीवाललाटहृदयं यस्य स्विद्यति शीतलम्||६१|| उष्णोऽपरः प्रदेशश्च शरणं तस्य देवताः| ) |पूर्वरूपाणि सर्वाणि ज्वरादिष्वतिमात्रया| यं विशंति विशत्येनं मृत्युर्ज्वरपुरःसरः]||१||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
(यस्य ग्रीवादिकं शीतलं सत् स्विद्यति-स्वेदयुक्तं भवति, अपरः प्रदेशश्चोष्णः, तस्य शरणं-रक्षणं, देवता नान्यत्|)
| योऽणुज्योतिरनेकाग्रो दुःच्छायो दुर्मनाःसदा||६२|| बलि बलिभृतो यस्य प्रणीतं नोपभुञ्जते| निर्निमित्तं च यो मेधां शोभामुपचयं श्रियम्||६३|| प्राप्नोत्यतो वा विभ्रंशं स प्राप्नोति यमक्षयम्| |६४|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
यः पुमानणुज्योतिः-स्तोकदृक्, केचित्त्वल्पतेजा इत्याहुः| तथा, अनेकाग्रो-व्याकुलचेताः| दुःच्छायो-विवर्णच्छायो निन्दितकान्तिर्वा| दुर्मनाः सदा-सततमेव शोकाक्रान्तमानसः| तथा, यस्य पुंसो बलिं प्रणीतं-तन्नामोद्दिश्य प्रदत्तं, बलिभृतो-बलिभुजो वायसादयो, नोपभुञ्जते-न खादन्ति, स यमक्षयं प्राप्नोतीति सम्बन्धः| बलिभृत इत्यतिशयार्थम्| किलकाका अपि नादन्ति किं पुनरन्ये ? इत्यर्थः| तथा, यो नरो निर्निमित्तं मेधादिजननरसायनादिकारणमन्तरेण मेधादीन् प्राप्नोति| अतो वा-मेधादिभ्यो, भ्रशं प्राप्नोति| सोऽन्तकगृहं प्राप्नोति| श्रीरत्र घनं राज्यं वा| उपचयः-शरीरपुष्टिः|
| गुणदोषमयी यस्य स्वस्थस्य व्याधितस्य वा||६४|| यात्यन्यथात्वं प्रकृतिः पण्मासान्न स जीवति| |६५|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
यस्य नरस्य गुणमयी-सत्वादिमयी, प्रकृतिर्दोषमयी-वातादिमयी, स्वस्थस्यातुरस्य वाऽन्यथात्वं याति-स्वभावं हित्वा, सषण्मासान्न जीवति|
| भक्तिः शीलं स्मृतिस्त्यागो बुद्धिर्बलमहेतुकम्||६५|| षडेतानि निवर्तन्ते षड्भिर्मासैर्मरिष्यतः| |६६|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
षड्भिर्मासैर्मरिष्यतो नरस्य भक्त्यादीनि षट् अहेतुकं-कारणमन्तरेण, निर्वर्तन्ते| अहेतुकमिति निवर्तनक्रियाविशेषणम्| षडिति नियमार्थम्| यदा षडपि निवर्तन्ते नैकैकं, तदा रिष्टमित्यर्थः|
| मत्तवद्गतिवाक्कम्पमोहा मासान्मरिष्यतः||६६||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
मासेन मरिष्यतो मत्तवत्-मत्तस्येव, गतिवाक्कम्पमोहा भवन्ति|
नश्यत्यजानन् षडहात्केशलुञ्चनवेदनाम्| न याति यस्य चाहारः कण्ठं कण्ठामयादृते||६७||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
कचोत्पाटनपीडामविन्दन् षडहान्नश्यति| यस्याहारः कण्ठामयं विना कण्ठं न याति, स च षडहान्तरे म्रियते|
प्रेष्याः प्रतीपतां यान्ति प्रेताकृतिरुदीर्यते| यस्य निद्रा भवेन्नित्या नैव वा न स जीवति||६८||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
प्रेष्याः-भृत्याः, यस्य प्रतीपतां-वैपरीत्यं, यान्ति, स नश्यति| यश्च प्रेताकार उपलक्ष्यते सोऽपि न जीवति| यस्य नरस्य नित्यं-सततं, निद्रा भवति, यस्य नैव वा-न कदाचिन्निद्रा भवति, सोऽपि न जीवति|
वक्त्रमापूर्यतेऽश्रूणां स्विद्यतश्वरणौ भृशम्| चक्षुश्चाकुलतां याति यमराज्यं गमिष्यतः||६९||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
यस्य नरस्याश्रूणां-अश्रुस्रोतसां, मुखं (वक्रं)- द्वारं, आपूर्यते स न जीवति| यस्य चरणौ-भृशं-अत्यर्थं, निर्न्निमित्तं स्विद्यतः स न जीवति| चक्षुरित्यादि| यमराज्यं यास्यतो नयनमाकुलत्वं याति|
यैः पुरा रमते भावैररतिस्तैर्न जीवति| |७०|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
यैर्भावैः-पदार्थैः, पुरा-पूर्वं, रमते-सुखायते, तैः पदार्थैर्न रतिर्भवति यस्य, स न जीवति|
| सहसा जायति यस्य विकारः सर्वलक्षणः||७०|| निवर्तते वा सहसा, सहसा स विनश्यति| |७१|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
यस्य पुंसो विकारो-ज्वरादिः, सहसा-कारणं विना, सर्वलक्षणः-सकललिङ्गोपेतो, जायते| अथवा तादृशो विकारः सहसा-शीघ्रमेव, निवर्तते-नश्यति| सः-पुरुषः, सहसा अचिरादेव, विनश्यति|
अधुना प्रतिरोगं रिष्टं वक्तुं सर्वव्याधिप्रधानस्य ज्वरस्यैव तावद्विकृतिं लिलक्षयिषुराह | ज्वरो निहन्ति बलवान् गम्भीरो दैर्घरात्रिकः||७१|| सप्रलापभ्रमश्वासः क्षीणं शूनं हतानलम्| अक्षामं सक्तवचनं रक्ताक्षं हृदि शूलिनम्||७२|| सशुष्ककासः पूर्वाह्णे योऽपराह्णेऽपि वा भवेत्| बलमांसविहीनस्य श्लेष्मकाससमन्वितः||७३||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
ज्वरो बलवानित्यादिलक्षणः क्षीणादिलक्षणं पुरुषं हन्ति| बलवान्-हेत्वादिभिर्बलवद्भिर्युतः| गम्भीरः-अशेषधात्वन्तर्गतः| दैर्घरात्रिको-दीर्घकालानुबन्धी, अन्ये तु रात्रिजागरकारीत्याहुः| दीर्घा हि जाग्रतो रात्रिः| तथा चोक्तम्-"दीर्घश्रान्तस्य योजनम्|" इति| तथा, प्रलापादियुक्तः| कीदृशमातुरम् ? क्षीणं-धातुक्षययुक्तम्| तथा, अक्षामं-सबलम्, ग्लानो न भवत्यथ च सक्तवचनः, तमक्षामं सक्तवचनम्| तथा, रक्तनेत्रं हृदयशूलान्वितम् हन्तीति योज्यम्| यश्च ज्वरः सशूष्ककासः पूर्वाह्णेऽथवाऽपराह्णे भवेत्स द्विविधोऽपि हन्ति| तथा यः श्लेष्मकाससमन्वितो ज्वरो बलमांसविहीनस्य पुंसः स्यात्, स तं निहन्ति| इति रिष्टत्रयमेतत्| ननु च, "हेतुभिर्बलिभिर्युक्तो बहुभिर्बहुलक्षणः| ज्वरः प्राणान्तकृद्यश्च शीघ्रमिन्द्रियनाशनः||" (च. चि. अ. ३/४९) इत्येष ज्वरस्य रिष्टप्रकारः कस्मान्नोक्तः ? उच्यते| उक्तप्राय एवायं बलवानिति वचनात्|
रक्तपित्तविकृतिलक्षणं रिष्टमधिकृत्याह रक्तपित्तं भृशं रक्तं कृष्णमिन्द्रधनुष्प्रभम्| ताम्रहारिद्रहरितं रूपं रक्तं प्रदर्शयेत्||७४|| रोमकूपप्रविसृतं कण्ठास्यहृदये सजत्| वाससोऽरञ्जनं पूति वेगवच्चाति भूरि च||७५|| वृद्धं पाण्डुज्वरच्चर्दिकासशोफातिसारिणम्| |७६|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
रक्तपित्तमीदृग्रूपं कर्तृभूतं नरं हन्ति| कीदृक् ? भृशं-अत्यर्थं, रक्तं-लोहितम्| तथा, अतिकृष्णम्| भृशशब्दो हि द्वयोरपि युज्यते| तथा, इन्द्रधनुषप्रभं-नानावर्णमित्यर्थः| किलेदृशे रक्तपित्ते रसमेदोमज्जादिमिश्रस्य रक्तस्य स्रवणान्नानावर्णत्वं सम्पद्यते| यच्च रक्तपित्तं कर्तृभूतं ताम्रहारिद्रहरितं रक्तं च रूपं दृश्यमाकाशं वा प्रदर्शयेत्, तन्निहन्ति| यच्च रक्तपित्तं विनाऽपि वर्णै रोमकूपेभ्यः समस्तेभ्यः प्रकर्षेण विसृतं-यातं प्रवृत्तम्, तच्च निहन्ति| तथा, कण्ठे मुखे हृदये च तुल्यकालं सजत्-संश्लिष्यत् सानुषङ्गम्, तच्च हन्ति| वाससोऽरञ्जनमिति वाससः अरञ्जनमित्यकारप्रश्लेषोऽत्र बोध्यः| वस्त्रस्य हि जीवशोणितं शुद्धशोणितरूपत्वान्न रञ्जकम्| अतस्तेन रक्तं वस्त्रं समनन्तरं प्रक्षालितं शुद्धं सम्पद्यते, न रागयुक्तम्| तथा ह्यस्मिन् व्याधौ रक्तपिताभ्यां परस्परमविभागापन्नत्वाद्वस्त्रस्य रञ्जनं प्राप्तम्| रक्तेन हि पित्तसहितेन वस्त्रं रज्यते, न च तद्धौतं शुद्धं सम्पद्यते| तथा चोक्तम् (हृ. क. अ. ३/३४)- "शुक्लंवा भावितं वस्त्रमावानं कोष्णवारिणा| प्रक्षालितं विवर्ण स्यात्पित्ते, शुद्धं तु शोणिते||" इति| तथा, पूति-दुर्गन्धि, तद्धि धातूनुपक्लेदयति, उपक्लिन्नानां धातूनामत्यर्थं दुष्टता, इति निहन्त्येव| तथा, [अति] वेगवत्-वेगेन निर्गत्य रुद्धं पुनर्वेगेन प्रवर्तत इति| तथा, भूरि-प्रभूतम्| एवंविधं च रक्तपित्तं निहन्ति| वृद्धं-उद्रिक्तं रक्तपित्तं सत्, पाण्ड्वादियुतं नरं हन्ति|
| कासश्वासौ ज्वरच्छर्दितृष्णातीसारशोफिनम्||७६||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
कासश्वासौ ज्वरादिपञ्चविधोपद्रवोपेतं निहत इति वचनविपरिणामेन सम्बन्धः|
यक्ष्मा पार्श्वरुजानाहरक्तच्छर्द्यंसतापिनम्| |७७|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
यक्ष्मा-राजयक्ष्मा, पार्श्वरुजादियुतं नरं हन्ति|
| छर्दिर्वेगवती मूत्रशकृद्गन्धिः सचन्द्रिका||७७|| सास्रविट्पूयरुक्कासश्वासवत्यनुषङ्गिणी| |७८|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
छर्दिर्हन्ति,| कीदृक् ? वेगवती,-महता वेगेन प्रवर्तमाना| तथा, मूत्रशकृतोरिव गन्धो यस्याः सा, "उपमानाच्च" इति गन्धस्येदादेशः| तथा, सचन्द्रिका-जलतैलबिन्दुसंस्थाना चन्द्रिकोच्यते| तथा, सहास्रेण वर्तते विट् सास्रविट्| सास्रविट् च पूयश्च रुक् च कासश्च श्वासश्च, ते विद्यन्ते यस्यां सैवम्| तथा, आनुषङ्गिणी-दीर्घकालानुवर्तिनी|
| तृष्णाऽन्यारोगक्षपितं बहिर्जिह्वं विचेतनम्||७८||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
तृष्णेदृशं नरं हन्ति| कीदृशम् ? अपररोगेण क्षपितं-कर्षितम्| बहिर्जिह्वं-बाह्यतो जिह्वां निःसारयन्तम्| तथा, विचेतनम्| एतत्समुदितं रिष्टलक्षणम्|
मदात्ययोऽतिशीतार्तं क्षीणं तैलप्रभाननम्| |७९|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
मदात्ययोऽतिशयेन शीतपीडितं क्षीणं तैलप्रभमुखं च नरं हन्ति|
| अर्शांसि पाणिपन्नाभिगुदमुष्कास्यशोफिनम्||७९|| हृत्पार्श्वाङ्गरुजाछर्दिपायुपाकज्वरातुरम्| |८०|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
अर्शांसि पाण्यादिशोफयुतं हृद्रुजाद्यातुरं नरं घ्नन्ति, इति वचनविपिरिणामेव सम्बन्धः| हृदादीनां रुजा सम्बन्धः| हृत्पार्श्वाङ्गरुजा च छर्दिश्च पायुपाकश्च ज्वरश्च तैरातुरं-पीडितम्|
अतीसारविकृतिमाह | अतीसारो यकृत्पिण्डमांसधावनमेचकैः||८०|| तुल्यस्तैलघृतक्षीरदधिमज्जवसासवैः| मस्तुलुङ्गमषीपूयवेसवाराम्बुमाक्षिकैः||८१|| अतिरक्तासितस्निग्धपूत्यच्छघनवेदनः| कर्बुरः प्रस्रवन् धातून् निष्पुरीषोऽथवाऽतिविट्||८२|| तन्तुमान् मक्षिकाक्रान्तो राजीमांश्चन्द्रकैर्युतः| शीर्णपायुवलिं मुक्तनालं पर्वास्थिशूलिनम्||८३|| स्रस्तपायुं बलक्षीणमन्नमेवोपवेशयन्| सतृट्श्वासज्वरच्चर्दिदाहानाहप्रवाहिकः||८४||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
अतीसारो यकृत्पिण्डादिभिर्माक्षिकान्तैस्तुल्यो हन्ति| मेचको-नीलवर्णः| अतिरक्तासितस्निग्धपूत्यच्छश्चासौ घनवेदनश्च, इति कर्मधारयः| कर्बुरो-नानावर्णः| कस्मात्पुनरनेकवर्णः ? यस्माद्धातून्-रक्तमांसादीन् स्रवति, अत एवाह-धातुन् प्रस्रवन्| लक्षणेऽत्र शतृप्रत्ययः, धातुप्रस्रवणेन हि हेतुना नानावर्णत्वं लक्ष्यते| तथा, निष्पुरीषः-पुरीषरहितः| अथवा, अतिविट्-बहुपुरीषः| तथा, तन्तुमान् मक्षिकाक्रान्तो राजीमांश्चन्द्रकैर्युतश्च| ईदृशोऽतीसारो वक्ष्यमाणं नरं हन्ति| शीर्णा गुदवलयो यस्य तम्| [तथा,] मुक्तो नालो-नालक इव, यस्य तं मुक्तनालं,-मुक्तबन्धनमित्यर्थः| तथा, पर्वास्थिशूलो विद्यते यस्य तम्| तथा, स्रस्तपायुं-स्थानाच्च्युतगुदम्| तथा, बलेन क्षीणम्| पुनः प्रकृतत्वादतीसारो विशिष्यते| अन्नमेवापक्वमुपवेश्यन् सह तृडादिभिः सप्तभिरुपद्रवैर्युक्तः पूर्वोक्तविशेषणमातुरं हन्ति|
अश्मरी शूनवृषणं बद्धमूत्रं रूजार्दितम्| |८५|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
अश्मरी शूनवृषणादियुक्तं नरं हन्ति|
| मेहस्तृड्दाहपिटिकामांसकोथातिसारिणम्||८५||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
मेहः-प्रमेहः, तृडाद्युपद्रवयुक्तं नरं हन्ति|
पिटिका मर्महृत्पृष्ठस्तनांसगुदमूर्द्धगाः| पर्वपादकरस्था वा मन्दोत्साहं प्रमेहिणम्||८६|| सर्वं च मांससङ्कोथदाहतृष्णामदज्वरैः| विसर्पमर्मसंरोधहिध्माश्वासभ्रमक्लमैः||८७||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
पिटिका मर्मादिगा अथवा पर्वादिस्था मन्दोत्साहं प्रमेहातुरं घ्नन्ति| सर्वं च नरं मांससङ्कोथादिभिः क्लमान्तैर्युक्तं पिटिका घ्नन्ति|
गुल्मः पृथुपरीणाहो घनः कूर्म इवोन्नतः| सिरानद्धो ज्वरच्छर्दिहिध्माध्मानरुजान्वितः||८८|| कासपीनसहृल्लासश्वासातीसारशोफवान्| |८९|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
गुल्मः पृथुपरीणाहो यावच्छोफवान् हन्ति नरम्|
इदानीमुदरव्याधिनिमित्तं रिष्टमाह | विण्मूत्रसङ्ग्रहश्वासशोफहिध्माज्वरभ्रमैः||८९|| मूर्च्चाच्चर्द्यतिसारैश्च जठरं हन्ति दुर्बलम्| शूनाक्षं कुटिलोपस्थमुपक्लिन्नतनुत्वचम्||९०|| विरेचनहृतानाहमानह्यन्तं पुनः पुनः| |९१|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
विण्मूत्रादिभिरतीसारान्तैरुपद्रवैर्हेतुभूतैर्जठरं च कर्तृभूतमातुरं हन्ति| कीदृशम् ? दुर्बलं-हीनबलम्| तथा, शूने अक्षिणी यस्य तम्| "बहुव्रीहौ सक्थ्यक्ष्णोः" इति षच्| [ तथा ] कुटिल उपस्थो-बस्तिमेढ्रवृषणादिरूपो, यस्य तम्| तथा, उपक्लिन्ने देहत्वचौ यस्य तम्| [ तथा, ] विरेचनेन हृत आनाहो यस्य तमपि मुहुर्मुहुरानह्यन्तम्|
पाण्डुरोगरिष्टमाह | पाण्डुरोगः श्वयथुमान् पीताक्षिनखदर्शनम्||९१||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
पाण्डुरोगः श्वयथुयुतः पीताक्षिनखदर्शनमातुरं हन्ति|
शोफरिष्टं ब्रूते तन्द्रादाहारुचिच्छर्दिमूर्च्छाध्मानाति सारवान्| अनेकोपद्रवयुतः पादाभ्यां प्रसृतो नरम्||९२|| नारीं शोफो मुखाद्धन्ति कुक्षिगुह्यादुभावपि| राजीचितः स्रवंश्छर्दि ज्वरश्वासाति सारिणम्||९३||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
तन्द्रादियुक्तः शोफोऽनेकैरुपद्रवैः- ज्वरश्वासादिभिः युतः पादतः प्रसृतो नरं हन्ति| मुखात्पसृतः शोफः पूर्वोक्तविशेषणयुक्तो नारीं हन्ति| कुक्षिगुह्यात्प्रसृत उभवपि स्त्रीपुंसौ, हन्ति| तथा राजीचितो-यथास्वं दोषवर्णाभी रेखाभिर्व्याप्तः, तथा स्रवन्- यथादोषं स्रुतिं कुर्वन् , छर्द्यादियुतं पुरुषं हन्ति|
ज्वरातिसारौ शोफान्ते श्वयथुर्वा तयोः क्षये| दुर्बलस्य विशेषेण जायन्तेऽन्ताय देहिनः||९४|| श्वयथुर्यस्य पादस्थः परिस्रस्ते च पिण्डिके| सीदतः सक्थिनी चैव तं भिषक् परिवर्जयेत्||९५|| आननं हस्तपादं च विशेषाद्यस्य शुष्यतः| शूयेते वा विना देहात्स मासाद्याति पञ्चताम्||९६||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
