Adhikarana अथ दोषादिविज्ञानीयो नामैकोनविंशोऽध्यायः प्रतिज्ञा (१) · Śloka १
अथातो दोषादिविज्ञानीयमध्यायं व्याख्यास्यामः|
इति ह स्माहुरात्रेयादयो महर्षयः||१||
Show commentary शशिलेक व्याख्या (इन्दु कृत)
द्रव्यं देहे दोषादिवृद्धिक्षयद्वारणैवोपयुज्यते| ते च दोषादयः प्राकृतेन वैकृतेन च स्वरूपेण न ज्ञाताः| अतस्तद्विज्ञानार्थमध्यायारम्भः||१||
Adhikarana वातादिदोषाणां लक्षणं कर्माणि च (२) · Śloka २
दोषधातुमलमूलो हि देहः|
तस्मात्तेषां लक्षणमुपदेक्ष्यामः|
तमुच्छ्वासनिश्वासोत्साहप्रस्पन्दनेन्द्रि-यपाटववेगप्रवर्तनादिभिर्वायुरनुगृह्णाति|
पक्त्यूष्माभिलाषक्षुत्पिपासाप्रभाप्रसाददर्शनमेधाशौर्य-मार्दवादिभिः पित्तं स्थैर्यस्नेहसन्धिबन्धवृषताक्षमाधी धृतिबलालौल्यादिभिः श्लेष्मा||२||
Show commentary शशिलेक व्याख्या (इन्दु कृत)
दोषेत्यादि| दोषादयो मूलं कारणं यस्य स तथा| दोषादीन् वर्जयित्वा नान्यच्छरीरसम्बद्धं शरीरे दृश्यते| त एव संयुक्ता देह इति यावत्| तत्र दोषा वातादयः| धातवो रसादयः| मलामूत्रशकृत्स्वेदादयः| एषां प्राकृतानां यथास्वं नानाविधैः कर्मभिः क्रमेण तमुच्छ्वासेत्यादिना देहोपकारित्वमुच्यते, न ह्यनुपकारकः कारणतां याति| तं देहमुच्छ्वासादिभिर्वायुरनुगृह्णाति| उच्छ्वासः श्वासस्योद्गमनम्| निः श्वासोऽन्तःप्रवेशनम्| उत्साहः कार्योत्थानशक्तिः| प्रस्पन्दोऽङ्गचेष्टा| इन्द्रियपाटवं चक्षुरादीनां स्वविषयग्रहणेषु स्फुटत्वम्| वेगानां पूर्वोक्तानां मूत्रपुरीषादीनां प्रवर्तनम्| आदिग्रहणेनान्यत् सर्वं देहस्थितिं क्रियास्वरूपं भावं गृह्यते| तथा तं देहं पक्त्यूष्मादिभिः पित्तमनुगृह्णाति| पक्तिः पाकः पचनक्रिया| तत्फलं चोष्मा तेजः| अभिलाषः प्रियोपभोगेच्छा| प्रभाप्रसादः कान्तिवैशद्यम्| दर्शनं स्वरूपग्रहणशक्तिः| मेधा प्रज्ञा| आदिग्रहणादन्यानि तेजस्कराणि देहे गृह्यन्ते| तं देहं स्थैर्यादिभिः श्लेष्मानुगृह्णाति| सन्धिबन्धः पर्वश्लेषः| वृषता स्त्रीगमनशक्तता| आदिग्रहणात् सौम्यभावपरिग्रहः||२||
Adhikarana रसादिधातूनां कर्माणि (३) · Śloka ३
तुष्टिप्रीणनरक्तपुष्टिभिस्तु रसः|
जीवनवर्णप्रसादनमांसपोषणैरसृक्|
देहलेपमलमेदः पुष्टिभिर्मांसम्|
नेत्रगात्रस्निग्धतास्नेहदार्ढ्यास्थिपुष्टिभिर्भेदः|
देहो- र्ध्वताधारणमज्जपोषणाभ्यामस्थि|
स्नेहबलास्थिपूरण शुक्रपुष्टिभिर्मज्जा|
हर्षबलगर्भोत्पादनैः शुक्रम्||३||