ज्वरातिसारौ स्वतन्त्रस्य शोफस्यान्ते- अवसाने, जायेते| अथवा श्वयथुस्तयोः- ज्वरातिसारयोः , क्षये जायते| एवं ज्वरातिसारशोफा यस्य शरीरिणो जायन्ते तस्य तेऽन्ताय- मृत्यवे, जायन्ते| दुर्बलस्य विशेषेणन्ताय, शीग़्रकारित्वात्| श्वयथुः पादस्थो यस्य पिण्डिके च परिस्रस्ते- स्थानाच्च्युते ,सक्थिनी च सीदतः- सादं गच्छतः , तं- तादृशं नरं , वैद्यो वर्जयेत्| मुख़ं हस्तचरणं च यस्यैते विशेषेण शुष्यतः , देहं विना वा यस्य शूयेते, स आतुरो मासेन पञ्चतां- पञ्चमहाभूतसमत्वं , याति|
विसर्पः कासवैवर्ण्यज्वरमूर्छाङ्गभङ्गवान्| भ्रमास्यशोफहृल्लासदेहसादातिसारवान्||९७||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
विसर्पः कासादिमान् हन्ति|
कुष्टं विशीर्यमाणाङ्गं रक्तनेत्रं हतस्वरम्| मन्दाग्निं जन्तुभिर्जुष्टं हन्ति तृष्णातिसारिणम्||९८||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
कुष्टं च कर्तृ विशीर्यमाणाङ्गादियुक्तं नरं हन्ति| विशीर्यमाणाङ्गं- कोथवच्छरीरम्|
वायुः सुप्तत्वचं भुग्नं कम्पशोफरुजातुरम्| |९९|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
वायुः सुप्तत्वगादियुक्तं नरं हन्ति|
| वातास्रं मोहमूर्च्छायमदास्वप्नज्वरान्वितम्||९९|| शिरोग्रहारुचिश्वाससङ्कोचस्फोटकोथवत्| |१००|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
वातास्रं- वातरक्तं मोहादियुतं हन्ति|
| शिरोरोगारुचिश्वासमोहविड्भेदतृड्भ्रमैः||१००|| घ्नन्ति सर्वामयाः क्षीणस्वरधातुबलानलम्| |१०१|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
शिरोरोगेति| सर्वे च ते आमयाश्च ते (शीरोरोगदिभिः) क्षीणस्वरादिकं नरं घ्नन्ति|
| वातव्याधिरपस्मारी कुष्ठी रक्त्युदरी क्षयी||१०१|| गुल्मी मेही च तान् क्षीणान् विकारेऽल्पेऽपि वर्जयेत्| |१०२|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
वाताख्यो व्यादिर्यस्य स नरः तथाऽपस्मारवान् कुष्ठवान् रक्तपित्ती जठरी क्षयवान् गुल्मवान् प्रमेही च, तान्- एतान् पुरुषान् , क्षीणान् सतोऽल्पेऽपि विकारे सति वर्जयेत्||
| बलमांसक्षयस्तीव्रो रोगवृद्धिररोचकः||१०२|| यस्यतुरस्य लक्ष्यन्ते त्रीन् पक्षन्न स जीवति| |१०३|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
बलमांसयोरत्यन्तं क्षयः रोगस्य वृद्धिः तथाऽरोचकः एते यस्यातुरस्य लक्ष्यन्ते- उपलभ्यन्ते, स त्रीन् पक्षान्- सार्धं मासं , न जीवति|
| वाताष्ठीलाऽतिसंवृद्धा तिष्टन्ती दारुणा हृदि||१०३|| तॄष्णया नु परीतस्य सद्यो मुष्णाति जीवितम्| |१०४|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
वाताष्ठीलाऽत्यन्तं प्रवृद्धा हृदि तिष्ठन्ती दारुणा- अतिरुक्वरी , तृषायुक्तस्य पुंसः शीघ्रमेव जीवितहारिणी भवति|
| शैथिल्यं पिण्डिके वायुर्नीत्वा नासां च जिह्मताम्||१०४|| क्षीणात्यायम्य मन्ये वा सद्यो मुष्णाति जीवितम्| नाभीगुदान्तरं गत्वा वङ्क्ष्णौ वा समाश्रयन्||१०५|| गृहीत्वा पायुहृदये क्षीणदेहस्य वा बली| मलान् बस्तिशिरो नाभिं विबद्ध्य जनयन् रुजम्||१०६|| कुर्वन् वङ्क्ष्णयोः शूलं तृणां भिन्नपुरीषताम्| श्वासं वा जनयन् वायुर्गृहीत्वा गुदवङ्क्ष्णम्||१०७|| वितत्य पर्शुकाग्राणि गृहीत्वोरश्च मारुतः| स्तिमितस्यातताक्षस्य सद्यो मुष्णाति जीवितम्||१०८||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
वायुह् पिण्डिके शैथिल्यं नीत्वा तथा नासां जिह्मतां- कुटिलतां नीत्वा तथा क्षीणस्य नरस्य मन्ये वा आयम्य आयामयित्वा द्राग् जीवितं मुष्णाति||वायुर्नाभीगुदयोरनन्तरं- मध्यं गत्वा वङ्क्ष्णौ वा समाश्रयन् जीवितं मुष्णाति| बली वा पवनः पायुं हृदयं च गृहीत्वा अवष्टभ्यः , क्षीणदेहस्य पुंसः सद्यो मुष्णाति जीवितम्| वायुर्मलान् विबध्द्य- सन्निरुध्द्य , बस्तिशिरोनाभिं च विबध्द्य रुजं जनयन् सद्यो मुष्णाति जीवितम्| वायुर्वङ्क्षणयोः शूलं तथा तृष्णां कुर्वन् भिन्नपुऱ्रीषतां च विदधथवा श्वासं जनयन् गुदं वङ्क्षणौ च गृहीत्वा सद्यो मुष्णाति जीवितम्| मारुतः पर्शुकानां- पार्श्वस्थ्नां , अग्राणि- प्रान्तानि , वितत्यप्रस्तार्य , तथोरः- वक्षो , गृहीत्वा स्तिमितस्य- आर्द्रतां गतस्य सखेदस्य निश्चलस्य वा , तथा आतताक्षस्य- प्रसारितनेत्रस्य , सद्यो मुष्णाति जीवितम्|
सहसा ज्वरसन्तापस्तृष्णा मूर्च्छा बलक्षयः| विश्लेषणं चसन्धीनां मुमूर्षोरुपजायते||१०९||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
सहसा- झटित्येव , ज्वरसन्तापः , तथा तृष्णा मूर्च्छा बलक्षयः सन्धिविश्लेषश्च , इत्येतन्मुमूर्षोः- सद्यो मरिष्यतो जायते|
गोसर्गे वदनाद्यस्य स्वेदः प्रच्यवते भृशम्| लेपज्वरोपतप्तस्य दुर्लभं तस्य जीवितम्||११०||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
गोसर्गे- गवां मोक्षकाले प्रत्यूषसि , लेपज्वरेण- श्लेष्मज्वरेणोपतप्तस्य यस्यवदनात् स्वेदः प्रच्यवते , तस्य दुर्लभं जीवितम्| दुर्लभमिति '' ईषद्दुःसुषु" इत्यादिना खल्| " न सुन्दुर्भ्यां '' इति नुम्निषेधः| ननु ,रिष्टानां निश्चितानामिहाभिधानप्रस्तावात् किमिदमनिश्चितमुक्तं दुर्लभमिति? मैवम्| एकान्तिक एवार्थोऽयं हि दुर्लभशब्दः| तथा च वाल्मीकिना जगदे- " पुत्र वीक्षस्व पितरं सुहृष्टं च कुरु प्रियं| दिर्लभं जीवितं ह्यस्य पुनः पुत्रो भविष्यति||" इति| तस्माद्दुर्लभशब्दस्य नास्ति जीवितमित्येष निश्चित एवार्थः प्रसिध्दः|
प्रवालगुलिकाभासा यस्य गात्रे मसूरिकाः| उत्पद्याशु विनश्यन्ति न चिरात्स विनश्यति||१११||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
मसूरिकाः- मसूरसंस्थानाः पिटिकाः प्रवालगुटिकासदृशा यस्य शरीर उत्पद्य शीघ्रं विनश्यन्ति , स नरो द्रागेव विनश्यति|
मसूरविदलप्रख्यास्तथा विदृमसन्निभाः| अन्तर्वक्राः किणाभाश्च विस्फोटा देहनाशनाः||११२||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
मसूरविदलाकाराः , तथा प्रवालसद्ऱृशाः , तथाऽन्तः- मध्ये , वक्रं- मुखं , येषां ते , तथा किणाभाः , एते चतुष्प्रकारा अपि विस्फोटा देहस्य नाशनाः|
कामलाऽक्ष्णोर्मुखं पूर्णं शङ्खयोर्मुक्तमांसता| सन्त्रासश्चोष्णताऽङ्गे च यस्य तं परिवर्जयेत्||११३||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
यस्याक्ष्णोः कामला- पीताभासत्वं भवति , मुखं पूर्णं- स्वाभाविकम्, शङ्खयोर्मुक्तमांसत्वम् , सन्त्रासः , उष्णता चाङ्गे भवति , तमातुरं वर्जयेत्- अयशः परिहृतये न चिकित्सेत्|
अकस्मादनुधावच्च विघृष्टं त्वक्समाश्रयम्| ||११४||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
अकस्मात्- कारणं विना , त्वक्समाश्रयं विघृष्टं यस्यानुधावच्च लक्ष्यतेन् तमपि वैद्यो वर्जयेत्|
(चन्दनोशीरमदिराकुणपध्वाङ्क्षगन्धयः| शैवालकुक्कुटशिखाकुङ्कुमालमषीप्रभाः||१|| अन्तर्दाहा निरूष्माणः प्राणनाशकरा व्रणाः| ) यो वातजो न शूलाय मर्मजश्च रुजे न यः| अचूर्णश्चूर्णकीर्णाभो यत्राकस्माच्च दृश्यते||११५|| रूपं शक्तिध्वजादीनां सर्वांस्तान्वर्जयेद्व्रणान्| |११६|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
यो व्रणो वातजो लिङ्गानुमितः शूलाय न भवति , पित्तजो न दाहाय , कफजश्च न पूयाय , मर्मजश्च न पीडायै| तथा , यस्मिन् व्रणेऽचूर्णश्चूर्णेनाकीर्णाभः- चूर्णव्याप्त इव दृश्यते| तथा यस्मिन् व्रणे कारणं विना- अकस्मात् , रूपं शक्तिध्वजादीनां दृश्यते| आदिशब्देन शल्यतोमरादिपरिग्रः| तान् सर्वान् व्रणान् वर्जयेत्|
| विण्मूत्रमारुतवहं कृमिणं च भगन्दरम्||११६||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
विण्मूत्रमारुता येन निःसरन्ति कृमिजुष्टश्च यः तं च भगन्दरं वर्जयेत्| कृमिणमिति "पमदित्वात्"(`लोमादिपामादिपिच्छादिभ्यः शनेलचः|') नप्रत्ययः|
घट्टयन् जानुना जानु पादावुद्यम्य पातयन्| योऽपास्यति मुहुर्वक्रमातुरो न स जीवति||११७||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
यश्चातुरो जानुना जानु घट्टयन् तथा पादावुद्यम्य-उत्क्षिप्य, पातयन्- सङ्क्षिपन् , मुहुर्मुहुरात्मीयं वक्रं- मुखं, अपास्यति-कारणं विनाऽन्यत्र नयति, स न जीवति|
दन्तैश्छिन्दन्नखाग्राणि तैश्च केशांस्तृणानि च| भूमिं काष्ठेन विलिखन् लोष्टं लोष्टेन ताडयन्||११८|| हृष्टरोमा सान्द्रमूत्रः शुष्ककासी ज्वरी च यः| मुहुर्हसन् मुहुःक्ष्वेडन् शय्यां पादेन हन्ति यः||११९|| मुहुश्छिद्राणि विसृशन्नातुरो न स जीवति| |१२०|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
यश्चातुरो हृष्टरोमा सान्द्रमूत्रः तथा शुष्ककासी तथा ज्वरी , स इदमिदं कुर्वन्न जीवति| किं तत् ? इत्याह- दन्तैश्छिन्दनखाग्राणि, तथा तैरेव- दन्तैः , केशांश्छिन्दन्, तथा- तृणानि छिन्दन् , तथा भुवं काष्ठेन विलिखन् , लोष्टमपरलोष्टेन तडयन्, मुहुः पुनःपुनर्हसन् ,तथा मुहुः क्ष्वेडन्- शब्दं कुर्वन् , मुहुः शय्यां पादेन यो हन्ति , तथा छिद्राणि- अपराधान् विमृशन्- घोषयन्| केचिद्व्याचक्षते,- छिद्राणि-नासिकादीनि, विमृशन्- संस्पृशन्, इति|
| मृत्यवे सहसाऽऽर्तस्य तिलकव्यङ्गविप्लवः||१२०|| मुखे, दन्तनखे पुष्पं, जठरे विविधाः सिराः| |१२१|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
अर्तस्य-आतुरस्य, सहसा जातो मुखे-वदने, तिलकव्यङ्गविप्लवो मृत्यवे-मरणाय| तथा, दन्ताश्च नखाश्च दन्तनखं, तस्मिन् दन्तनखे, सहसा पुष्पं जातमातुरस्य मृत्यवे| तथा, जठरे सहसा विविधाः-नानाविधा वर्णेन संस्थानेन च, सिरा जाता आर्तस्य मृत्यवे-मरणं सूचयन्तीत्यर्थः|
| ऊर्ध्वश्वासं गतोष्माणं शूलोपहतवङ्क्षणम्||१२१|| शर्म चानधिगच्छन्तं बुद्धिमान् परिवर्जयेत्| |१२२|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
ऊर्ध्वश्वासादिमन्तमातुरं सुमतिवर्जयेत्-न चिकित्सेत्|
| विकारा यस्य वर्धन्ते प्रकृतिः परिहीयते||१२२|| सहसा सहसा तस्य मृत्युर्हरति जीवितम्| |१२३|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
विकाराः-ज्वरादयः, यस्यातुरस्याकस्माद्वर्धन्ते| प्रकृतिः-स्वभावः, परिहीयते| यथा, शूरः कातरः स्यात्, दाता वा तृष्णावान्, इत्यादि| अथवा, प्रकृतिः-वातादिः, तेन वातप्रकृतिः पित्तप्रकृतिर्भवेत्, इत्यादि| तस्य सहसा-शीघ्रमेव, जीवितं मृत्युर्हरति|
| यमुद्दिश्यातुरं वैद्यः सम्पादयितुमौषधम्||१२३|| यतमानो न शक्नोति दुर्लभं तस्य जीवितम्| |१२४|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
यमातुरमुद्दिश्य भिषग्यतमान औषधं सम्पादयितुं न शक्नोति, तस्य दुर्लभं जीवितम्|
| विज्ञातं बहुशः सिद्धं विधिवच्चावचारितम्||१२४|| न सिध्यत्यौषधं यस्य नास्ति तस्य चिकित्सितम्| |१२५|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
यस्यातुरस्यौषधं विज्ञातं बहुशः सिद्धं विधानेन चोपयुक्तं न सिध्यति, तस्य चिकित्सितं नास्ति|
| भवेद्यस्यौषधेऽन्ने वा कल्प्यमाने विपर्ययः||१२५|| अकस्माद्वर्णगन्धादेः स्वस्थोऽपि न स जीवति| |१२६|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
यस्यौषधे-कषायघृतलेहादौ, तथाऽन्ने-भक्तसूपादिके, वा कल्प्यमाने विपर्ययः-अन्यथासम्पत्तिर्वर्णगन्धरूपादेः, अकस्मात्-निमित्तं विनाऽपि भवेत्, स स्वस्थोऽपि न जीवति|
| निवाते सेन्धनं यस्य ज्योतिश्चाप्युपशाम्यति||१२६|| आतुरस्य गृहे यस्य भिद्यन्ते वा पतन्ति वा| अतिमात्रममत्राणि दुर्लभं तस्य जीवितम्||१२७||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
यस्य चातुरस्य गृहे निवात इन्धनसहितं ज्योतिः-अग्न्यादिरूपं शाम्यति, तस्य दुर्लभं जीवितम्| यस्य चातुरस्य गृहेऽमत्राणि-भाजनानि, अतिमात्रं-अत्यन्तं भिद्यन्ते, अथवा पतन्ति, तस्य दुर्लभं जीवितम्|
यं नरं सहसा रोगो दुर्बलं परिमुञ्चति| संशयप्राप्तमात्रेयो जीवितं तस्य मन्यते||१२८||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
यं नरं दुर्बलं संशयप्राप्तं सन्तं सहसा-झटित्येव, रोगो मुञ्चति तस्य नरस्यात्रेयो जीवितं संशयप्राप्तं मन्यते-प्रतिपद्यते|
कथयेन्न च पृष्टोऽपि दुःश्रवं मरणं भिषक्| गतासोर्बन्धुमित्राणां न चेच्चेत्तं चिकित्सितुम्||१२९||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
गतासोर्बन्धुमित्राणि तेषाम्, प्रकृतत्वाद्गतासुसम्बन्धि मरणं दुःश्रवं पृष्टोऽपि वैद्यो न कथयेत्, किमुतापृष्टः ? तथा हि वैद्योक्ताद्दुःश्रवमरणशब्दश्रवणात् सन्ताप उत्पद्यते तत्सुहृदाम्| एवं च भिषजः परोपतापकरणात् पापेन योगः स्यात्| न च तं-गतासुं, चिकित्सितुं वैद्य इच्चेत्| तथाविधातुरचिकित्सनाद्धि वैद्यस्यायशःसंयोगः स्यात्| गतासोरिति भाविनिभूतवदुपचाराद्भविष्यति क्तो वैद्यः| यथा-"वृष्टो देवः सम्पन्नाः शालयः" इति|
चिकित्सानैष्फल्याच्च तं नोपक्रमेदिति प्रतिपादयन्नाह यमदूतपिशाचाद्यैयत्परासुरुपास्यते| घ्नद्भिरौषधवीर्याणि तस्मात्तं परिवर्जयेत्||१३०||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
यमदूतपिशाचरक्षःप्रभृतिभिः, यत्-यस्मात्, परासुः गतासुः, उपास्यते-सेव्यते| किम्भूतैः ? औषधानां-रसायनादीनां, वीर्याणि-शक्तिः, घ्नद्भिः-यथायथं व्याधिप्रशमनसामर्थ्यमन्यथा कुर्वद्भिः| तस्मात्तं परिवर्जयेत्|
आयुर्वेदफलं कृत्स्नं यदायुर्ज्ञे प्रतिष्ठितम्| रिष्टज्ञानादृतस्तस्मात्सर्वदैव भवेद्भिषक्||१३१||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
यत्-यस्मात्, आयुर्ज्ञे-आयुर्वेदविदि वैद्ये, आयुर्वेदफलं सकलं प्रतिष्ठितम्| तस्माद्रिष्टाज्ञानादृतो भिषग्भवेत्| आयुर्वेदस्य ह्येतत्फलम्,-यदायुषः परिज्ञानं परिपालनं च| तच्चोभयं रिष्टज्ञानाज्जायते, तस्मादत्रादरः कार्यः|
मरणं प्राणिनां दृष्टमायुःपुण्योभक्षयात्| तयोरप्यक्षयाद्दृष्टं विषमापरिहारिणाम्||१३२|| इति श्री वैद्यपतिसिंहगुप्तसूनुश्रीमद्बाग्भाटविरचिता- यामष्टाङ्गहृदयसंहितायां द्वितीये शारीरस्थाने विकृतिविज्ञानीयो नाम पञ्चमोऽध्यायः||५||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
आयुश्च पुण्यं चोभयं च, प्रकृतत्वादायुःपुण्ययोरुभयोस्तेषामायुःपुण्योभयानां क्षय आयुःपुण्योभयक्षयः, तस्मादायुःपुण्योभक्षयात् मरणं प्राणिनां-शरीरिणां, दृष्टं-उपलब्धं, मुनीन्द्रैः| तत्र सर्वोपकरणसम्पन्नामपि सम्यग्वाह्यमानरथवदुपभोगवशेन यथोचितप्रमाणायुःक्षयाद्यन्मरणं जायते, तदायुःकक्षयादिति बोध्यम्| ज्योतिःशास्त्रविद्भिर्जातकपरिकल्पितनियतायुषामन्येषां च यदाहाराद्यभावेन मरणं, तत्पुण्यक्षयाद्बोध्यम्| यत्रायुःक्षयो यथावल्लक्षितो दृश्यते, तथैव च पुण्यक्षयः, तदुभयक्षयान्मरणं बोध्यम्| न चैतदेव हेतुत्रयमायुःपुण्योभयक्षयलक्षणं शरीरिणां मरणे कारणम्| किन्तर्हि ? अन्यदपि विद्यत इत्याह-तयोरित्यादि| ननु, आयुःपुण्योभयक्षयात्मकं लक्षणत्रितयं प्रकृतम्| ततश्च तेषामिति निर्देशः प्राप्तः| नैतदेवम्| इह ह्यायुःपुण्ययोरेव परामर्शः सर्वनाम्नायुक्तो न तु तृतीयस्य हेतोः, तदात्मकत्वादुभयस्य| अतः 'तयोरप्यक्षयात्' इति युक्तो द्वयोर्निदेशः| तयोः-आयुःपुण्ययोः, अहानितोऽपि मरणं दृष्टम्| यस्माद्दीर्घायुषोपेतानां तथा पुण्यवत्त्वलक्षणं यत्सर्वोपकरणत्वं तत्सम्पन्नानामसेव्योद्भूतम्| विषमंचण्डमातङ्गुतुरङ्गगोमहिषदुर्गन्धवेगश्वभ्रप्रपातकेसरीसरीसृपादिसेवनं, न तत्परिहरन्त्येवं शीलं येषां ते विषमापरिहारिणः, तेषां यन्मरणं तद्विषमापरिहरणाद्भवति| यद्यप्यायुःक्षयादेव सर्वं मरणम्, तथाऽपि पुण्यक्षयविषमापरिहरणाभ्यामायुःक्षयस्यैव कारणभूतत्वादेवमुक्तम्| तदेवं विद्यमानायुष्ट्वे तथा सर्वोपकरणसम्पन्नत्वे विषममपरिहरतां यन्मरणं तद्विषमापरिहारिणां बोध्यम्| बाह्यवाहकदोषादिकारणरथविनाशसदृशमिति| इति श्रीमृगाङ्कदत्तपुत्रश्रीमदरुणदत्तविरचितायामष्टाङ्गहृदयटी- कायां सर्वाङ्गसुन्दराख्यायां द्वितीये शारीरस्थाने विकृतिविज्ञानीयो नाम पञ्चमोऽध्यायः समाप्तः|| ५||
अथातोऽङ्गविभागं शारीरं व्याख़्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः||१||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
सम्प्रसूते गर्भेऽङ्गास्थिसिरामर्मपरिज्ञानार्थमध्यायारम्भः| तत्राश्रयत्वादङ्गविभागः प्रथममुच्यते कारणोपचारादध्यायस्य नाम|| १||
सकलमपि शरीरमङ्गमित्युच्यते| तत्र पुनः षडङ्गम्| शिरेऽन्तराधिर्द्वौ बाहू सक्थिनी च| नेत्रनाभिपाणिपादा- दीनि त्वस्य प्रत्यङ्गानि||२||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
अङ्गं शरीरम्| तस्य षट् शिरःप्रभृतीन्यङ्गान्यवयवाः| अन्तराधिः आजत्रोराकटेः| प्रत्यङ्गमवयवस्याप्यवयवः| नेत्रकर्णादीनि शिरसः| नाभिहृदयादीन्यन्तराधेः| प्राणिस्कन्धादीनि बाह्वोः| पादजङ्ग़ादीनि सक्थ्नोः|| २||
महागुणमयेभ्यश्च ख़पवनतेजोजलभूम्याख़्येभ्यो महाभूतेभ्यश्चेतनाधिष्ठितेभ्योऽभिनिर्वृत्तिरङ्गस्य||३||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
तस्य चाङ्गस्य ख़ादिभ्यो महाभूतेभ्योऽभिनिर्वृत्तिः| किम्भूतेभ्यश्चेतनेनात्मनाऽधिष्ठितेभ्यः| तानि च किम्भूतानि? महागुणमयानि| सत्त्वादय एव भूतभावेन परिणता आत्माधिष्ठिताश्च|| ३|| तस्य चाङ्गस्य ख़ादिभ्यो महाभूतेभ्योऽभिनिर्वृत्तिः| किम्भूतेभ्यश्चेतनेनात्मनाऽधिष्ठितेभ्यः| तानि च किम्भूतानि? महागुणमयानि| सत्त्वादय एव भूतभावेन परिणता आत्माधिष्ठिताश्च|| ३||
भूतानामेव च दृष्टादृष्टविविधकर्मवशादनेकरूपात् सन्निवेशषदाकृतिप्रमाणस्नेहदीप्तिस्वरादीनां सारुप्यमसारूप्यं वा सूक्ष्मस्थूलतारतम्यभेदभिन्नमतिबहुप्रकारं निष्पद्यते||४||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
तत्र शरीरे तथा तेषामेव महाभूतानां सन्निवेशविशेषात् प्रकृतिप्रमाणादीनां साद्रुश्यमसादृश्यं च बहुप्रकारं निष्पद्यते| किम्भूतात् सन्निवेशविशेषात् ? दृष्टादृष्टनानाविधकर्मवशेनानेकरूपात्| दृष्टं कर्म मातृपितृभ्यां स्नेहकृतमाहारादि| अदृष्टमन्यजन्मकृतम्| शरीराणां किम्भूतं सारूप्यमसारूप्यञ्चाह-सूक्ष्मादितारतम्यभेदभिन्नमत एव च बहुप्रकारम्|| ४||
तत्र सत्त्बहुलमाकशम्||५||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
तत्रेत्यादिना प्रत्येकमपि महाभूतस्य त्रिगुणत्वे विशेषकथनम्|
रजोबहुलो वायुः|१|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
अग्निलक्षणम्
सत्त्वतमोबहुलमम्बु|१|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
पृथिव्या लक्षणम्
तमोबहुला भूः||१||
🔊 Audio coming soon
तेषामप्रतिग़ातश्चलत्वमौष्ण्यं द्रवता काठिन्यमिति क्रमा- ल्लिङ्गानि||६||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
तेषां महाभूतानां पञ्चानां सद्भावे अप्रतिग़ातादिक्रमेण लिङ्गम्|
विशेषतश्च श्रोत्रादिष्विन्द्रियेष्ववस्थानम्||७||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
तेषां च महाभूतानां शब्दादिभिर्गुणैः क्रमेणैव एकैकप्रवृद्धैरन्वयः| तेन शब्दगुणमाकाशम्| शब्दस्पर्शगुणः पवनः| शब्दस्पर्शरुपगुणं तेजः| शब्दस्पर्शरूपरसगुणं जलम्| शब्दादिपञ्चगुणा पृथिवी|| ७||
शब्दस्पर्शरूपरसगन्धैरेकैकप्रवृद्धैरन्वयः||८||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
तेषां च महाभूतानां शब्दादिभिर्गुणैः क्रमेणैव एकैकप्रवृद्धैरन्वयः| तेन शब्दगुणमाकाशम्| शब्दस्पर्शगुणः पवनः| शब्दस्पर्शरूपगुणं तेजः| शब्दस्पर्शरूपरसगुणं जलम्| शब्दादिपञ्चगुणा पृथिवी|| ८|
तत्राऽऽकाशजानि श्रोत्रं शब्दः सर्वस्त्रोतांसि विविक्तता||९||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
तत्र शरीर आकाशजानि श्रोत्रादीनि| श्रोत्रमिन्द्रियम्| तथा शब्दः| आकाशभावाच्छब्दभावः| विविक्तता शारीराणां भावानां विभागः|| ९||
वायवीयानि स्पर्शनं स्पर्शः प्रश्वासोच्छ्वासादिपरिस्पन्दनानि लाग़वं च||१०||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
वायवीयानि स्पर्शनादीनि| स्पर्शनमिन्द्रियम्| स्पर्शोऽन्यस्पर्शनविषयः| एवं रूपादीनामपि वाच्यम्|| १०||
आग्नेयानि दर्शनं रूपं पित्तमूष्मा पक्तिः सन्तापो मेधा वर्णो भास्तेजः शौर्य्यञ्च||११||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
आग्नेयानि दर्शनादीनि| दर्शनं चक्षुरिन्द्रियम्| पित्तं दोषः| उष्मा अग्निः| पक्तिस्तत्क्रिया| भा कान्तिः| तेजः प्रसिद्धम्|
आम्भसानि रसनं रसः स्वेदक्लेदवसाऽसृकशुक्रमूत्रादिद्रवसमूहः शैत्यं स्नेहश्च||१२||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
आम्भसानि देहे रसनादयः| एको रसशब्दो रसविषयत्वज्ञापनार्थः| द्वितीयो धातुविशेषग्रहणार्थः|| १२||
पार्थीवानि ग़्राणं गन्धः केशनख़ास्थ्यादिमूर्तसमूहो धैर्य्यस्थैर्य्यञ्च||१३||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
पार्थिवानि ग़्राणादीनि| इति देहे पञ्चमहाभूतकार्ये चेतनश्चाप्यायात्यवहितमनसापि परीक्ष्यमाणो न किञ्चिल्लभ्यते|| १३||
तेशु मातृजानि मृदूनि त्वग्रक्तमांसमेदोमज्जनाभिहृदयामाशयगर्भाशययकृत्प्लीहाक्लोमान्त्रगुदादीनि||१४||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
मातृजानीति तेषु च महाभूतकार्येषु मध्ये किञ्चिद्गर्भस्य मातृजम्| किञ्चित् पितृजम्| किञ्चिच्चेतनजम्| चेतन आत्मा| ततः संक्रान्तमित्यर्थः| त्वगादीन्यन्यानि मृदूनि गर्भस्य मातृजानि विद्यात्| गर्भाशयः स्त्रीगर्भस्यैव|| १४||
पितृजानि स्थिराणि केशनख़ास्थिशुक्रसिरास्नाय्वादीनि||१५||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
केशादीन्यन्यानि च स्थिराणि पितृजानि|| १५||
आत्मजानि नानायोनिषूत्पित्तिर्मनश्चेतनेन्द्रियाणि प्राणापानौ धारणमाकृतिस्वरवर्णविशेषाः कामक्रोधलोभभयहर्षधर्मशीलतास्मृतिबुद्धीच्छाद्वेषप्रयत्नाहङ्कारसुख़दुःख़ायुरात्मज्ञानानि च||१६||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
आत्मजानि पुनर्नानाविधयोन्युत्पत्यादीनि| आत्मना ह्यवदातानवदातकर्मकारणभूतेन योनिषु मृगसरीसृपादिषूत्पद्यते; अतः संस्कारेण निःश्रेयसाय| तथा मनः आत्मजम्| तद्धि न कुतश्चिदागच्छत्यात्मना नित्यसम्बन्धित्वात्| इन्द्रियाणि त्वात्मकृतान्येव| चेतनेन्द्रियाणि पञ्च बुद्धीन्द्रियाणि श्रोत्रादीनि| प्राणापानौ चात्मजौ| ताभ्यामेव ह्यात्मकारणाभ्यां जीव्यते| साधारणमवयवानां धारणमुत्साहेन देहावष्टम्भः| आकृत्यादीनां नानाविधा विशेषाः आकृतिः संस्थानम्| तस्यां हि भूतानि समवायिकारणम्| आत्मा त्वसमवायिकारणम्| कामादयः सर्व एव विज्ञानधर्मा आत्मभवाः| तथा सुख़ादयोऽप्यात्मनः कर्मफलत्वात्|| १६||
सात्म्यजान्यायुरारोग्यमनालास्यलोलुपत्वमिन्द्रियप्रसादस्वरवर्णौजः सम्पत्प्रशस्तता प्रहर्षभूयस्त्वं मेधाबलं च||१७||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
सात्म्यजानि यानि देहिनो गर्भात् प्रभृति सात्म्यसेविन एव भवन्ति| स्वरादीनां सम्पत्परिपूर्णत्वम्| प्रशस्तता प्रशस्यत्वम्|| १७||
रसजानि कृत्स्नस्य देहस्य सम्भवो वृत्तिर्वृद्धिस्तृप्तिरलौल्यं पुष्टिरुत्साहश्च||१८||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
रसजानि यानि रसेभ्यः परिणतेभ्यः सम्पद्यन्ते| देहस्य सम्भवो मातृजठरे| वृत्तिर्वृद्धिस्तत्रैव| जातस्य च|| १८||
शुद्धसत्त्वजानि शौचमास्तिकत्वं, कृतज्ञता, दाक्षिण्यं, व्यवसायः, शौर्य्यं, गाम्भिर्यं बुद्धिर्मेधा, स्मृतिः शुक्लवर्त्मरुचिर्भक्तिरभिषङ्गाभावस्तमोगुणो विपर्ययश्च||१९||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
शुद्धसत्त्वजानि यानि च वस्तूनि रजस्तमोभ्यामनपहतेन शुद्धेन सत्त्वेन भवन्ति| अस्ति परलोक इति विज्ञानं यस्याऽसावास्तिकस्तस्य भावः आस्तिकत्वम्| बुद्धिर्ग्रहणशक्तिः| मेधा प्रज्ञा| भक्तिर्देवतादि विषये| अभिषङ्गः सम्परित्यागाशक्तता तस्याऽभावः क्रोधाद्यनभिभव इति यावत्| तमोगुणानां वक्ष्यमाणानामज्ञानविषादादीनां वैपरीत्यमिति सत्त्वजानि|| १९||
राजसानि दुरुपचारताऽनार्यं शौर्य्यं मात्सर्यममित- भाषित्वमहङ्कारो लोलुपत्वं दम्भो मानः क्रोधो हर्षः कामश्च||२०||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
राजसानि तामसानि च रजस्तमोभ्यामुपहतेन सत्त्वेनैव भवन्ति| दुरुपचारः यस्य परिचारकादिभिर्दुःख़ेन चित्तं ग्रहीतुं पार्य्यते तस्य भावः| अनार्यं शौर्यं विषयकालादिना अनुचितम्| उचितं शौर्य्यं सात्त्विकत्वमेव| लोलुपो विषयकौतुकी तस्य भावः|
तामसान्यज्ञानं विषादः प्रमादो निद्राऽऽलस्यं क्षुत्तृष्णा शोको मात्सर्यं विप्रतिपत्तिः परातिसन्धानं सत्त्वगुण वैपरीत्यं च||२१||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
अज्ञानादीनि तामसानि| अज्ञानं मिथ्याज्ञानम्| विप्रतिपत्तिर्विरोधोऽन्येन| परातिसन्धानं परपक्षप्रतिबन्धः| सत्त्वजानां शौचास्तिकत्वादीनां वैपरीत्यम्|| २१||
तत्र सत्त्वं मनस्तस्योपप्लवो रजस्तमश्च इत्येवम्भूतात्मकं देहमाहुः||२२||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
सत्त्वं किमुच्यत इत्याह-तत्रेत्यादि| सत्त्वं मनः इति पर्य्यायौ| तस्य सत्त्वस्य रजस्तमश्चोपप्लवौ| इत्यनेन प्रकारेण पृथिव्यादिविकारसमुदायात्मकं देहमाहुराचार्य्याः| तेनैतत् स्थितमस्मिन् दर्शने-आत्मा नित्यः अविकारः न जायते न च विनश्यति| सत्त्वादिसंयोगात्तु जातादिव्यपदेशं लभते| संयोगश्च तस्याविद्यास्वभावकृतः| अविद्याक्षयाध्यवलीने संयोगे शुद्धः सन् मुक्त इत्युच्यते| एकेन ह्यन्वयिना कर्त्रा विना बालत्वादीनां स्मृत्यादिना फलाभिसन्धानेन कार्य्याऽप्रवृत्तेर्देहादिकार्य्यस्य च सम्भवः| स च स्वतन्त्रोऽप्यात्मनैव तत्कर्म करोति| यस्य बन्धो वा मोक्षो वा फलमश्नुते, तस्य च स्वकर्मण एव करणात् कारणात् संयोगस्तद्विनाशौ बन्धमोक्षौ| न ह्यात्मना कर्त्रा विना शरीरस्य सम्भवः| तथा च भगवान् चरकः:- मृद्दण्डचक्रैश्च कृतं कुम्भकारादृते घटम्| कृतं मृत्तृणकाष्ठैश्च गृहकाराद्विना गृहम्| यो वदेत्स वदेद्देहं सम्भूयकरणैः कृतम्| इति| तस्मादात्मा चेतनः कारणं नित्यः| अचेतनानि तु महाभूतानि अनित्यानि प्रतिक्षणप्रध्वंसीनि| तेषां हि नित्यत्वे भावानां वृद्ध्याद्यसम्भवः| न हि तदेकं वस्तु तथा चान्यथा च भवितुमर्हति| दृश्यते च| तस्मादनित्यानि भूतानि| तदधिष्ठितानि पुरुषाख्यां लभन्ते| एवमात्मनोऽनादिः संयोगः पुरुषसंयोगिभिरन्योन्यसापेक्षैर्भवति| तस्मात् स्थितमेवम्भूतात्मकं देहमाहुरिति|
तस्य पुनः प्रविभागः-त्वचः कला दोषा धातवो मला बुद्धीन्द्रियाणि तदधिष्ठितानि कर्मेन्द्रियाण्यतीन्द्रियमाशयाः प्राणायतनानि कण्डराजालानि कूर्चारज्ज्वस्सीवन्योऽस्थिसङ्घाताः सीमन्ता अस्थीन्यस्थिसन्धयः स्नायूनि पेश्यः सिरा धमन्यः स्रोतांस्यूष्माणो मर्मणि केशश्मश्रुलोमानि प्रकृतिविकृतिभेदाश्च||२३||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स च देहस्त्वगादिभिरपोद्धारेण प्रविभज्यते| सुबोधम्|| २३||
तत्राऽसृजः पच्यमानस्य क्षीरस्येव सन्तानिकाः षट् त्वचो भवन्ति||२४||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
तत्र देहे षट् त्वचो रक्तात् स्वोष्मणा पच्यमानात्क्षीरजालिकावत् भवन्ति| तास्तु कदलीदलवदन्तरे क्रमेण वर्तन्ते| तासां त्वचां प्रसादाद्रक्तस्य प्रसादः| त्वचो हि रक्तस्य प्रसन्नतां जनयन्ति| घनीभावस्याल्पीभावापादनाच्च|| २४||
त्वक्प्रसादाद्रक्तस्य प्रसादः| उदकधरा त्वक् तासामुदकधरा चाद्या||२५||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
तासां प्रथमा देह उदकं विभर्ति येन बहिरार्द्रत्वाभावः|| २५||
द्वितीयाऽसृग्धरा||२६||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
द्वितीयया रुद्धन्त्वस्रम्| तेन रक्तं न बहिः स्यन्दते| साऽसृग्धरा नाम इत्यादि सुबोधम्|| २६||
तृतीया सिध्मकिलासाधिष्ठाना||२७||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
यदाश्रित्य यस्य भावस्तस्य तदधिष्ठानम्| सिध्म कुष्ठविशेषः| किलासं श्वित्रम्|| २७||