Show commentary शशिलेक व्याख्या (इन्दु कृत)
देहं तुष्ट्यादिभिः रसोनुगृह्णाति| तुष्टिः मनःप्रीति| प्रीणनं हृदयाश्वासनम्| रक्तस्य पुष्टिर्द्धात्वाहारश्चेति स्मरणीयं सर्वधातुषु| असृक्जीवनत्वादिभिः| जीवनत्वं प्राणसन्धारकत्वम्| लेपादिभिः मांसं देहमनुगृह्णाति| नेत्रास्निग्धतादिभिर्मेदः| देहोर्ध्वताधारणेनास्थि| देहस्योर्ध्वतया धारणं देहोर्ध्वताधारणम्| उत्थितासनमिति यावत्| अन्यथा अस्थ्यभावाद्देहे मांसं पिण्डीभूतंस्यात्| स्नेहादिभिर्मज्जा| हर्षादिभिः शुक्रम्||३||
Adhikarana पुरिषादिमलानां कर्माणि (४) · Śloka ४
अवष्टम्भानिलानलधारणैः शकृत्|
अन्नक्लेदनिर्वाह णेन मूत्रम्|
क्लेदत्वक्स्नेहरोमधारणैः स्वेद इति||४||
Show commentary शशिलेक व्याख्या (इन्दु कृत)
अवष्टम्भादिभिः शकृत्| अवष्टम्भः शरीरधारणशक्तिः| अन्नक्लेदवाहनेन मूत्रम्| क्लेदादिधारणेन स्वेदः| अन्यथा शेष एव स्यात्| इति दोषादीनां प्राकृतं स्वरूपम्||४||
Adhikarana वृद्धैर्वातादिदोषैः शरीरपीडनम् (५) · Śloka ५
कार्श्यकार्ष्ण्य्गत्रकम्पस्फुरणोष्णकामितासंज्ञानिद्राना शबलेन्द्रियोपघातास्थिशूलमज्जाशोषमलसङ्गाध्माना टोपमोहदैन्यभयशोकप्रलापादिभिर्वृद्धो वायुः पीडयति|
पीतत्वग्लान्द्रियदौर्बल्यौजोविस्रंसशीताभि लाशदाह तिक्तास्यतातृण्मूर्च्छाल्पनिद्रताक्रोधादिभिः पित्तम्|
श्वैत्यशैत्यस्थौल्यालस्यगौरवाङ्गसादस्रोतःपिधान मूर्च्छातन्द्रानिद्राशासकासप्रसेकहृल्लासाग्निसादसन्धि विश्लेषादिभिः श्लेष्मा||५||
Show commentary शशिलेक व्याख्या (इन्दु कृत)
वैकृतमुच्यते| विकृतिर्द्विविधा वृद्ध्याहीनतया च| तत्र प्रथमं वृद्धिरुच्यते| तं देहं वृद्धो वायुः कार्श्यादिभिः पीडयति| गात्राणां कम्पः सर्वाङ्गचलनम्| स्फुरणं गात्रौकदेशे स्वल्पं चलनम्| अत्राप्यादिग्रहणात् दोषस्वरूपरोगग्रहणार्त्य्हानि व्याख्येयानि| पित्तम् वृद्धं पीतत्वक्त्वादिभिर्देहं पीडयति| श्लेष्मा वृद्धं श्वैत्यादिभिः| श्वैत्यं गात्रश्वेतता||५||
Adhikarana वृद्धैः रसादिदातुभिः शरीरपीडनम् (६) · Śloka ६
प्रसेकारोचकस्यवैरस्यहृल्लासस्रोतोरोधस्वादुद्वेषाङ्ग मर्दादिभिरन्यैश्च श्लेष्मविकारप्रायैः रसः|
कुष्ठ- विसर्पपिटकासृग्दराक्षिमुखमेढ्रगुददाहगुल्मविद्रधि-प्लीहव्यङ्गकामलाग्निनाशतमःप्रवेशरक्ताङ्गनेत्रतावातरक्तपित्तादिभिरन्यैश्च पित्तविकारप्रायैरसृक्|
गलगण्डगण्डमालार्बुदग्रन्थितालुजिह्वाकण्ठरोगस्फिग्गलौ- ष्ठबाहूदरोरुजङ्घागौरववृद्धिभिः श्लेष्मरक्तविकारप्रायैश्च मांसम्|