पञ्चमी पुनरलजीविद्रध्यधिष्ठाना| प्राणधरा त्वक् षष्ठी तु प्राणधर| यस्यां छिन्नायां ताम्यत्यन्धमिव च तमः प्रविशति यां चाधिष्ठायारूंषि जायन्ते| पर्वसु कृष्णरक्तानि स्थूलमूलानि दुश्चिकित्स्यतमानि||२८||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
षष्ठी सर्वसामन्तर्मांसलग्ना| सा प्राणानन्तरवरुद्ध्याऽवतत्यावतिष्ठति| तदधिष्ठानानि हि विशेषेण कृष्णरक्तान्यरूंषि|
अन्ये सप्त त्वचो वदन्ति| भासिनी त्वक् तत्र प्रथमा भासिनी नाम या वर्णानामवभासिनी ख़ादीनां च पञ्चानां छायानां सा व्रीहेरष्टादशभागप्रमाणा||२९||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
अन्ये त्वाचार्य्या भासिन्यादिभेदेन सप्तसंज्ञास्त्वचो वदन्ति| सुबोधम्| पञ्च छाया वक्ष्यमाणाः|| २९||
द्वितीया लोहिनी नाम षोडशभागप्रमाणा|१|
🔊 Audio coming soon
तृतीया श्वेता नाम द्वादशभागप्रमाणा|१|
🔊 Audio coming soon
चतुर्थी ताम्रा नामाऽष्टभागप्रमाणा|१|
🔊 Audio coming soon
पञ्चमी वेदिनी नाम पाञ्चभागप्रमाणा|१|
🔊 Audio coming soon
षष्ठी रोहिणी नाम व्रीहिप्रमाणा|१|
🔊 Audio coming soon
सप्तमी मांसधरा नाम व्रीहिद्वयप्रमाणा||१||
🔊 Audio coming soon
यस्तु धात्वाशयान्तरेषु क्लेदोऽवतिष्ठते स यथा स्वमूष्मभिर्विपक्वः स्नायुश्लेष्मजरायुच्छन्नः काष्ठ इव सारो धातुसारशेषो रसशेषोल्पत्वात् कलासंज्ञः|३०|
🔊 Audio coming soon
यस्तु धात्वाशयान्तरेषु क्लेदोऽवतिष्ठते स यथा स्वमूष्मभिर्विपक्वः स्नायुश्लेष्मजरायुच्छन्नः काष्ठ इव सारो धातुसारशेषो रसशेषोल्पत्वात् कलासंज्ञः||३०||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
उक्तास्त्वचः कला उच्यन्ते-यस्त्वित्यादि| धातूनां रक्तादीनामाशया यानि स्रोतांसि तेशां द्वयोर्धात्वाशययोर्मध्ये यः क्लेदः स स्वेन-स्वेन धातूष्मणा पक्वः श्लेष्मादिछन्नः सन् कलाख़्या लभते| काष्ठसारवत् यथा काष्ठेऽन्तःसारो विभज्यते, तथा शरीरे कलाः| ताश्च स्वस्थानमजहत्यः शरीरं व्याप्नुवन्ति| स तु क्लेदो धातुसारशेषो न पूर्वधातुतां नाप्युत्तरधातुतां प्राप्नोत्यतः स्वल्पत्वात् कलासंज्ञः, आसां तु क्रमो धातुक्रमसम्भवविशेषात्| विशिष्टकार्यता तु स्वभावात्|| ३०||
ता धात्वाशयन्तरमर्यादाः सप्त कलाः||१||
🔊 Audio coming soon
तासां प्रथमा मांसधरा नाम| यस्यां मांसे सिरास्नायुधमनीस्रोतसां भूमाविव पङ्कोदकेन बिसमृणालानां प्रतानानि भवन्ति||३१||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
तथाहि-प्रथमा रसविशेषजाऽपि मांसधर| यस्यां भूम्यामिवाधिष्ठाय मांसे कर्दमसदृशे सिरादीनां प्रतानानि मृणालप्रख़्यानि भवन्ति|| ३१||
द्वितीया रक्तधर नाम मांसस्याभ्यन्तरतस्तस्यां शोणितं विशेषतश्च सिराप्लीहयकृत्सु भवति| मांसाच्च क्षतात् क्षतजं वृक्षादिव क्षीरिणः क्षीरं प्रवर्त्तते||३२||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
द्वितीयायां शोणितं भवति| विशेषतो यकृदादिष्वेव तस्यां कलायां शोणितं भवति प्रभावाच्च मांसात् क्षतात् बहिः शोणितं प्रवर्त्तते| न हि तया विना मांसे रक्तं भवति| दृष्टान्तः स्फुटप्रतिपत्त्यर्थः|| ३२||
तृतीया मेदोधरा नाम| मेदो हि तस्यामुदरेऽण्वस्थिषु च सरक्तं भवति| तदेव च शिरसि कपालप्रतिच्छन्नं मस्तिष्काख़्यं मस्तुलुङ्गाख़्यं च स्थूलास्थिषु च मज्जा||३||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
तृतीयायां मेदःकर्तृ सरक्तं भवत्युदरेऽण्वस्थिषु| तामेवा ऽऽश्रित्य मेदो मस्तुलुङ्गत्वं याति मज्जत्वं च याति|| ३३||
चतुर्थी श्लेष्मधरा नाम| तत्स्थेन हि श्लेष्मणा श्लेषिताः सर्वसन्धयो दृढा भवन्ति सोपाङ्गा साभ्यङ्गा||३४||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
सुबोधम्| अक्षाश्चक्रनाभयः| सोपाङ्गः साभ्यङ्गाः|| ३४||
पञ्चमी पुरीषधरा नाम| सा ह्यन्त्रामपक्वाशयाश्रिता कोष्ठान्तरुण्डुकस्थं मलं विभजति||३५||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
उण्डुकं पुरीषाधारः|| ३५||
षष्ठी पित्तधर नाम पक्वामाशमध्यस्था| सा ह्यन्तरग्नेरधिष्ठानतयाऽऽमाशयात् पक्वाशयोन्मुख़मन्नं बलेन विधार्य पित्ततेजस शोषयति पचति पक्वञ्च विमुञ्चति| दोषाधिष्ठिता तु दौर्बल्यादाममेवाततोऽसावन्नस्य ग्रहणात् पुनर्ग्रहणीसंज्ञा| बलं च तस्याः पित्तमेवाग्न्यभिधानमतः साऽग्निस्तब्धोपबृंहितैकयोगक्षेमा शरीरं वर्तयति||३६||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
षष्ठी पक्वामाशययोर्मध्ये स्थिता आमाशयात् पक्वाशयोन्मुख़मन्नं बलेन विधार्य्य पचति| पित्ततेजसा करणभूतेन| सैव वातादिदोषाधिष्ठानेन दौर्बल्यादाममेव विमुञ्चति यदेवाग्नेर्धारणं तदेव तस्या उपस्तम्भनम्| यदेवाग्नेरुपबृंहणं तदेवास्या उपबृःहणमित्येकयोगक्षेमा|| ३६||
सप्तमी शुक्रधरा नाम द्व्यङ्गुले दक्षिणे पार्श्वे बस्तिद्वारस्याधो मूत्रमार्गमाश्रिता सकलशरीरव्यापिनी शुक्रं प्रवर्तयति||३७||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
सप्तमी बस्तिद्वारस्य द्व्यङ्गुलमतिक्रम्य दक्षिणे पार्श्वे मूत्रमार्गमाश्रित्य वर्त्तते|| ३७||
दोषा धातवो मलाश्च प्रागुदिताः||३८||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
दोषादयः प्राक् सूत्रस्थान उक्ताः|| ३८||
पञ्च बुद्धीन्द्रियाणि-श्रोत्रं स्पर्शनं दर्शनं रसनं ग़्राणञ्च| श्रोत्रादीनि पञ्च बुद्धीन्द्रियाणि||३९||
🔊 Audio coming soon
तेषां सभागतया क्रमाद्विषयः शब्दस्पर्शरूपरसगन्धाः||१||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
तेषामिन्द्रियाणां सभागतया इन्द्रियस्य विशेषेणैकभूताधिक्यकारणत्वेन सादृश्यात्| यथा चक्षुस्तैजसं तैजसमेव रूपं गृह्णाति| श्रोत्रं नाभसं शब्दोऽपि नाभसः|| ४०||
पञ्च बुद्धीन्द्रियाधिष्ठानानि-कर्णौ त्वगक्षिणी जिह्वा नासिके च||४१||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
इन्द्रियाधिष्ठानानि शरीरावयवाः|| ४१||
पञ्च कर्मेन्द्रियाणि-वाक्पायूपस्थपाणिपादसंज्ञकानि||१||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
कर्मेन्द्रियाणि पञ्च-वागेकं, द्वितीयं गुदं, तृतीयं मेढ्रम्, चतुर्थं पाणी, पञ्चमं पादौ|| ४२||
तान्यपि च वचनोत्सर्गहर्षादानगमनार्थानि||४३||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
वागादीनां क्रमेण वचनादि कर्म| हर्षग्रहणमुपलक्षणम्| तथा चोपस्थं यथा हर्षार्थं तथा मूत्रोत्सर्गार्थमपि| हर्षशब्देन शुक्रं लक्ष्यते|| ४३||
अतीन्द्रियन्तु मनः सर्वार्थैरन्वयात् तद्योगेन पञ्चेन्द्रिया- णामर्थप्रवृत्तेः| बुद्धिकर्मेन्द्रियोभयात्मकत्वाच्च||४४||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
अतीन्द्रियत्वमतिक्रान्तेन्द्रियस्वरूपत्वम्| हेतुत्रयेणातीन्द्रियत्वे उपपत्तिः| सर्वार्थैः सर्वैर्विषयैरनुगतं मनः न तथेन्द्रियम्| इन्द्रियाणि विशेषग्रहणार्थमिति तदपेक्षन्ते, न त्विन्द्रियान्तरम्| तथा तदुभयात्मकं तच्छक्त्यन्वयात्| तथा च यथा मनः पश्यति तथा क्रियाः प्रवर्त्तन्ते|| ४४||
सप्ताशयाः क्रमादसृक्कफामपित्तपक्ववायुमूत्राधाराः| स्त्रीणां पित्तपक्वाशययोर्मध्ये गर्भाशयोऽष्टमः||४५||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
असृगाद्याशयाः कण्ठादयः क्रमेण महास्रोतसि वर्त्तन्ते सप्त| अष्टमः स्त्रीणामेव| स च पित्ताशयपक्वाशययोर्मध्ये भवति|| ४५||
तेषु सप्तसु प्रतिबद्धानि कोष्ठाङ्गानि हृदयकृत्प्लीहफुप्फुसोण्डुकवृक्कान्त्रादीनि||४६||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
तेषु चाशयेषु प्रतिबद्धानि हृदयादीनि कोष्ठाङ्गानि| आदिग्रहणादन्यानि नाभ्यादीनि सूक्ष्माणि गृह्यन्ते| तानि मृतशरीरे दृष्ट्वा कार्य्यकारणभावाद्विकल्पनीयानि| सुबोधमन्यत्|| ४६||
तत्र समानेनाध्मायमानस्य देहोष्मणा पच्यमामानस्य शोणितस्याच्छतो जायते यकृत् प्लीहा च|१|
🔊 Audio coming soon
रक्तफेनात् फुप्फुसम्|१|
🔊 Audio coming soon
रक्तकिट्टादुण्डुकः|१|
🔊 Audio coming soon
रक्तमेदः प्रसादाद् वृक्कौ|१|
🔊 Audio coming soon
रक्तमांसप्रसादादाप्रमाणं||१||
🔊 Audio coming soon
सार्धत्रिव्यामानि पुंसाम्| त्रिव्यामानि स्त्रीणाम्||२||
🔊 Audio coming soon
रक्तस्यानिलयोगात् कालीयम्||१||
🔊 Audio coming soon
हृदयं पुनः श्लेष्मरक्तप्रसादात् सम्भवति पद्मकोशसङ्काशं सुषिरमधोमुख़म्| तद्विशेषेण चेतनायाः स्थानं सर्वभावानां च चेतनानुगतानाम्| तस्य वामपार्श्वे प्लीहा फुप्फुसश्च्| दक्षिणतो यकृत् क्लोम च||४७||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
चेतनानुगता भावाः स्मृत्यादयः| यत्र चेतनोऽन्वयी सक्तः|
तथा कफरक्तवाहिनां स्रोतसां महाभूतानां च प्रसादादिन्द्रियाणि||४८||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
अवयवविशेष इन्द्रियम्| कफादिवहानि यानि स्रोतांसि तेषां महाभूतानां चात्मीयाग्निना पाकपरिणामात्प्रसादाच्चक्षुरादीन्द्रियाणि भवन्ति| इन्द्रियाधिष्ठानानीन्द्रियाणीत्युच्यन्ते|| ४८||
तेष्वपि च नेत्रे श्लेष्मणः प्रसादाच्छुक्लमण्डलं तत् पितृजम्| असृजः कृष्णमण्डलं तन्मातृजम्| मध्ये दृष्टिमण्डलं तदुभयात्मकम्||४९||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
तेष्वपीन्द्रियेषु मध्ये नेत्रे यच्छुक्लमण्डलं तच्छ्लेष्मणः प्रसादाद्भवति| तच्च पैतृकं भवति| सुबोधम्|| ४९||
पक्ष्मवर्त्मशुक्लकृष्णदृष्ट्याख़्यानि पञ्च मण्डलानि| तत्सन्धयश्चत्वारः| द्वौ चापाङ्गकनीनयोः इति ते षट्| षट् च पटलानि| द्वे वर्त्मनी| बाह्यं चाश्रितमग्न्यम्भसी| द्वितीयं मांसं तृतीयं मेदश्चतुर्थमस्थि| तेशां बहलत दृष्टेः पञ्चमांशेन||५०||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
पञ्च नेत्रे चक्रवदान्तरतः मण्डलानि| तेषां सन्धयः षट्| एकः पक्ष्मवर्त्मनोः| द्वितीयो वर्त्मशुक्लयोः| तृतीयः शुक्लकृष्णयोः| चतुर्थः कृष्णदृष्ट्याख़्ययोः| पञ्चमो नेत्रापाङ्गयोः| षष्ठो नेत्रकनीनिकयोः| अपाङ्गः कर्णदिशि| कनीनिकं नासादिशि| षट् च नेत्रपटलानि भवन्ति| बाह्यमित्यादिना पटलानां क्रमः| तत्र च यद्बाह्यं पटलं तदूर्ध्वाधोभेदेन द्वे वर्त्मनी अग्न्यम्भसी चाश्रितम्| ताभ्यां तदाप्यायितम्| एवं सर्वत्र वाच्यम्| दृष्टिमण्डलस्य यावती विस्तीर्णता तस्याः पञ्चमेन भागेन पटलानां ग़नत्वम्|
बन्धनगुणास्तु चत्वारः सिराकण्डरामेदःकफात्मकाः|१|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
सिरादिमयाश्चत्वारो देहबन्धनरज्जवः| याभिर्महासन्धयो बध्यन्ते| तेषां सिराद्यनन्यतमत्वान्नाधिकनिर्देशः सुबोधम्|| ५१||
श्लेष्मा तु परं सर्वसन्धिबन्धनमित्युक्तं प्राक्||१||
🔊 Audio coming soon
नेत्राश्रितं तु तेजो बाह्यतेजसा स्वयोनिना योगाच्छस्रमिवाश्मना कर्मण्यं भवति| अतियोगादुपहन्यते||२||
🔊 Audio coming soon
तच्च वैद्युतवद्बडवामुख़वच्चाम्भोमध्यगमपि वीर्य्योत्कर्षात्तेजस्त्वं न जहाति|१|
🔊 Audio coming soon
मांसासृक्कफप्रसादात्तु जिह्वा जायते||१||
🔊 Audio coming soon
मांसासृक्कफमेदःप्रसादाद् वृषणाविति||५२||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
जिह्वावृषणयोरिन्द्रियाधारेष्वनुपदेशः|| ५२||
दश प्राणायतनानि मूर्धा जिह्वाबन्धनं कण्ठो हृदयं नाभिर्बस्तिर्गुदः शुक्रमोजो रक्तञ्च| तेषामाद्यानि सप्त पुनर्महामर्मसंज्ञानि||५३||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
प्राणानामायतनानि स्थानानि मूर्धादीनि आद्यानि सप्त गुदान्तानि महामर्माख़्यानि| कण्ठो जिह्वाबन्धनस्याधः| सुबोधम्|| ५३||
षोडश कण्डराः| तासां द्वे द्वे करचरणेषुचतस्रः पृथग्ग्रीवापृष्ठयोः||५४||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
षोडशेत्यादि द्वे-द्वे इति चतुर्षु करचरणेष्वष्टौ| पृथगिति ग्रीवायां चतस्रः| पृष्ठवंशे चतस्र इति पूर्वाभिः षोडश कण्डर मांसरज्जुप्रायाः|| ५४||
षोडश जालानि, तेषां मांससिरास्नाय्वस्थिजानि चत्वार्य्यैकैकत्र गुल्फे मणिबन्धे च परस्परगवाक्षितानि तानि स्थितानि||५५||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
एकैकत्रेति प्रत्येकं चतुर्षु गुल्फमणिबन्धनेषु चत्वारि मांसादिकानि जालकादीनि षोडश|| ५५||
षट् कूर्चाः हस्तपादग्रीवामेढ्रेषु||५६||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
चत्वारो हस्तपादे प्रत्येकमेको ग्रीवायामेको मेढ्रे चेति षट् कूर्चाः| कूर्चाकृतयः स्नाय्वादिविशेषाः|| ५६||
चतस्रो मांसरज्जवः पृष्ठवंशमुभयतः पेशीनिबन्धनार्थं तासां द्वे बाह्ये| द्वे चाभ्यन्तरस्थिते||५७||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
पृष्ठवंशस्यैकस्मिन् पार्श्वे त्वग्भाग एका, तद्वद् द्वितीये पार्श्वे, द्वे चाभ्यन्तर इति चतस्रो मांसरज्जवः|| ५७||
सप्त सीवन्यः| ताः पञ्च शिरसि जिह्वामेहनयोरेकैका| परिहार्याश्च शस्त्रेण||५८||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
शिरसि द्वे शङ्ख़ावश्रित्य प्रवृत्ते द्वे कृकाटिके एका उपरिऋज्वी इति पञ्च| द्वे जिह्वामेढ्रयोरिति सप्त सीवन्यः शस्त्रेण परिहार्याः|| ५८||
चतुर्दशास्थिसङ्ग़ाताः| तेषामेकैको गुल्फजानुवङ्क्षणमणिबन्धकर्पूरकक्ष्यासु त्रिकशिरसोश्च||५९||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
गुल्फादिमणिबन्धादित्रयभेदेन प्रत्येकं शाख़ायां त्रय इति द्वादश| त्रिके शिरसि चैकैक इत्यस्थिसङ्ग़ाताश्चतुर्दश|| ५९||
तद्वत्सीमन्ताः, ते तु पञ्च शिरसीत्यष्टादश||६०||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
तद्वदस्थिसङ्ग़ातवत् गुल्फादिषु त्रिके चैकैकः| पञ्च शिरसीत्यष्टादश सीमन्ताः| सीमन्ताः सीवन्यश्च बहिस्त्वचः शिरसि न दृश्यन्ते|| ६०||
त्रीणि षष्ट्यऽधिकान्यस्थिशतानि| तेषां च चत्वारिंशच्छतं शाख़ासु| सविंशं शतमन्तराधौ| शतमुर्ध्वमिति||६१||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
अस्थ्नां शतनि त्रीणि षष्ट्याऽधिकानि|| ६१||
तत्रैकैकस्मिन् सक्थ्नि पञ्च पादनख़ाः प्रत्येकमङ्गुल्यां त्रीण्यस्थीनि तानि पञ्चदश| पञ्च पादशलाकाः| तत्प्रतिबन्धकमेकम्| द्वे द्वे कूर्चगुल्फजङ्ग़ास्वेकैकं पार्ष्णजान्रुषु| सर्वाणि च नख़ास्थ्यादीनि सक्थिवद् बाह्वोश्च||५||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
तेषां प्रत्येकं शाख़ानां पञ्च नख़ाः| पञ्चदशाङ्गुल्यस्थीनि| पञ्चाङ्गुलिलग्नशलाकाः| एकं शलाकाप्रतिबन्धनम्| कूर्चे द्वे| गुल्फे द्वे| जङ्ग़ायां द्वे| एकं पार्ष्णौ| एकं जानुनि| एकमूराविति पञ्चत्रिंशत्| शाख़ानां चतुष्ट्वाच्चतुर्गुणानि चत्वारिंशच्छतमस्थ्नां शाख़ासु|| ६२||
चतुर्विंशतिः परशुकाः| तावन्त्येव स्थालकान्यर्बुदानि च| त्रिंशत् पृष्ठे| अष्टावुरसि एकैकं भागे त्रिके| नितम्बयोश्च द्वे| तद्वदक्षकांसांसफलकेषु||६३||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
पार्श्वकास्थालकार्बुदानि द्विसप्ततिरस्थीनि| त्रिंशदष्टावेकमेकं नितम्बयोर्द्वित्वाद् द्वे| अक्षकादीनामपि त्रयाणां द्वित्वाद् द्वे द्वे| इत्यन्तराधौ विंशकं शतमस्थ्नाम्| पार्श्वका दीर्ग़ावक्रान्ता यत्र पृष्ठतो बध्यन्ते| यानि स्थालकानि तान्यपि| एषु यानि पृष्ठवंशारम्भ-कास्थिषु सम्बध्यन्ते तान्यबुर्दानि|| ६३||
तथा गण्डकर्णशङ्ख़ेषु जत्रुतालुनोश्च| त्रयोदश ग्रीवायाम्| चत्वारि कण्ठनाड्याम्| द्वे हनुबन्धने| द्वात्रिंशद्दन्ताः| तद्वदुलूख़लानि च| त्रीणि नासायाम्| षट् शिरसि||६४||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
तथेत्येकैकम्| तत्र गण्डादीनां त्रयाणां द्वित्वाद् द्वे द्वे द्वे| एकमेकम्| त्रयोदश| चत्वारि| द्वे द्वयोः| द्वात्रिंशत् द्वात्रिंशत्| त्रीणि| षडिति शतं शिरसि| नासाग्रे पार्श्वयोर्द्वयोर्मध्य एकम्| शिरस्यग्रे कपालमेकम्| पृष्ठत् एकम्| पार्श्वयोर्द्वयोर्द्वाविति षट् कपालानि शिरसि|| ६४||
तानि जानुनितम्बांसगण्डतालुशङ्ख़वङ्क्षणमध्यशिरस्सु कपालसंज्ञानि| दशनास्तु रुचकाः| ग़्राणकर्णग्रीवाक्षिकोशेषु तरुणानि| पाणिपादपार्श्वपृष्ठेषु बलयानि| शेषाणि नलकानीति| नामानुगताकृतीनि पञ्चविधान्यस्थीनि| तेषु हि सिराभिः स्नायुभिश्च निबद्धानि मांसानि||७||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
कपालादिनामानि पञ्चान्वर्थाकृतीनि| तरुणानि मृदूनि| तेषु पञ्चविधेष्वस्थिषु सिरास्नाय्वभिर्मांसानि निबद्धानि मांसानि|| ६५||
दशोत्तरं शतद्वयमस्थिसन्धीनाम्| तेशामष्टषष्टिः शाख़ासु| एकोनषष्टिरन्तराधौ| त्र्यशीतिरुर्ध्वम्||६६||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
अस्थिसन्धीन्याह|| ६६||
तत्रैकैकस्मिन् सक्थ्नि पादाङ्गुलौ प्रत्येकं त्रयः| द्वावङ्गुष्ठे| ते चतुर्दश| एकैको गुल्फजानुवङ्क्षणेषु||६७||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
तेषां प्रत्येकं त्रय अङ्गुलीषु| द्वादश| त्रिष्वस्थिषु अङ्गुल्याः द्वे| शलाकायाः तृतीयः| अङ्गुष्ठमध्य एकः| शलाकायां द्वितीय इति चतुर्दश करे| गुल्फादिष्वेकैकः| एवं शाख़ाष्वष्टषष्टिः सन्धयः||६७||
त्रयः कटिकपालेषु| चतुर्विंशतिः पृष्ठवंशे| तद्वत् पार्श्वयोः| अष्टावुरसि||६८||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
त्रयश्चतुर्विंशतिद्वयं अष्टावित्येकोनषष्टिरन्तराधौ| तद्वदिति पृष्ठवंशवत्| पार्श्व एकस्मिन् द्वादशान्यस्मिन् द्वादशपरशुकाश्रयत्वात् सन्धीनाम्|| ६८||
अष्टौ ग्रीवायाम्| त्रयः कण्ठनाड्याम्| अष्टादश कण्ठनाडीनिबद्धा हृदययकृत्क्लोमनाडीषु| द्वात्रिंशद्दन्तमूलेषु| एकैकः काकलनासामूर्द्धसु| द्वौ द्वौ गण्डकर्णशङ्ख़वर्त्मनेत्रहनुसन्धिषु| द्वावुपरिष्टात् भ्रुवोः| पञ्च शिरःकपालेषु||६९||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
अष्टौ त्रयः अष्टादशद्वात्रिंशदेकः एकः एकः गण्डादिषु द्वौ द्वौ षट्स्वेवं द्वादश द्वौ पञ्च इति त्र्यशीतिरुर्ध्वम्| तिसृषु हृदयादिनाडीष्वष्टादशसन्धयः| ते च कण्ठनाड्यां निबद्धाः अतएव शिरसि गणिताः| हन्वोः सन्धिर्हनुसन्धिः| द्वौ द्वौ गण्डादीनामित्येकैकस्मिन् गण्डादावेकैकः सन्धिर्ज्ञेयः| उपरिष्टाद्द्वाविति भ्रुवोरुर्ध्वे| शिरोवर्तुलतया शिरःकपालेषु पञ्च| द्वौ ललाटपार्श्वयोः| द्वौ कृकाटिकापार्श्वयोः| एक ऋजुः|| ६९||
तेऽङ्गुलिगुल्फलजानुमणिबन्धकूर्परेषु कोरसंज्ञाः| कक्षावङ्क्षणदन्तमूलेषूलूख़संज्ञाः| अंसपीठगुदभगनितम्बेषु सामुद्गाः| गीवापृष्ठवंशयोः प्रतराः| शिरःकटीकपालेषु तुन्नसेवनीसंज्ञाः| हनूभयतो वायसतुण्डाः| कण्ठनेत्रहृदययकृत्प्लीहक्लोमनाडीषु मण्डलसंज्ञाः| श्रोत्रशृङ्गाटकेषु शङ्ख़ावर्ताः| इत्यस्थिसन्धयोऽष्टविधाः||७०||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
तेषां सन्धीनां स्थानविशेषेण संज्ञाष्टकमनुगतार्थम्| श्रोत्रशृङ्गाटकं भ्रुव उपरि कर्णनिकटे| इत्यस्थ्याश्रितानां सन्धीनां दशोत्तरं शतद्वयमुक्तम्|| ७०||
स्नायुपेशीसिराश्रितैस्तु सहस्रद्वयं न पुनः शस्त्रप्रणिधाने तेषु वाच्यमस्तीति पृथङ्नोच्यते||७१||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स्नाय्वाद्यैः सन्धिभिः सहस्रद्वयं भवति तच्छस्रकर्मानुपयोगान्नोक्तम्| सूक्ष्माः सिराः स्नायवः| पेश्यः पुनः स्नाय्वाकृतयो मांसमय्यः|| ७१||
नव स्नायुशतानि| तेषां षट् शतानि शाख़ासु| त्रिंशच्छतद्वयमन्तराधौ| ऊर्ध्वं सप्ततिः||७२||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
अथ स्नाय्वानां विभाग उच्यते| प्रत्येकं शाख़ायां सार्द्धशतं स्नाय्वानामेवं शाख़ासु षट्शतानि|| ७२||
तत्रैकैकस्मिन् सक्थ्नि पादाङ्गुल्यां प्रत्येकं षट्षट्| तानि त्रिंशत्| दश दश पादतलकूर्चगुल्फेषु त्रिंशज्जङ्ग़ायाम्| दश जानुनि| चत्वारिंदूरौ| दश वङ्क्षणे||७३||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
तथा चैकस्मिन् सक्थ्नि पञ्च पादाङ्गुलीषु प्रत्येकं षट्| एवमङ्गुलीषु त्रिंशत्| पादतलादिषु त्रिषु दश-दश| एवं त्रिंशदेकीकृत्य षष्टिः| त्रिंशद्दश चत्वारिंशद्दश इति सार्धशतम्| बाहावङ्गुलीकरतलकूर्चमणिबन्धनप्रकोष्ठकूर्परप्रकाण्डकक्ष्यासु क्रमेणोक्तावयवाद्विज्ञेयम्|| ७३||
चत्वारिंशत् कट्याम्| विंशतिर्मुष्कमेढ्रबस्त्यन्त्रेषु| अशीतिः पृष्ठे| षष्टिः पार्श्वयोः| अष्टादशोरसि| चत्वार्यक्षकयोः| अष्टावंसयोः||७४||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
अन्तराधौ चत्वारिंशद्विंशतिरशीतिः षष्ट्याष्टादश चत्वार्य्यष्टाविति त्रिंशदधिकान्यष्टौ शतानि भवन्ति| मुष्कादिषु चतुर्षु च विंशतिः साधारणानि| अक्षकयोर्द्वे द्वे| असंयोश्चत्वारिचत्वारि|| ७४||
द्वे द्वे मन्यावटुनेत्रौष्ठतालुषु| त्रिंशद् ग्रीवायाम्| त्रीणि जत्रुणि| चत्वारि हन्वोः| पञ्च जिह्वायाम्| द्वादशोत्तराधरेशु दन्तमांसेषु| षण्मूर्धनि||७५||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
शिरस्युच्यते-द्वे मन्ययोः| अवटौ द्वे| नेत्रयोर्द्वे| तालुनि द्वे-इति दश| त्रिंशत्त्रीणि चत्वारि पञ्च द्वादश षडिति मूर्धनि| अक्षकसन्धिर्जत्रुः हन्वोर्द्वे द्वे| उत्तराधरेषु दन्तमांसेषु षट्षडिति स्नाय्वानां नवशतानि| अवटुः कृकाटिका|| ७५||
तत्र शाख़ासु सन्धिषु च प्रतानवन्ति| महास्नाय्वानि तु वृत्तानि तानि कण्डरासंज्ञानि| बस्त्यामपक्वाशयान्त्रेषु सुषिराणि| पार्श्वपृष्ठोरशिशरस्तु पृथूनि||७६||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
तत्रेत्यादिना तेषां देशविशेषेणाकारविशेषा उच्यन्ते| प्रतानवन्त्यनेकप्रकाराणि| तेषामेव स्नाय्वानां वृत्तानां महतां च कण्डरासंज्ञा| सुबोधम्|| ७६||
स्नायुबन्धनैर्हि सन्धिषु सुबद्धा तनुर्नौरिव सम्यगीहते| तस्मादस्थिसिरादिभ्योऽपि तानि यत्नतो रक्षेत्||७७||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
एतैर्हि स्नायुनिबन्धनैस्तनुः सन्धिप्रदेशेष्ववबद्धा सती सम्यगीहते साधु कृत्वा चेष्टते| यथा नौः सन्धिषु प्रतिबद्धा सती सम्यगीहते| ततो हेतोस्तानि स्नाय्वानि यत्नतो रक्षेदस्थ्यादिभ्योऽपि|| ७७||
यश्च स्नाय्वानि बाह्यान्यभ्यन्तराणि च सम्यग् जानाति स गूढमपि शल्यमाहर्तुं समर्थो भवति||७८||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
सुबोधम्| स्नाय्वज्ञाने चात्रैवोपयोगो वक्ष्यते|| ७८||
पञ्च पेशीशतानि| तासां चत्वारि शतानि शाख़ासु षष्टिरन्तराधौ| चत्वारिंशदूर्ध्वम्||७९||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
अथ पेश्यः|| ७९||
तत्रैकैकस्मिन् सक्थ्नि पादाङ्गुल्यां प्रत्येकं तिस्रः| ताः पञ्चदश| दश दश प्रपदे पादतले गुल्फे च, तथा पादस्योपरि कूर्चे सन्निविष्टाः| विंशतिर्जङ्ग़ायाम्| पञ्च जानुनि विंशतिरूरौ||८०||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
अङ्गुलीषु पञ्चदश| प्रपदे पादतलस्याग्रभागे दश| तथा पादतले दश| गुल्फे दश| पादस्योपरि दश| ताश्च कूर्चनाम्नि मर्मणि सन्निविष्टाः| विंशतिर्जङ्ग़ायाम्| जानुनि पञ्च| ऊरौ विंशतिरिति शतं सक्थ्नि| तद्वत्तिसृषु शेषासु शाख़ासु|| ८०||
एकैका मेढ्रसेवन्योः| द्वे वृषणयोः| दश स्फिजोः| तिस्रो गुदे, तास्तु वलीसंज्ञाः| द्वे बस्तिशिरसि| चतस्र उदरे| नाभ्यामेका| हृद्यामाशये च| षट् यकृत्प्लीहोण्डुकेषु| पृष्ठे पञ्चोर्ध्वसन्निविष्टाः| दश दीर्ग़ाः पाऱ्श्वयोः| दश वक्षसि| तिस्रोंऽसाक्षकोपरितः||८१||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
अन्तराधौ तु एका मेढ्रे| एका सेवन्याम्| द्वे| दश| गुदे तिस्रो वलीसंज्ञाः| द्वे| चतस्रः| एका| द्वे हृद्यामाशये च साधारणम्| यकृदादिषु त्रिषु षट्| पृष्ठे पञ्च| तास्तु ऊर्ध्वं शिरसः सन्निविष्टाः| दश| दश| अंसाक्षकोपरितस्तिस्र इत्यन्तराधौ षष्टिः| पूर्वैः सह षष्ट्यधिकानि चत्वारि शतानि भवन्ति|
दश ग्रीवायाम्| अष्टौ गण्डयोः| अष्टौ हन्वोः| एकैका गलकाकलजिह्वामूर्धसु| द्वे द्वे तालुललाटयोः| नासौष्ठकर्णेषु च||८२||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
ऊर्ध्वाङ्ग उच्यते-दशाष्टवष्टावेकैकैकैका द्वे-द्वे-द्वे-द्वे-द्वे इति चत्वारिंशत्| काकलं कण्ठमध्यम्| काकलस्याधो नालम्| मूर्धा शिरः| नासायां द्वे| ओष्ठयोः कर्णयोश्च प्रत्येकमेका| इति पुं<सम्< दिव्=""><स्पन् स्त्य्ले="व्हिते-स्पचे:प्रे-लिने; फ़ोन्त्-सिऴे: १३प्त्; फ़ोन्त्-वेइघ्त्:बोळ्; चोलोर्: #००९; बच्क्ग्रोउन्द्: येल्लोव्; तेक्ष्त्-अलिग्न्:चेन्तेर्;" इद्="व्य_त्रन्स्_३५">पुं<सम्< दिव्=""><स्पन् स्त्य्ले="व्हिते-स्पचे:प्रे-लिने; फ़ोन्त्-सिऴे: १३प्त्; फ़ोन्त्-वेइघ्त्:बोळ्; चोलोर्: #००९; बच्क्ग्रोउन्द्: येल्लोव्; तेक्ष्त्-अलिग्न्:चेन्तेर्;" इद्="व्य_त्रन्स्_३५">पुṁ<सम्< दिव्=""><स्पन् स्त्य्ले="व्हिते-स्पचे:प्रे-लिने; फ़ोन्त्-सिऴे: १३प्त्; फ़ोन्त्-वेइघ्त्:बोळ्; चोलोर्: #००९; बच्क्ग्रोउन्द्: येल्लोव्; तेक्ष्त्-अलिग्न्:चेन्तेर्;" इद्="व्य_त्रन्स्_३५"> <दिव् इद्="व्य_त्रन्स्_३६" च्लस्स्="हिद्देन्">पñचप्ēśīśअत्āनि||<स्पन् स्त्य्ले="व्हिते-स्पचे:प्रे-लिने; फ़ोन्त्-सिऴे: १३प्त्; फ़ोन्त्-वेइघ्त्:बोळ्; चोलोर्: #००९; बच्क्ग्रोउन्द्: येल्लोव्; तेक्ष्त्-अलिग्न्:चेन्तेर्;" इद्="व्य_त्रन्स्_३६">पञ्चपेशीशतानि|| <दिव् इद्="व्य_त्रन्स्_३७" च्लस्स्="हिद्देन्">८२||<स्पन् स्त्य्ले="व्हिते-स्पचे:प्रे-लिने; फ़ोन्त्-सिऴे: १३प्त्; फ़ोन्त्-वेइघ्त्:बोळ्; चोलोर्: #००९; बच्क्ग्रोउन्द्: येल्लोव्; तेक्ष्त्-अलिग्न्:चेन्तेर्;" इद्="व्य_त्रन्स्_३७">८२|| <ब्र्><ब्र्> <ह्र् च्लस्स्="दोउब्लेळिने"> <दिव् इद्="व्य_त्रन्स्_३६" च्लस्स्="हिद्देन्">पञ्चपेशीशतानि||<स्पन् स्त्य्ले="व्हिते-स्पचे:प्रे-लिने; फ़ोन्त्-सिऴे: १३प्त्; फ़ोन्त्-वेइघ्त्:बोळ्; चोलोर्: #००९; बच्क्ग्रोउन्द्: येल्लोव्; तेक्ष्त्-अलिग्न्:चेन्तेर्;" इद्="व्य_त्रन्स्_३६"> <दिव् इद्="व्य_त्रन्स्_३७" च्लस्स्="हिद्देन्">८२||<स्पन् स्त्य्ले="व्हिते-स्पचे:प्रे-लिने; फ़ोन्त्-सिऴे: १३प्त्; फ़ोन्त्-वेइघ्त्:बोळ्; चोलोर्: #००९; बच्क्ग्रोउन्द्: येल्लोव्; तेक्ष्त्-अलिग्न्:चेन्तेर्;" इद्="व्य_त्रन्स्_३७"> <ब्र्><ब्र्> <ह्र् च्लस्स्="दोउब्लेळिने"> <दिव् इद्="व्य_त्रन्स्_३६" च्लस्स्="हिद्देन्">पञ्चपेशीशतानि||<स्पन् स्त्य्ले="व्हिते-स्पचे:प्रे-लिने; फ़ोन्त्-सिऴे: १३प्त्; फ़ोन्त्-वेइघ्त्:बोळ्; चोलोर्: #००९; बच्क्ग्रोउन्द्: येल्लोव्; तेक्ष्त्-अलिग्न्:चेन्तेर्;" इद्="व्य_त्रन्स्_३६"> <दिव् इद्="व्य_त्रन्स्_३७" च्लस्स्="हिद्देन्">८२||<स्पन् स्त्य्ले="व्हिते-स्पचे:प्रे-लिने; फ़ोन्त्-सिऴे: १३प्त्; फ़ोन्त्-वेइघ्त्:बोळ्; चोलोर्: #००९; बच्क्ग्रोउन्द्: येल्लोव्; तेक्ष्त्-अलिग्न्:चेन्तेर्;" इद्="व्य_त्रन्स्_३७"> <ब्र्><ब्र्> <ह्र् च्लस्स्="दोउब्लेळिने"> पञ्चपेशीशतानि|| ८२||
स्त्रीणां तु विंशतिरधिक| तत्र दश स्तनयोः| तासां यौवने परिवृद्धिर्भवति| दश योनौ||८३||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स्त्रीणां विंशतिः पेश्योऽधिकाः| तासां मध्याद्दश स्तनयोः| तासां बालभावे सद्भावमात्रम्| यौवने वृद्धिः| योनौ दश|| ८३||
तासामभ्यन्तराश्रिते द्वे| मुख़ाश्रिते वृत्ते द्वे| तिस्रो गर्भमार्गाश्रयाः| यस्यां गर्भस्तिष्ठति| योनिस्तु शङ्ख़नाभ्याकृतिस्त्र्यावर्ता| तस्यास्तृतीय आवर्ते पित्तपक्वाशयान्तरे रोहितमत्स्यमुख़ाकारा गर्भशय्या| तस्यां शुक्रार्त्तवप्रदेशिन्यस्तिस्रः पेश्यः||८४||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
तासां विभागः| द्वे अभ्यन्तरे महास्रोतसि प्रवृत्ते| द्वे योनिमुख़ाश्रये वृत्ताकारे| तिस्रो गर्भमार्गमाश्रिताः| तिस्रश्च गर्भाशयेशुक्रार्त्तवप्रवेशिन्यो गर्भशय्यायां प्रतिबद्धाः| सा च योनौ शङ्ख़नाभ्याकृत्या तृतीय आवर्ते निबद्धा| रोहितमत्स्यमुख़ाकारा गर्भशय्या|| ८४||