प्रमेहपूर्वरूपैः स्थौल्योपद्रवैश्चान्यैरपि श्लेष्मरक्तमांसविकारप्रायै|
र्मेदः|
अध्यस्थिभिरधिदन्तैश्चास्थि|
नेत्राङ्गरक्तगौरवैः पर्वसु च स्थूलमूलारुभिर्मज्जा|
अतिस्त्रीकामताशुक्राश्मरीसम्भवाभ्यां शुक्राधिक्यकम्||६||
Show commentary शशिलेक व्याख्या (इन्दु कृत)
प्रसेकादिभी रसः| अत्राप्यादिग्रहणानि पूर्ववत्| प्रसेको मुखस्रावः हृल्लासः सप्रसेको हृदयोत्क्लेशः| रक्तं कुष्ठादिभिः| दाहशब्दस्याक्ष्यादिभिः सम्बन्धः| तमःप्रवेशोऽतमसि तमसीव प्रवेशः| गलगण्डादिभिर्मांसम्| प्रमेहपूर्वरूपादिभिर्मेदो वृद्धं पीडयति| प्रमेहपूर्वरूपाणि `स्वेदोऽङ्गगन्ध' इत्यादिना प्रमेहनिदाने वक्ष्यन्ते| स्थौल्योपद्रवाण्यतिस्थौल्यादति- क्षुत्तृडित्यादिना द्विविधोपक्रमणीये वक्ष्यमाणानि| अध्यस्थ्यादिभिरस्थि| अस्थ्नि यदधिकमस्थि तद्ध्यस्थि| नेत्रगौरवादिभिर्मज्जा| अरूंषि पिटकाविशेषाः||६||
Adhikarana वृद्धैः शकृदादिमलैः देहपीडनम् (७) · Śloka ७
कुक्षिशूलाटोपगौरवैः शकृदाधिक्यम्|
बस्तितोदाध्मानैर्मूत्राधिक्यम्|
कण्डूदौर्गन्ध्यैः स्वेदः|
अन्येऽपि च दूषिकादिमला बाहुल्यद्रवताकण्डूगौरवैः||७||
Show commentary शशिलेक व्याख्या (इन्दु कृत)
सुबोधम्||७||
Adhikarana क्षीणैर्वातादिभिर्दोषैः देहपीडनम् (८) · Śloka ८
प्रसेकारुचिहृल्लाससंज्ञामोहाल्पवाक्चेष्टताप्रहर्षा-ङ्गसादाग्निवैषम्यादिभिः क्षीणो वायुः पीडयति|
स्तम्भ शैत्यानियततोदारोचकाविपाकाङ्गपारुष्यकम्पगौरवनख-नयनशौक्ल्यादिभिः पित्तम्|
भ्रमोद्वेष्टनानिद्राङ्गमर्द- परिप्लोषतोददवदाहस्फोटनवेपनधूमायनसन्धिशैथिल्य- हृदयद्रवश्लेष्माशयशून्यतादिभिः श्लेष्मा||८||
Show commentary शशिलेक व्याख्या (इन्दु कृत)
क्षीणो वायुः प्रसेकादिभिर्देहं पीडयति| क्षीणं पित्तं स्तम्भनादिभिर्देहं पीडयति| अङ्गे तोद इव तोदः| अनियते देशे वा काले वा तोदोऽनियततोदः| श्लेष्मा क्षीणो भ्रमादिभिः पीडयति| रज्वादिनाङ्ग उद्वेष्टनमिवोद्वेष्टनम्| परिप्लोषः सन्तापात् स्वल्पस्त्वग्दाहः| अन्ये रोगा वक्ष्यमाणलक्षणाः| धूमायनं कण्ठे धूम इव| श्लेष्माशया उरः कण्ठादयः||८||
Adhikarana क्षीणैः रसादिभिर्धातुभिर्देहपीडनम् (९) · Śloka ९
शब्दासहत्वहृदयद्रवकम्पशोषशूलशून्यतास्पन्दन घट्टनैरल्पयापि च चेष्टया श्रमतर्षाभ्यां रसः|
त्वग्रौक्ष्याम्लशीताभिलाषसिराशैथिल्यैरसृक्|