ताभिर्हि शरीरे तनुबहलस्थूलाणुपृथुवृत्तह्रस्वदीर्ग़स्थिरमृदुश्लक्ष्णकर्कशाभिः सन्ध्यस्थिसिरास्नाय्वनि प्रच्छदितानि||८५||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
इत्यनन्तरोक्ताभिः पेशीभिस्तनुत्वादिगुणयुक्ताभिः शरीरे सन्ध्यस्थिसिरास्नाय्वनि प्रच्छादितानि|| ८५||
सिराधमनीमुख़ानां त्वणुशे विभज्यमानानामेकोनत्रिंशच्छतसहस्राणि नव च शतानि षट्पञ्चाशतानि भवन्ति| ताभिरिदं शरीरं गवाक्षितं पिनद्धमाततञ्च| तावन्ति च केशश्मश्रुलोमानि||८६||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
सिराः नातिस्थूला रज्ज्वाकार अन्तस्सुषिरा वातादिवहाः| धमन्यस्तद्विशेषा एव वक्ष्यमाणलक्षणाः| ताभिः शरीरं गवाक्षितं जालवत् पिनद्धं बद्धं यन्त्ररज्जुवदाततं विस्तारितं पटतन्तुवत्| केशादीनि च तावन्त्येव|| ८६||
तासां हि मुख़ानि तत्प्रतिबद्धान्यतस्तानि ताभिराप्याय्यन्ते| तैश्च ताः स्वदेमभिवहन्ति| तथाऽभ्यङ्गलेपादिवीर्य्यं त्वचि विपक्वमन्तर्नयन्ति स्पर्शञ्च गृह्णन्ति||८७||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
अणुशो विभज्यमानानां सूक्ष्मैर्भागैः क्रमेण विभागं गच्छन्तीनां तासां सिराधमनीनां मुख़ानि सर्वत्र प्रसृतानि तत्प्रतिबद्धानि केशाद्यनुबद्धादि| अतो हेतोस्तानि केशादीनि ताभिः सिराधमनीभिराप्याय्यन्ते| तैश्च केशाद्यनुबद्धैर्मुख़ैरेताः स्वेदमभिवहन्त्यभ्यङ्गादि वीर्यं त्वचि विपक्वं सदन्तर्नयन्ति| स्पर्शं गृह्णन्ति||८७||
स्रोतांसि पुनरसङ्ख़्येयान्येव| तथापि तु सिरादीनि यथास्थूलं यथोपयोगं चान्यत्रोपदेक्ष्यन्ते||८८||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स्रोतांसि मार्गाः यैरन्नसारो धातुतां याति| सौक्ष्म्यात् प्रतानवत्त्वाच्चापरिसङ्ख़्येयानि सिरादीनि| सिराधमनीस्रोतांस्यसङ्ख़्यान्यपि यथाप्रधानं यथोपयोगं च यानि प्रधानानि, यानि चिकित्सार्थमुपयुज्यन्ते तान्यन्यत्र सिराविभागादावुपदेक्ष्यन्ते|| ८८||
इत्येवं परिसङ्ख़्याताः शरीरे मूर्तिमन्तः स्थिरा भावाः||१||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
इति शरीरे मूर्त्ताः कठिनाः स्पर्शनेन्द्रियाधिगम्या भावास्त्वगादयः परिसङ्ख़्याता यथोक्तेन भेदेन|| ८९||
द्रवास्तु यत्तदतियोगेन च्यवमानं पुरीषमनुबध्नाति| तथा मूत्रं रुधिरमन्यांश्च शरीरे धातून्| यच्च सर्वशरीरगतं बाह्या त्वग्विभर्ति| यच्च त्वगन्तरे व्रणगतं लसीकाशब्दवाच्यम्| यच्चोष्मानुबद्धं रोमकूपेभ्योऽभिनिष्पतत्स्वेदवाच्यम्| तदुदकम्||९०||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
द्रवास्तु भवन्तीति शेषः| ते चोदकमूत्रादयः| तत्रोदकं देहे यत् कर्त्तृकर्मभूतमतियोगेन च्यवमानं पुरीषमनुबध्नाति| तत्प्रसादाद्ध्यतीसारे वेगानां गतसङ्ख़्यत्वम्| तथातियोगेन च्यवमानं मूत्रप्रमेहे| रक्तपित्ते च रुधिरमिति| अन्यांश्च शरीरे धातून् पित्तश्लेष्मादीनतियोगेन प्रवर्तमानाननुबध्नाति| तदुदकमिति सम्बन्धः| सुबोधम्|| ९०||
तस्याद्यस्य चाहारसारस्य रसाख़्यस्य रक्तस्य शकृतः श्लेष्मणः पित्तस्य मूत्रस्य वसायाः मेदसो मज्ज्ञश्च स्वेन स्वेनाञ्जलिप्रमाणेन यथापूर्वमेकादिसङ्ख़्याप्रवृद्धिः|१|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
तस्येत्युदकस्य रसाख़्यस्याद्याहारसारस्य च रक्तादीनां च मज्जान्तानामष्टानां स्वेनस्वेनाञ्जलिप्रमाणेन यथापूर्वमेकादिसङ्ख़्याप्रवृद्धिर्विज्ञेया| स्वेनस्वेनेत्यञ्जलिप्रमाणेकान्त्यस्यैनाञ्जलित्वम्| तत्पूर्वाणां क्रमेणैकैकाञ्जलिवृद्धिः| मज्जा एकोऽञ्जलिः द्व्यञ्जलिर्मेदः| वसा त्र्यञ्जलि| यावदुदकस्य दशाञ्जलयो देहे|| ९१||
अर्द्धाञ्जलिः शुक्रस्य||१||
🔊 Audio coming soon
तावदेव मस्तिष्कमोजश्च||९२||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
ओजश्शुक्रमस्तिष्काणि प्रत्येकं स्वेनाञ्जलिप्रमाणेनार्धाञ्जलानि| सुबोधम्|| ९२||
स्त्रीणां रजसोऽञ्जलयश्चत्वारः| स्तन्यस्य द्वौ| उभयमपि चैतद्रसप्रसादात्मकमिति| समधातोः परिमाणमिदम्| अतो वृद्धिक्षयौ यथास्वं लक्षणैर्विभावयेदपरांश्चापरिसङ्ख़्यातान्मूर्तोमूर्तान् भावान्| तद्यथा-मांसकर्णादिमलान् वायुबुद्धिस्मृत्यादींश्च||९३||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
उभयं रजः स्तन्यलक्षणं रसस्य धातोः प्रसादात् सम्भवति| इदं यथोक्तं परिमाणं समधातोर्नीरुजो विज्ञेयम्| अन्यस्य त्वेतेषां वृद्धिक्षयौ दोषभेदीयप्रदर्शितैर्यथास्वं लक्षणैर्विभावयेत्| अपरांश्च मूर्त्तान् मांसकर्णमलादीन् अमूर्त्तांश्च वायुबुद्धिस्मृत्यादीन् भावान्यथास्वं लक्षणैर्विभावयेदिति सम्बन्धः|| ९३||
धान्वन्तरीयाः पुनः पठन्ति| विलक्षणानि हि शरीराणि नित्यमेव च चला दोषधातुमलाः| तस्मादुदकादीनामपि समत्वं मांसादिवत् परिमाणतो निर्देष्टुमशक्यम्| केवलं स्वास्थ्यमात्रेणानुमानतो लक्षयेत् इति||९४||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
धान्वन्तरीयाः सौश्रुताः| सुबोधम्| दोषादीनामव्यवस्थितरूपत्वाद् दुर्ज्ञानं प्रमाणम्| केवलं स्वास्थ्यमात्रेणानुमानात् लक्षयेदिति|| ९४||
सर्व एव त्ववयवाः परमाणुभेदेनातिसौक्ष्म्यादसङ्ख़्येयतां यान्ति||९५||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
इदं च विज्ञेयम्| स्थूलया दृष्ट्या अङ्गप्रत्यङ्गानां सङ्ख़्यादिकमुक्तम्| सर्व एवावयवाः परमाणुभेदेन त्वतिसौक्ष्म्याद्धेतोरसङ्ख़्येयतां यान्ति| ते च परमाणवः प्रतिक्षणं सजातीयविजातीयसंयोगविभागाभ्यां शरीरभावेन वर्त्तते| अन्यथा यो व बाल आसीत् स एव युक्त्वं प्रतिपन्न इत्येकस्यापि नानात्वायोगात्|| ९५||
तेषां संयोगविभागे परमाणूनां कर्मप्रेरितो वायुः कारणम्||९६||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
तेषां परमाणूनां संयोगविभागे दैवपौरुषकर्मप्रेरितो वायुः तत्क्रियत्वात् कारणम्| ग्रन्थविस्तरभयाद्वातस्योत्पत्तिर्न दर्श्यते| केवलमेतावद्विज्ञेयम्| कर्मचोदितवायुवशात् संयुक्ताः परमाणवः कार्य्यद्रव्यमारभन्ते द्व्यणुकादिक्रमेण| वायुकारणादेव च परमाणूनां विभागात् संयोगविनाशेन कार्यद्रव्यविशेषः|| ९६||
तदेतदङ्गमभेदेन भेदतश्च गृह्यमाणं बन्धाय मोक्षाय च भवतीति||९७||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
अत उपसंहरति-तदेतदनुक्रान्तरूपमङ्गं शरीरमभेदेनैकत्वेन ग्राह्यमाणं रामणीयकादुपादेयत्वेन बन्धाय जन्ममरणप्रवृत्तिपरम्पराप्रवृत्तये भवति| तदेवानन्तरोक्तेन प्रकारेण भेदेन ग्राह्यामाणं निस्सारं जुगुप्सितवास्तुसमारब्धत्वेन हेतुना मोक्षाय रागादिनिमित्तक्रियाकलापपरिहाराद्भवति|| ९७||
भवति चात्र- इति सर्वावयशो यो जानाति कलेवरम्| अहितेषु स मोहेन न कदाचित् प्रवर्तते||९८||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृतौ अष्टाङ्गसंग्रहसंहितायां शारीरस्थानेऽङ्ग- विभागो नाम पञ्चमोऽध्यायः भवति चात्रेति श्लोकेनोपसंहारे तन्त्ररीतिः| इत्यनेन प्रकारेण सर्वावयवशः सर्वमवयवं यः पुरुषः कलेवरं शरीरे जानाति सोऽहितेषु उभयलोकविरुद्धेषु मोहान्न प्रवर्त्तते| गृहीतवस्तुतत्त्वः- सन्निहितानि परित्यज्य हितेष्वेव प्रवर्त्तते इत्यर्थः|| ९८|| इति श्रीमन्महामहोपाध्यायेन्दुविरचितायाम् अष्टाङ्गसंग्रहव्याख़्यायां शशिलेख़ायां शारीरस्थाने पञ्चमोऽध्यायः
अथातः सिराविभागमध्यायं व्याख़्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः||१||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
पूर्वाध्याये शरीरावयवभेदे स्वल्पव्यक्तत्वात् सिरादिर्निर्णीतशेषस्तत्रापि सिराणां प्राधान्यान्निर्णयार्थमध्यायारम्भः|| १||
दशमूलसिरा हृदयप्रतिबद्धाः सर्वाङ्गप्रत्यङ्गेष्वोजो नयन्ति| तत्प्रतिबद्धा हि शरीरचेष्टा||२||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
दशमूलसिरा इत्यादि| मूलसिराः प्रधानसिराः| ततो हि सर्वाः सिराः भवन्ति| ता अङ्गेषु प्रत्यङ्गेषु चौजो नयन्ति|| २||
तास्तु द्व्यङ्गुलमङ्गुलमर्धाङ्गुलं यवं यवार्धञ्च गत्वा द्रुमपत्रसेवनीप्रतावनद्भिद्यमानाः सप्तशतानि भवन्ति||३||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
ताः प्रभिद्यमानाः द्रुमपत्ररेख़ाप्रतानवत् सप्तशतानि सिराणां भवन्ति| तेनैतदुक्तं भवति-ता हृदयप्रतिबद्धा दश सिरा हृदयाद्व्यङ्गुलं गत्वा प्रथमं प्रतानं मुञ्चन्ति| तत अङ्गुलं गत्वा द्वितीयम्| तत अर्धमङ्गुलं गत्वा तृतीयम्| ततो यवं गत्वा चतुर्थम्| ततोऽपि यवार्धं गत्वा पञ्चममिति| ततो न भिद्यन्ते| सर्वेषु चैवं भिद्यमाना इति योज्यं यावद्भेदोऽस्ति| सप्तशतानि प्रतानानां दीर्ग़ाणां भवन्ति|| ३||
तासां चतुःशती शाकासु| तत्र षोडशाब्यधनीयाः||४||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
ताभ्यश्चत्वारि शतानि चतसृषु शाकासु| तत्रेति चतुश्शत्यां षोडशा व्यधनीयाः|| ४||
षट्त्रिंशं शतमन्तराधौ| तत्र द्वात्रिंशत्||५||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
अन्तराधौ तु षट्त्रिंशत् शतम्| तत्र द्वात्रिंशदव्यधनीया इति सम्बन्धः|| ५||
चतुष्षष्ट्यधिकं शतमुर्ध्वम्| तत्रापि पञ्चाशत्||२||
🔊 Audio coming soon
तासामेकैकस्मिन् सक्थ्नि शतम्| तत्र न विध्येज्जालन्धराम्| तिस्रश्चाभ्यन्तरगताः||६||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
तत्र षोडश शाख़ासु चतसृष्ववधनीया उक्तास्तत्रैका पूर्वोक्तजालन्धरा तिस्रश्चाभ्यन्तरसमाश्रया अवेध्याः|| ६||
द्वात्रिंशच्छ्रोण्या गुदमेढ्राश्रयाः| तासां द्वे द्वे वङ्क्षणयोः कटीकतरुणयोश्चेत्यष्टौ शस्त्रतो रक्षेत्|२|
🔊 Audio coming soon
चतुर्विंशतिः पृष्ठे| तासां पृष्ठवंशमुभयतो द्वे द्वे ऊर्ध्व- गामिन्यौ ताश्चतस्रः|२|
🔊 Audio coming soon
चतुर्विंशतिरुदरे| तांसां मेढ्रस्योपरि रोमराजीमुभयतो द्वे द्वे ता अपि चतस्रः||२||
🔊 Audio coming soon
चत्वारिंशद्वक्षसि| तासां द्वे हृदये| द्वे च स्तनमूलस्तनरोहितेषु| एकैकापस्तम्भापालेष्विति| ताश्चतुर्दश||७||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
आग्रीवामुलादाऽऽचोरुसन्धेरन्तराधिः| तत्र षट्त्रिंशच्छतं सिराणाम्| तद्यथा-द्वात्रिंशत् श्रोण्याम्| पार्श्वयोर्द्वयोः षोडश| पृष्ठे चतुर्विंशतिः| उरसि चत्वारिंशत्| इति षट्त्रिंशच्छतमन्तराधौ सिराणाम्| 'तत्र द्वात्रिंशदव्यधनीयाः' इति यदुक्तं तत्प्रदर्श्यते-अष्टौ श्रोण्याम्| वङ्क्षण उभयत्र चतस्रः| कटीकतरुणाख़्ययोर्मर्मणोश्चतस्र इत्यष्टौ| पार्श्वयोर्द्वौ| द्वयोः पार्श्वयोरेकैकामूर्ध्वगाम्| पृष्ठे चतस्रः| पृष्ठवंशस्यैकस्मिन् पार्श्वे ऊर्ध्वगामिन्यौ द्वे| अपरस्मिंश्च द्वे इति| जठरे चतस्रः रोमराज्याः पार्श्वयोर्द्वयोर्द्वे-द्वे इति| उरसि चतुर्दश| तत्र द्वे हृदये| द्वे-द्वे द्वयोः स्तनमूलयोः| इति चतस्रः| स्तनरोहितयोश्चतस्रः| अपस्तम्भयोरेकैका| तथाऽऽपालापयोरपि| एवं द्वात्रिंशदन्तराधावव्यधनीयाः|| ७||
चतुर्विंशतिर्ग्रीवायाम्| तासां चतस्रोऽष्टौ च मर्मसंज्ञाः| द्वे कृकाटिकयोः| द्वे विधुरयोरिति षोडश शस्त्रेण न स्पृशेत्||४||
🔊 Audio coming soon
हन्वोः षोडश तासां सन्धिसम्बन्धिन्यौ द्वे||१||
🔊 Audio coming soon
षोडश जिह्वायाम्| तासामधो द्वे रसवेदिन्यौ| द्वे वावाक्प्रवर्त्तिन्यौ| ताश्चतस्रः||४||
🔊 Audio coming soon
षट्पञ्चाशन्नेत्रयोः| तयोरुन्मेषनिमेषक्रिये द्वे-द्वे| द्वे चापाङ्गयोरिति षट्| नासानेत्रगतास्तु ललाटे षष्टिः| तासां केशान्तानुगताश्चतस्रः| द्वे चाऽऽवर्तयोः| एका च स्थपन्यामिति सप्त||७||
🔊 Audio coming soon
कर्णयोः षोडश| तासां शब्दवाहिन्यौ द्वे| त एव च शङ्ख़योस्तासां शङ्ख़सन्धिगते द्वे||३||
🔊 Audio coming soon
द्वादश मूर्धनि| तासामुत्क्षेपयोर्द्वे| सीमन्तेष्वेकैकामेकामधिपतावित्यष्टौ शस्त्रेण परिहरेत्| तथाक्षुद्रिकाः कुटिलाः सङ्कीर्णाः ग्रन्थिताः सन्धिषु चाशस्त्रकृत्याः||४||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
चतुष्षट्यधिकं शतमुर्ध्वं शिरसि सिराणामिति यदुक्तं तद्विभजते-ग्रीवायां चतुर्विंशतिः हन्वोर्द्वयोः षोडश| षोडश जिह्वायाम्| नासायां चतुर्विंशतिः नेत्रयोः षट्पञ्चाशत्| ललाटे षष्टिर्नासानेत्राश्रितास्ताभ्योऽनन्या अतो न गण्यन्ते| कर्णयोर्द्वयोः षोडश सिरास्ता एव शङ्ख़ाश्रिता अतस्तत्रस्था न गण्यन्ते| मूर्ध्नि द्वादशेति चतुष्षष्ट्यधिकं शतम्| अत्र 'पञ्चाशदव्यधनीयाः' इति यदुक्तं तदुच्यते-ग्रीवायां षोडश| चतस्रो मर्मसंज्ञाः| द्वे नीले द्वे मन्ये इति चतस्रः| अष्टौ मर्मसंज्ञाः मातृका इति वक्ष्यमाणाः| द्वे द्वयोः कृकाटिकयोः| द्वे च विधुरयोरिति षोडश| हन्वोर्द्वयोः| द्वे हनुसन्धिबन्धनकर्मणी| जिह्वायां चतस्रः| द्वे रसबोधने जिह्वाया अधस्तया द्वे वाक्प्रवर्त्तिन्यौ इति चतस्रः नासायां तिस्रो यत्र द्वे गन्धवेदिन्यावेका च तालुनीति तिस्रः| नेत्रयोः षट्| निमेषे द्वे| उन्मेषे द्वे| अपाङ्गयोर्द्वे इति षट्| ललाटे सप्त| केशान्तगाश्चतस्रः| आवर्त्तकाख़्ययोर्मर्मणोर्द्वे| एका च भ्रूमध्यभवे स्थपन्याख़्यमर्मणि इति सप्त| कर्णयोश्चतस्रः| द्वे शब्दवाहिन्यौ| शङ्ख़योस्तत्सन्धिगते द्वे इति चतस्रः| केशान्तेऽष्टौ | द्वयो रुत्क्षेपयोर्द्वे| सीमन्तेषु पञ्च| अधिपतौ रोमावर्त्तमर्मण्येका इत्यष्टौ| एवं शिरसि पञ्चाशदवेध्याः| केवलमेता एवावेध्याः| यावत् क्षुद्रिकाः अतिसूक्ष्माः| कुटिला अनृजुगामिन्यः| सङ्कीर्णाः बहुभिरनभिव्यक्ताः ग्रथिताः सङ्कोचेन ग्रन्थिरूपाः| तथा सन्धिषु कूर्परादिष्वाश्रिताः|| ८||
तासां यथास्वं तुर्यांशविभागेन पञ्चसप्तत्यधिकं शतमनिलरक्तं वहति| एष विभागः पित्तश्लेष्मशुद्धरक्तेष्वपि| स्थिता ह्येवं देहमनुगृह्णन्ति दोषाः| व्यत्ययेन तु पीडयन्ति||९||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
तासां च सप्तानां शतानां यथास्वं शङ्ख़ादिगतसिराणां चतुर्थेन विभागेन प्रत्येकं पञ्चसप्तत्यधिकं वातादिमिश्रं रक्तं शुद्धं च वहति| तेन पञ्चसप्तत्यधिकं शतं सिराणां वातरक्तं वहति| तद्वत् पित्तरक्तम्, श्लेष्मरक्तम्, शुद्धरक्तञ्च| एवमनेन सिरावहननियमेन व्यवस्थिता दोषाः शरीरमनुगृह्णन्ति| एतद्विपर्य्यये पीडयन्ति|| ९||
तत्र श्यावारुणाः प्रस्पन्दिन्यः सूक्ष्माः क्षणपूर्णरिक्ता वातरक्तं वहन्ति|१|
🔊 Audio coming soon
नीलपीतासिताः स्पर्शोष्णाः क्षिप्रस्राविण्यः पित्तरक्तम्|१|
🔊 Audio coming soon
गौर्य्यः स्निग्धाः स्थिराः शीतः कण्डूमत्यः कफरक्तम्|१|
🔊 Audio coming soon
लक्षणसङ्करे संसर्गसन्निपातरक्तम्||१||
🔊 Audio coming soon
समागूढाः स्निग्धाः रोहिण्यः शुद्धरक्तमिति||१०||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
ननु कथमेतद् ज्ञायत इमाः सिरा इदं वहन्तीत्याह-तत्रेत्यादि| सुबोधम्| क्षणेन पूर्णाः आध्माताः क्षणेन च रिक्ताः क्षिप्रं शीग़्रमेव वहन्ति स्रवन्ति| संसर्गे किं लक्षणमित्याह-अत्र तु यदि दोषान्तरेण संसृष्टो भवति तदा यथास्वं लक्षणानां सङ्करो विज्ञेयः| रोहिण्यो लोहिताः| इति सिरा उक्ताः|| १०||
धमन्यस्तु चतुर्विंशतिः||११||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
क्रमप्राप्ता धमन्यः उच्यन्ते-धमन्यो विशिष्टाः सिरा एव| ताश्च सङ्ख़्यया चतुर्विंशतिः|
ताभिः कायोऽयमाराम इव जलहारिणीभिः केदार इव कुल्याभिरुपस्निह्यति||१||
🔊 Audio coming soon
ताभिश्च नाभिश्चक्रनाभिरारकैरिवावृता||१२||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
यथा आरामो जलहारिणीभिः केदारः कुल्याभिराप्याय्यते तद्वत्ताभिर्नाभिप्रतिबद्धाभिः काय आप्याय्यते| चक्रस्य नाभिरक्षः| आरास्तन्निबद्धानि काष्ठानि सुबोधम्|| १२||
तस्यां नाभ्यां विशेषेण प्राणा व्यवस्थिताः| यतश्च साऽन्तरग्न्यधिष्ठानम्|१३|
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
यतश्च सा नाभिरन्तरग्नेरधिष्ठानमतोऽपि तस्या विशेषेण प्राणा व्यवस्थिताः|| १३||
तस्यां नाभ्यां विशेषेण प्राणा व्यवस्थिताः| यतश्च साऽन्तरग्न्यधिष्ठानम्||१३||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
यतश्च सा नाभिरन्तरग्नेरधिष्ठानमतोऽपि तस्या विशेषेण प्राणा व्यवस्थिताः|| १३||
तासां ख़लु धमनीनां दशोर्ध्वं प्रसृता दशाधश्चतस्रस्तिर्य्यक्| ततस्ताभिर्यथास्वमङ्गावयवा धार्य्यन्ते आपयाय्यन्ते च||१४||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
तासां च नाभिप्रतिबद्धानां मध्याद्दश धमन्यः ऊर्ध्वमुपरि कायं गताः| दशाधः प्रसूताः| तिर्य्यक् चतस्रः|
तासामूर्ध्वगा हृदयमभिप्रपन्नाः प्रत्येकं त्रिधा जायन्ते| ततस्त्रिंशतो मध्ये द्वे द्वे वातपित्तकफरक्तरसान् वहतः| अष्टाभिः शब्दरूपरसगन्धा गृह्यन्ते| द्वाभ्यां द्वाभ्यां भाषते ग़ोषं करोति स्वपिति प्रतिबुध्यते च| द्वे चाश्रु वहतः| द्वे च स्तनाश्रिते| नार्याः स्तन्यं नरस्य शुक्रम्||१५||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
ताश्च दश हृदयं प्राप्य प्रत्येकं त्रिधा भिन्नाः त्रिंशत् सम्पन्नाः| तस्याश्च त्रिंशतो द्वे-द्वे वातादीन् पञ्च वहतः| एवं ता दश| शब्दादींश्चतुरः| अष्टाभिः पुरुषो गृह्णीते| ताभिर्हि चित्तस्थानं शब्दादीनि यान्ति| भाषणादिक्रियाचतुष्टयं द्वाभ्यां द्वाभ्यां करोति| एवं ता अष्टौ| ग़ोषः शब्दो व्यक्तः| द्वे अश्रुवहतः| द्वे च स्तनाश्रिते नार्य्याः स्तन्यं वहतः| नरस्य तु त एव शुक्रम्| एवं त्रिंशत्|| १५||
अधोगमाः पक्वाशयस्था एवं त्रिधा जायन्ते| तत्र दशाद्याः पूर्ववत्| द्वे वहतोऽन्नं मात्राश्रयेण| द्वे तोयम्| द्वे मूत्रम्| द्वे शुक्रम् वहतो द्वे च मुञ्चतः| त एव नारीणामार्त्तवम्| द्वे वर्चोनिरसिन्यौ स्थूलान्त्रप्रतिबद्धे| एवं द्वादश| शेषा- स्त्वष्टौ धमन्यस्तिरश्चीनाः स्वेदमभितर्पयन्ति||१६||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
यास्तु नाभेरधोगमा दश धमन्यस्ताः पक्वाशय एवं त्रिंशद्भवन्ति| तस्याश्च त्रिंशतो दश पुर्ववत्| द्वे-द्वे पञ्च वातादीन् वहत इत्यर्थः| द्वे मात्राश्रयेणान्नं वहतः| मात्राग्रहणमाधिक्यप्रतिषेधप्रदर्शनार्थम्| द्वे तोयं द्वे मूत्रं वहतः| द्वे पुरुषस्य शुक्रं देहे वहतः| द्वे च शुक्रं बहिर्मुञ्चतः| य एव पुरुषस्य शुक्रं त एव स्त्रिया रक्तम्| इति चतस्रः| द्वे च स्थूलान्त्रप्रतिबद्धे वर्चोनिरसनकर्मणी| अष्टौ शेषा या अधोगमा अपि मनाक् तिर्य्यग्गतास्ताः स्वेदमभितर्पयन्ति| एवं नाभेरधस्त्रिंशत्|| १६||
तिर्यग्गामिन्यश्चतस्रो भिद्यमानाः सुबहुधा भवन्तीत्युक्तं प्राक्||१७||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
तिर्य्यग्गामिन्यश्चतस्रो या नाभेः पार्श्वाभ्यां द्वे-द्वे वर्त्तन्ते| ता भिद्यमानाः सत्यो बहुधा भवन्ति| एतच्चोक्तं प्रागङ्गविभागे| ताभिरिदं प्रकरणम्| इति धमन्य उक्ताः|| १७||
स्रोतांसि पुंसां नव कर्णौ नेत्रे नासापुटौ मुख़ं पायुर्मूत्रपथः||१८||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
क्रमप्राप्तानि स्रोतांस्युच्यन्ते| स्रोतांसि छिद्राणि पुंसां नव-द्वे द्वे द्वे, एकमेकमेकमिति च| इति स्त्री-पुंसयोः साधारणानि|| १८||
अन्यानि च त्रीणि स्त्रीणां स्तनौ रक्तपथश्च||१९||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स्त्रीणां तु त्रीण्यधिकानि द्वे स्तनस्रोतसी एकं च रजःपथ इति बाह्यानि स्रोतांसि|| १९||
तथाऽपराण्यन्तस्स्रोतांसि जीवितायतनानि त्रयोदश प्राणोदकान्नधातुमलानामयनानि||२०||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
आन्तराणि त्रयोदश जीविगस्यायतनानि स्थानानि| प्राणादीनां पञ्चानामायतनानि मार्गाः|| २०||
तत्र प्राणवाहिनां हृदयं मूलं महास्रोतश्च||२१||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
तत्रेति निर्धारणे| प्राणवाहिनां हृदयं मूलं महास्रोतश्च|| २१||
तानि धातुक्षयरौक्ष्यपिपासाक्षुद्व्यायामवेगधारणादिभिर्दुष्यन्ति||२२||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
तानि च धातुक्षयादिभिर्दुष्यन्ति|| २२||
ततोऽतिसृष्टं प्रतिबद्धमल्पाल्पमभीक्ष्णं वा सशब्दशूलमुच्छ्वसनम्| तत्र श्वासवत्साधनम्||२३||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
ततः कारणादतिसृष्टं वाति बद्धं वोच्छ्वसनं भवति| श्वासस्यैकत्वाद्विसर्गे दीर्ग़श्च भवति| अल्पाल्पं स्तोकमुच्छ्वसनम्| अभीक्ष्णं वाऽत्यर्थम्| तत्र दुष्टेषु प्राणवाहिषु स्रोतस्सु श्वासोक्तं चिकित्सितम्|| २३||
उदकवाहिनां तालु मूलं क्लोम च|१|
🔊 Audio coming soon
तान्यामभयातिपानोष्णशुष्कान्नकषायतृणनिग्रहादिभिर्दुष्यन्ति||१||
🔊 Audio coming soon
ततोऽतितृष्णा मुख़शोषः कर्णक्ष्वेडनं तमोदर्शनञ्च| दुष्टोदकवहस्रोतस्सु चिकित्सा||२||
🔊 Audio coming soon
तत्र तृष्णोक्तमौषधम्||२४||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
उदकवाहिनां स्रोतसां तालुक्लोमनी मूलम्| तेषामामेन भयादिभिर्दूषणम्| दुष्स्टत्वाच्चातितृष्णादि उत्पत्तिः| तत्र तृष्णोक्ता चिकित्सा| अतिपानं मद्यस्य| उष्णशुष्काभ्यामन्नस्य सम्बन्धः| तृण्निग्रहस्तृष्णावेगनिरोधः| आदिग्रहणेनैवं प्रकारणामन्येषामप्याचारकोपशोषकराणामाहारविहारादीनां ग्रहणम्| क्ष्वेलनं नादः| तमस इव दर्शनं तमोदर्शनमप्रतिपत्तिः|| २४||
अन्नवाहिनामामाशयो मूलं वामपार्श्वञ्च||१||
🔊 Audio coming soon
तेषां दुष्टौ सर्वं मात्राशितीयोक्तमवगच्छेत्||२५||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
अन्नवाहिनां स्रोतसां दुष्टत्वे हेतुं कार्य्यं प्रतीकारं च सर्वं ज्ञातुं मात्राशितीयमध्यायमवगच्छेत्| तेनैतदुक्तं भवति-अन्नवाहिनामतिमात्रसमशनादीनि दूषणानि| दुष्टत्वे विषूचिकाद्युत्पत्ति| वमनादिका चिकित्सा| शेषं सुबोधम्| मूलमाश्रयः| उपकारापकारद्वारमित्यर्थः| एवं प्राणोदकान्नसप्तधातुमूत्रशकृत् स्वेदभेदेन त्रयोदशविधानि स्रोतांसि| तत्र प्राणोदकान्नवाहिनां दुष्टौ हेतुलक्षणौषधान्युक्तानि|| २५||
रसवाहिनां हृदयं मूलं दश धमन्यश्च|१|
🔊 Audio coming soon
रक्तवाहिनां यकृत् प्लीहा च|१|
🔊 Audio coming soon
मांसवाहिनां स्नायूनि त्वक् च|१|
🔊 Audio coming soon
मेदोवाहिनां वृक्कौ मांसं च|१|
🔊 Audio coming soon
अस्थिवाहिनां जग़नं मेदश्च|१|
🔊 Audio coming soon
मज्जवाहिनां पर्वाण्यस्थीनि च|१|
🔊 Audio coming soon
शुक्रवाहिनां स्तनौ मुष्कौ मज्जा च|१|
🔊 Audio coming soon
मूत्रवाहिनां बस्तिर्वङ्क्षैणा च|१|
🔊 Audio coming soon
शकृद्वाहिनां पक्वाशयः स्थूलान्त्रं च|१|
🔊 Audio coming soon
स्वेदवाहिनां मेदो रोमकूपाश्च||१||
🔊 Audio coming soon
तेषां दूषणं विविधमहिताहारविहारमुपद्रवान् पृथक्पृथक् साधनं दोषादिविज्ञानीयाद्यथास्वं वृद्धिक्षयलक्षणेन लक्षयेत्||२६||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
तेषां रसवाह्यादीनां स्रोतसां नानाप्रकारमहिताहारविहारं दूषणम्| तच्च तीक्ष्णमतिना परिकल्पनीयम्| दुष्टानामुपद्रवा व्याधयः तच्चिकित्सा च दोषादिविज्ञानीयोक्तेन 'रसोऽपि श्लेष्मवत्' इत्यादिना वृद्धिक्षयलक्षणेन लक्षयेत्| तेनैतदुक्तं भवति-आहारादि विशेषवशाद्रसवाहिषु दुष्टेषु कदाचिद्रसवृद्धिजा रोगास्तत्र यथास्वं चिकित्सेति| एवं सर्वत्रापि वाच्यम्|| २६||
व्यधे तु स्रोतसां भ्रममोहकम्पप्रलापाध्मानशूलाऽरुचितृट्छर्दिज्वरातिरुधिरस्रुतिमूत्रपुरीषरोधा मरणञ्च||२७||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
अनन्तरोक्तानां च स्रोतसां व्यधे शस्त्रादिताडने जन्तोर्भ्रमाद्युद्भवः|| २७||
तस्मात्स्रोतोविद्धं प्रत्याख़्यायोपचरेत्||२८||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
तस्माद्वैद्यः स्रोतोविद्धं चिकित्सायां प्रत्याख़्यानं कृत्वा असाध्यतामुक्त्वा दैवात्किञ्चिद्भवेदिति शास्त्रानुगमनेनोपाचरेत्|| २८||
उद्धृतशल्यं च सद्योव्रणविधानेन||२९||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
अन्तःशल्यं च स्रोतोविद्धं शल्यमुद्धृत्योपाचरेदिति सम्बन्धः| केनेत्याह-वक्ष्यमाणेन सद्योव्रणविधानेन|| २९||
तत्र स्रोतसामेव विशेषाः सिराधमन्यः||३०||
🔊 Audio coming soon
अन्ये त्वन्यत्वमिच्छन्ति सिराधमनीस्रोतसाम्| केवलं परस्परसन्निकर्षात् सदृशकर्मत्वात् सौक्ष्म्याच्च विभक्तकर्मणामप्यविभाग इव लक्ष्यते||३१||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
अन्ये त्वाचार्य्याः सिरादीनां पृथक्त्वमिच्छन्त्येवं च ब्रुवते यत् सिरादीनां परस्परविलक्षणानामविभाग इव लक्ष्यते| तत् केवलं परस्परसन्निकर्षादिना हेतुत्रितयेन| सदृशं कर्म वाहकत्वं येषां ते तथोक्ताः| सौक्ष्म्यं सूक्ष्मता|| ३१||
अपरे पुनराहुः-स्रोतांसि सिराधमन्यो रसवाहिन्यो नाड्यः पन्थानोऽयनानि मार्गाः शरीरच्छिद्राणि संवृ तासंवृतानि स्थानान्याशयाः क्षया निकेताश्चेति शरीरे धात्ववकाशानां लक्ष्यालक्ष्याणां नामानीति||३२||
🔊 Audio coming soon
ते चावकाशाः प्रकुपिताः स्थानस्थान् मार्गस्थांश्च धातून् प्रकोपयन्ति| तेऽपि कुपितास्तानि स्रोतांसि स्रोतांसि च स्रोतांसि| धातवश्च धातून्||३||
🔊 Audio coming soon
तेषां सर्वेषामेव दूषयितारो दुष्टा दोषाः|१|
🔊 Audio coming soon
ते च प्रायशो दुष्यन्त्यग्निदोषात्|१|
🔊 Audio coming soon
तस्मात्तन्निमित्तान्यायुरारोग्यबलोपचयवर्णौजांसि|१|
🔊 Audio coming soon
तत्प्रतिबद्धान्येव च रञ्जकादीनि भूताग्नयो धात्वग्नयश्च||१||
🔊 Audio coming soon
तथाऽन्नमपि पित्तेनैव पक्वममृततां यात्यपक्वं च विषताम्||३३||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
स्रोतोदुष्ट्या धातुदूषणं धातुदुष्ट्या स्रोतोदूषणं चाह-त इत्यादिना| प्रकुपिता दुष्टाः स्थानमाशयस्तत्र तिष्ठन्तीति स्थानस्थाः| स्रोतांसि च स्रोतांसीति यानि स्रोतांसि दुष्टानि भवन्ति तान्यन्यान्यपि दूषयन्ति| एवं धातूनामपि वाच्यम्| तेषां सर्वेषां धातूनां धात्वाशयानां च दुष्टान् वातादीनन्तरेण नान्यद् दुष्टौ कारणम् | दोषाणां दुष्टिरपि प्रायोऽग्निदोषात्| अन्यत् सुबोधम्|| ३३||
तत्र पित्तविशेषः पाचकसंज्ञोऽग्निरिति प्रागभिहितः||१||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
तत्रेत्यादिना पाचकसंज्ञमग्निं प्रस्तौति| प्राग्दोषभेदीये पाचकसंज्ञः पित्तभेदोऽन्नस्य पक्ताग्निरित्युक्तवानसावाचार्य्यः|| ३४||
अन्ये पुनराचक्षते-दोषधातुमलसन्निपातजनितोऽन्तरुष्मा यथानिर्दिष्टाधिष्ठानकर्माग्निरिति||३५||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
अन्ये पुनराचार्य्याः पित्तमग्निरिति नेच्छन्ति| दोषादिसंयोगविशेषजनितोऽन्तश्शरीर उष्माग्रहाण्यधिष्ठानः पाकरागादिकर्माग्निरित्याहुः| अथानन्तरमस्य ग्रन्थस्य तात्पर्य्यार्थ उच्यते- इहायुर्वेदे उभयेषामाचार्य्याणां भिन्नदर्शनम्| एकेषामन्तराग्नि पक्वान्नसारात् क्रमेण धातुपरिपोषोऽन्येषां यौगपद्येनेति|| ३५||
स ख़लु विधिवदभ्यवहृतमन्नजातं प्राणेन वायुना कोष्ठमाकृष्टं द्रवैर्विभिन्नसङ्ग़ातं स्नेहेन मृदूकृतमभिसन्धुक्षितः समानेनामाशयस्थं स्थालीस्थमिवाम्बुतण्डुलमग्निरन्तरग्निः पचति||३६||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
अत्र क्रमवादिनः आहुः-पुरुषेण भुज्यमानमन्नं कठिनतरदशनाभिग़ातजर्जरितं प्रयत्नेनोदीरितेन प्राणाख़्येनानिलेन कण्ठनाड्या महास्रोतसि निक्षिप्तं नाभिदेशचारिणा समानेन नाभिपार्श्वग्रहेत्याख़्यपित्तधराकलामर्य्यादे आमाशये विधृतं द्रवेण जलादिना विभिन्नसङ्ग़ातं स्नेहेन च मार्दवमापादितं पाचकेनेव समानेन सन्धुक्षितः प्रदीपितः सन्नन्तरग्निः पचति| यथाऽग्निः बाह्यस्तोयतण्डुलं स्थालीस्थं पचति|| ३६||
तत्तु सर्वरसमपि पच्यमानमादौ मधुरीभूतं कफं फेनीभूतमुदीरयति| ततो विदग्धमम्लीभूतमामाशयात् च्यवमानमच्छं पित्तम्| प्राप्य च पक्वाशयं कटुकीभूतमनिलम्||३७||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
तत्र चामाशये तदन्नं सर्वरसमपि पच्यमानं सत् प्रथम विक्लेदमात्रावस्थायां माधुर्यमिव प्राप्तं सत् कफमुदीरयेत्| तच्च फेनभूतं यथा दध्यादितः क्षुभितात् प्रथमं फेनसम्भवः| ततश्चामाशयात् पाकेन च्यवमानमम्लीभूतं सत्स्वच्छं पित्तमुदीरयेत्| ततोऽप्यामाशयात् च्युतं पक्वाशयेऽग्निना शोषितकटुकीभूतं सत्तदन्नं मारुतमुदीरयेत्|| ३७||
ततश्चैवं विक्लिन्नं आहारे पञ्च पञ्चात्मका महाभूताग्नयो वायुना व्यस्तान् यथास्वं पञ्चैव भूतगुणानाहारस्थान् पचन्ति| ते पक्वाः पुनर्यथास्वमेव देहाश्रितांश्च स्वविकारभूतान् भूतगुणानाप्याययन्ति||३८||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
जठराग्निना किञ्चित्पक्वविक्लिन्नाहारे पञ्च महाभूताग्नयः पार्थिवादयः पञ्चाहारस्थान् यथास्वं महाभूतगुणान् पार्थिवादीन आहारभागान् पचन्ति| पार्थिवोऽग्निसादृश्यात् पार्थिवमेवाहारभागं पचति| आप्य आप्यमेव| सर्वत्र गुणशब्दोऽवयववाची| ते च पार्थिवादयः पञ्च गुणा पार्थिवादिभिः पञ्चभिरग्निभिः पक्वाः पार्थिवादीनेकदेहस्थान् भूतगुणानाप्याययन्ति| यथास्वमात्मीयजात्यनतिक्रमेण स्वविकारभूतानित्यन्नविकारा एवदेहे महाभूतगुणाः|| ३८||
एवञ्च पक्वादाहाराद्विविधौषधगर्भादिव स्नेहादच्छः सारभूतो रसाख़्यः किट्टाख़्यश्च मलोऽभिनिर्वर्तते||३९||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
एवमनन्तरोक्तेन प्रकारेण पक्वादन्नात् द्वौ राशी भवतः- किट्टं सारश्च| यथा नानाप्रकारौषधगर्भाद् ग़ृतात् स्नेहः कल्कश्च|
ताभ्याञ्च सारमलाभ्यां तदात्मकानामेव शरीरगुणानां धात्वाख़्यानां यथास्वं स्रोतांसि पारम्पर्य्येणाविच्छिन्नसन्तानमापूर्य्यन्ते||४०||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
ताभ्यां सारमलाभ्यां तदात्मकानां सारमलस्वभावानां धात्वाख़्यानां शरीरगुणानां रक्तादीनां मूत्रदीनां च पारम्पर्य्येण क्रमप्राप्त्याविच्छिन्नप्रवाहं कृत्वा स्रोतांस्याऽऽपूर्य्यन्ते|| ४०||
स्रोतोभ्यश्च यथाविभागं यथायथमेव धातवः पुष्यन्ति||१||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
तेभ्यो यथास्वं धातवः पुष्यन्ति|| ४१||
उत्तरोत्तरानुप्रवेशेऽपि च पुर्वेषां स्रोतसां यथाकालं सम्यगाहारोपयोगेन परिणामवताप्याय्यमानानां नापचयो भवति| ततश्च धात्वाख़्याः प्रसादमलाः स्वं स्वमेव मानमनुवर्तन्ते यथावयःशरीरम्||४२||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
पूर्वस्य रक्तादेर्धातोरुत्तरानुप्रवेशेऽपि मांसादिभावगमनेऽपि न पूर्वेषां रक्तादिस्रोतसामपचयो भवति| किम्भूतानां पूर्वधातुस्रोतसाम् ? यथाकालं कालविच्छेदेन सम्यगाहारोपयोगेनाप्याय्यमानानाम्| किम्भूतेनाहारोपयोगेनाह-परिणामवता| तेनैतदुक्तं भवति-सदैवाविच्छेदेन स्रोतांसि परिणतोऽन्नसारो याति| पूर्वेभ्यश्च पूर्वाण्यापूर्य्यन्ते| अतस्तेषामनपचयः| तथा परिणामेन च धात्वाख़्या देहधारणाः प्रसादाश्च मलाश्च वयश्शरीरानतिक्रमेण स्वं-स्वं प्रमाणमञ्जल्यादिविशेषेणोक्तं नातिवर्त्तन्ते| प्रसादाः सारा रक्तमांसकण्डरादीनि| मलाः किट्टं कफलसीकापित्तादि| वयोऽनतिक्रमेणेति बालस्य प्रवृद्धस्य चोक्तात् परिमाणाद्धीनत्वं नेति ज्ञापनार्थम्| यथाशरीरमिति महाशरीरेषु प्रसादमलाः प्रभूता भवन्ति| लग़ुदेहेष्वल्पता इति ज्ञापयति||
तत्राऽऽहाररसो व्यानविक्षिप्तो यथास्वं सप्तसु धात्वग्निषु क्रमात् पच्यमानः स्वात्मभावप्रच्युतिसमनन्तरमेव प्राप्तरक्तादिधातुसंज्ञकः कालवदस्ख़लितबलप्रमाणो देहमूर्जयित्वा धातून् धातुमलांश्च पुष्णाति||४३||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
तत्रेत्यादिनाऽस्मिन् क्रमधातुपाकवादे क्रमं दर्शयति| आहारस्य प्रधानाग्निना पक्वस्य सतः यो रसो भवति स व्यानेन हृदयमूलभवेन वायुना विक्षिप्तः प्रेरितः स्रोतस्सु विनियुक्ताः सन् धात्वग्निषु पच्यमानः विशिष्टतत्कालव्यपदेशयोग्यस्वरूपप्रच्युत्येककालं प्राप्तरक्तादिधातुसंज्ञः कालवदविच्छिन्नवाही धातून् रक्तादीन् धातुमलांश्च कफादीन् पुष्णाति| रक्तं रक्ताग्नेरेव पाकेन भवति| मांसं मांसाग्निरेवेत्येवमादि यथास्वशब्दर्थः देहमूर्जयन् शरीरं प्राणयन्|| ४३||
अथान्नकिट्टमच्छं मूत्रं ग़नं शकृत्||४४||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
अथेत्यादिना प्रसादमलयोर्विभागं दर्शयति| यो यस्य पाकात् प्रसादः स तस्य सारो, यो मलः स किट्टः| सुबोधम्|| ४४||
रसस्य सारो रक्तं मलः कफो लसीका च||१||
🔊 Audio coming soon
रक्तस्य सारो मांसं कण्डराः सिराश्च| मलः पित्तम्|२|
🔊 Audio coming soon
मांसस्य सारो मेदस्त्वचो वसा च| किट्टं कर्णाक्षिनासिकास्यरोमकूपप्रजननमलाः|२|
🔊 Audio coming soon
मेदसः सारोऽस्थिस्नायुसन्धयः| किट्टं स्वेदः|२|
🔊 Audio coming soon
अस्थ्नः सारो मज्जा| किट्टं केशरोमनख़ाः||२||
🔊 Audio coming soon
मज्ज्ञस्तु सारः शुक्रं मलोऽक्षिविट्त्वचां स्नेहः||४५||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
अन्नमलस्य ग़नाच्छभेदेन द्वैविध्यम्| लसीका जलसदृशी| वसा स्वच्छस्नेहः| कर्णादिषट्कस्य मलशब्देन सम्बन्धः| कर्णादिषु मलो दृश्यत एव| प्रजननं मेहनम्| सन्धयोऽस्थिभागाः पूर्वमुक्ताः| अक्ष्यादेः स्नेहो मलः|| ४५||
शुक्रस्य सारमोजः| अत्यन्तशुद्धतयाऽस्य मलाभावः| अन्ये पुनरत एव तस्य नेच्छन्ति पाकम्| अपरे पुनः शुक्रसारं गर्भमेवामनन्ति||४६||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
शुक्रस्य तु क्रमेण सारसारत्वाच्छुद्धतया मलाभावः| अपरे आचार्य्याः| अतः सारादपि सारतरत्वाद्धेतोः शुक्रस्य पाकं नेच्छन्ति| अन्ये त्वाचार्य्याः शुक्रस्य सारो गर्भ इत्यामनन्तीति|
वायुः पुनरग्नेराहारस्य च बह्वल्पतया तस्मात्तस्मान्मूर्च्छनाविशेषादमूर्त्तः शब्दवानीषच्छब्दः प्रचुरोऽल्पो वा पञ्चात्मा कोष्ठे प्रादुर्भवति||४७||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
आध्यात्मिकानां भावानां सम्भवोक्तिप्रसङ्गे वायोर्द्वितयेन प्रकारेण सम्भव उच्यते| वायुः कोष्ठे प्राणादिभेदेन पञ्चात्मा प्रादुर्भवति| कुतो हेतोः ? आभ्यां मूर्च्छनाविशेषात्| कथमाह-अग्नेर्बहुतया कदाचिदग्नेः समत्वेऽप्याहारस्याल्पतया च| वायुः कुतश्चिन्मूर्च्छनाविशेषादमूर्त्तोऽपि सञ्छब्दवान् भवति| कुतोऽपीषच्छब्दः कुतोऽपि प्रचुरः| कुतोऽप्यल्प इति| अमूर्त्तोऽकठिनः|| ४७||
एवं च कृत्वाऽन्नमया एव देहे सर्वे भावाः| तेनैव चेदमेवं चिरेण व्याप्तमन्तर्बहिः शरीरयन्त्रमनवरतप्रवाहेण स्वास्थ्यबलोपचययुक्तं यावत् कर्मोपादानं याप्यते| अन्यथा त्वन्नरसोक्षेपणाद्विबद्धस्रोतसा वा यथावदन- भिसन्धीयमानधातुप्रवाहमन्तरा व्यवच्छिद्यते| व्याधि भाजनं वा भवति||४८||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
तस्मात् सर्वे शारीरा भावा अन्नमयाः| तेनैव चान्नेनाविच्छिन्नप्रवाहेण इदमनन्तरोक्तेन क्रमेण शरीरं विपरिणमति| अध्यात्मेत्यात्मनि बहिर्वहिर्भागे| शरीरयन्त्रकं याप्यत इति सम्बन्धः| किम्भूतमित्याह-स्वास्थ्येन बलोपचयेन च युक्तम्| एतच्च यावत्कर्मोपादानमाह| तद्धेतुककर्मपरिक्षयात्| अन्यथेत्यादि सुबोधम्| इति क्रमधातुवादः|| ४८||
अन्ये तु वर्णयन्ति-अभ्यवहृतमात्रस्याहाऽऽरस्य कण्ठनाडीप्रलुठितस्य महानिम्नमवतीर्णस्य यो य एवांशः कायाग्निनाऽवलीढः पाकमुपनीयते तस्य तस्यैव प्रसादाख़्यो रसलेशोऽभिनिर्वृत्तिसमनन्तरं समं समस्तधातुषु संवृतासंवृतैः प्रविसृतो विवृतमुख़ेष्वासन्नेषु स्रोतस्सु भूयान् प्रथमतरं चान्वेति| पर्य्यायेणेतरेष्वपि| एवमन्नरस एव साक्षात्सर्वधातून् केनचिदेव कालभेदेन पुष्णाति न पुनर्धातवो धात्वन्तरतां स्वरूपोपमर्देन प्रतिपद्यन्त इति||४९||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
अन्ये पुनराचार्य्याः अन्नरसादेव सकलधातुसम्भवं वर्णयन्ति| न च धातोर्धात्वन्तरादुत्पत्तिमिच्छन्ति| कथमित्याह-अभ्यवहृतमात्रस्येत्यादि| य एवाहारभागः कोष्ठप्राप्तिसमनन्तरमग्निना सम्बध्यते तस्यैव तेन पक्वस्ययोऽन्नसारः स तदैव सर्वधातुस्रोतस्स्वनुगच्छति| केवलं त्वयं विशेषः| विवृतमुख़ेषु असंवृतेषु स्रोतस्सु सारसम्भवदेशासन्नेषु च प्रथममन्वेति भूयांश्चान्वेति| इतरेषु संवृत्तमुख़ेषु दूरेषु च विपर्य्ययेण| स्वल्पश्चिरेण चेत्यर्थः| एवमस्मिन् पक्षे केवल- मधिकृतस्यान्नसारस्य सकलधातुपरिपाकत्वमुक्तम्| यथोत्तरं तु धातुस्रोतसां संवृतमुख़त्वाद् दूरदूरतरत्वाच्च कालभेद अङ्गीकृत एव| तेन द्वयोरपि पक्षयोरन्यतया न युगपद्धातुसम्भवः| एकत्र धातोर्धात्वन्तरोत्पादादन्यत्र संवृतत्वदूरत्वाभ्यामिति| सुबोधम्|| ४९||
अग्निस्तु बलभेदेन चतुर्विधो भवति| समो विषमस्तीक्ष्णो मन्दश्च||२||
🔊 Audio coming soon
तत्र समो यः सम्यगेवोपयुक्तमन्नं सम्यक् पचति|१|
🔊 Audio coming soon
विषमोऽसम्यगप्यपयुक्तं पचति सम्यगपि च न पचति||१||
🔊 Audio coming soon
तीक्ष्णोऽसम्यगप्युपयुक्तमाशु पचति| स एव वर्धमानो ऽत्यग्निर्भवति||२||
🔊 Audio coming soon
मन्दस्तु सम्यगप्युपयुक्तमुदरगौरवाध्मानविबन्धाटोपान्त्रकूजनमुख़शोषवायुस्तम्भादीन्यामलिङ्गानि दर्शयित्वा चिरात् पचति||१||
🔊 Audio coming soon
बाह्येनापि च ज्वालाङ्गारात्मकेनाग्निना नैकाकारः सर्वदा पाको भवति| किमुतान्तराश्रयेणोष्णात्मना समेनापि| तस्मात् तं प्रयत्नतो रक्षेत्||५०||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
अग्निस्त्विति| बलभेदेनेति अग्निचात्रुविध्यकारणम्| तत्रेत्यादिनाऽस्याग्निचतुष्टयस्य लक्षणमुच्यते| समो नित्यधर्मा इति च सर्वत्रान्नरक्षामात्राशीत्याद्युक्तप्रकारेण| उदरगौरवादीन्यामलिङ्गान्यादिग्रहणेनान्यानि च| बाह्योनापीत्यादिना जाठरस्याग्नेः प्रयत्नपरिरक्षणीयत्वं दर्शयति|| ५०||
तत्र प्रवरेण सात्म्येन समं यथास्वमपरेणेतरान् क्रमशः सात्म्यमापाद्य प्रवरेण परिपालयेद्दोषोपक्रमणियोक्तेन च वातादिसाधनेन ग्रहणीरोगविहितैश्चौषधव्यायाममयोगैरिति||५१||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
तत्रेति निर्धारणे| सममुत्कृष्टमग्निमुत्कृष्टेन सात्म्येन सर्वरसाख़्येन रक्षेदितरान् विषमादीनग्नीनितरेण प्रवरेण सात्म्येनासर्वरसाख़्येन| यथादोषं सात्म्यमापाद्य प्रवरेणैव परिपालयेत्| दोषोपक्रमणीयोक्तया वातचिकित्सया विषमम्| पित्तचिकित्सया तीक्ष्णम्| कफचिकित्सया च मन्दं चिकित्सेत्| वातादिग्रहणीदोषोक्तेन विधानेन क्रमेण विषमादीनौषधयोगैर्व्यायामयोगैश्च|| ५१||
भवति चात्र- स्वधातुसमवर्णानि वृत्तस्थूलान्यणूनि च| स्रोतांसि दीर्ग़ाण्याकृत्या प्रतानसदृशानि च| स्रोतोदूषकः आहारः विहारश्च आहारश्च विहारश्च यः स्याद्दोषगुणैः समः| धातुभिर्विगुणो यश्च स्रोतसां स प्रदूषकः| स्रोतोदुष्टिलक्षणम् अतिप्रवृत्तिः सङ्गो वा सिराणां ग्रन्थयोऽपि वा| विमार्गतो वा गमनं स्रोतसां दुष्टिलक्षणम्||५२||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
भवति चात्रेति पद्यारम्भे रीतिः| स्रोतांसि स्वस्य धातोर्वर्णेन समानि| रक्तस्रोतांसि रक्तवर्णानि| मांसस्रोतांसि मांसवर्णान्येवं सर्वत्र वाच्यम्| कानिचित् स्थूलानि| कानिचिदणूनि सूक्ष्माणि| प्रतानसदृशानि वल्लीवदनेकभङ्गीप्रवाहयुक्तानि| तेषाञ्च स्रौतसामाहारो विहारश्च प्रदूषकः| किम्भूत आह-दोषस्य वातादीनामन्यतमस्य गुणैः समः तथापि यो वातादीनामन्यतमस्य समगुणोऽपि धातुर्भिर्विगुणः| यस्य धातोर्य एवाहारो विहारश्च गुणैर्विपरीतः स एव तस्य स्रोतसां दूषकः|| ५२||
बिसानामिव सूक्ष्माणि दूरं विप्रसृतानि च| द्वाराणि स्रोतसां देहे रसो यैरुपचीयते||५३||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
सुबोधम्|| ५३||
केचिदाहुरहोरात्रात् षडहादपरे परे| मासात् प्रयाति शुक्रत्वमन्नं पाकक्रमादिभिः| वृव्यादीनि प्रभावेण सद्यः शुक्रादि कुर्वते| प्रायः करोत्यहोरात्रात् कर्मान्यदपि भेषजम्||५४||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
अथान्नस्य सारः कियता कालेन सप्तधातून् अभिव्याप्नोतीत्याऽऽह-किचिदित्यादिना| मतत्रयमेतत्| पाकक्रमादिभिर्धातुपरिणतेः| स्वल्पैर्दिनैरसम्भवं प्रदर्शयति| ननु चैकस्मन्नेवाह्नि वृष्यादीनां शुक्रादिकर्त्तृत्वं दृष्टं तत् कथमित्याह-वृष्यादीनीत्यादि| प्रभावः सर्वातिशायिनी शक्तिः| एकेनादिशब्देन ग्रहणम्| एकाहः षड्रात्रमासभेदेन मतत्रये स्थिते प्रभावादेव वाग्भटः सर्वशास्त्रसिद्धान्तं दर्शयति-प्राय इत्यादिना| न केवलं वृष्यादि, यावदन्यदपि भेषजं प्रायः अहोरात्रादेव कर्म करोति| अहोरात्रमतिक्रम्य ग़ृतलेहादीनां यद्यपि मात्राभ्यासेन रोगोपशमाख़्यकार्य्यनिर्वृत्तिस्तथापि तेषां दिनानुदिनं कार्य्यकर्त्तृत्वं विद्यत एवेति प्रदर्शनार्थं प्रायोग्रहणम्|| ५४||
कफः पित्तं मलः ख़ेषु प्रस्वेदो नख़रोम च| स्नेहोऽक्षित्वग्विशामोजो धातूनां क्रमशो मलाः||५५||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
पुर्वोक्तमेव संग्रहश्लोकेनाह-कफ इत्यादि| कफादीनि रसादीनां क्रमेण मलाः| रसस्य कफोरक्तस्य पित्तम्| मांसस्य कर्णनासिकादिस्रोतोमलाः| मेदसः प्रस्वेदः अस्थ्नो नख़रोम| मज्जो नेत्रादिस्नेहः| पूर्वस्यैव संग्रहादपुनरुक्तम्|| ५५||
शान्तेऽग्नौ म्रियते युक्ते चिरं जीवत्यनामयः| रोगी स्याद्विकृते तस्मात्तं प्रयत्नेन पालयेत्||५७||
🔊 Audio coming soon
सर्वाङ्गसुन्दरी व्याख्या ( कृत)
इति वैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृतौ अष्टाङ्गसंग्रह- संहितायां शारीरस्थाने सिराविभागोनाम षष्ठोऽध्यायः सुबोधमन्यत्|| ५७|| इति श्रीमन्महामहोपाध्यायेन्दुर्विरचितायाम् अष्टाङ्गसंग्रह- व्याख़्यायां शशिलेख़ायां शारीरस्थाने षष्ठोऽध्यायः