स्फिग्गण्डादिशुष्कतातोदरौक्ष्याक्षग्लानिसन्धिस्फोटन-धमनीशैथिल्यैर्मांसम्|
प्लीहवृद्धिकटीस्वापसन्धि- शून्यताङ्गरौक्ष्यकार्श्यश्रमशोषमेदुरमांसाभिलाषै- र्मांसक्षयोक्तैश्च मेदः|
दन्तनखरोमकेशशातनरौक्ष्यपारुष्यसन्धिशैथिल्यास्थितो- दास्थिबद्धमांसाभिलाषैरस्थि|
अस्थिसौषिर्यनिस्तोद- दौर्बल्यभ्रमतमोदर्शनैर्मज्जा|
श्रमदौर्बल्यास्य शोषतिमिरदर्शनाङ्गमर्दपाण्डुतासदनक्लैब्यमुष्कतोद मेढ्रधूमायनैश्चिराच्च निषेकेण सरक्तनिषेकेण वा शुक्रम्||९||
Show commentary शशिलेक व्याख्या (इन्दु कृत)
रसः क्षीणः शब्दासहत्वादिभिः पीडयति| स्वल्पेनापि कर्मणा श्रमस्तर्षश्च भवति| असृक् क्षीणं त्वग्रौक्ष्यादिभिः पीडयति| मांसं क्षीणं स्फिक्शुष्कतादिभिः पीडयति| धमन्योऽङ्गविभागे वक्ष्यन्ते| तासां शैथिल्यं निबिडत्वनाशः| प्लीहावृद्ध्यादिभिः स्फिक्शुष्कतादिभिर्मांसक्षयोक्तैर्मेदः क्षीणं पीडयति| मेदुरस्य मांसे भोजनाभिलाषः| दन्तशातनादिभिरस्थिक्षीणं पीडयति| अस्थिबद्धे मांसे मृगपरशुकादौ रुचिस्तदभिलाषः| मज्जास्थिसौषिर्यादिभिः पीडयति| निस्तोदो वृद्धस्तोदः| तमोदर्शनमतमस एव तमसोऽनुभवः| शुक्रं क्षीणं श्रमादिभिः पीडयति| सदनमग्निसादः| क्लैब्यं रत्यनभिमुखता| मेढ्रस्य शेफसो धूमायनमन्तः सधूमतेव||९||
Adhikarana क्षीणैः शकृदादिमलैः देहपीडनम् (१०) · Śloka १०
सशब्दस्य वायोः कुक्षौ तिर्यगूर्ध्वं च भ्रमणेनान्त्र वेष्टनेन पार्श्वहृदयपीडनेनाल्पतया च शकृत्|
बस्तिनिस्तोदमुखशोषकृच्छ्राल्पविवर्णमूत्रतादिभिः सरुधिरमूत्रतया वा मूत्रम्|
स्तब्धरोमकूपतारोमच्यवनत्वक्परिपाटनस्वापपारुष्य स्वेदनाशैः स्वेदः|
अन्येऽपि च मला यथायथं मलायनं शोषशून्यत्वलाघवैः||१०||
Show commentary शशिलेक व्याख्या (इन्दु कृत)
शकृत् क्षीणं कुक्षौ तिर्यगूर्ध्वं सशब्दस्यापानवायोर्भ्र मणेनान्त्रवेष्टनेन हृत्पार्श्वपीडनादिना च पीडयति| वेष्टनमिव रज्वादिना वेष्टनम्| मूत्रं क्षीणं बस्तिनिस्तोदादिना पीडयति| बस्तेर्मूत्राधारस्य शलाकादिभिर्निस्तोद इव निस्तोदः| अथवा केवलयैव सरुधिरमूत्रतया मूत्रं क्षीणं पीडयति| मूत्रक्षया त्सरुधिरमूत्रता भवतीति यावत्| स्वेदः क्षीणो रोमकूपस्तम्भनादिना देहं पीडयति| त्वचः स्वाप उपघातादचैतन्यम्| अन्येऽपि च मला दूषिकादयो यथायथं यथास्वं मलाधारं शोषादिना क्षीणाः पीडयन्ति| शोषादीनां त्रयाणां मलायनशब्देन सम्बन्धः||१०||
Adhikarana दोषधातुमलानां वृद्धिक्षयसामान्यलक्षणम् (११) · Śloka ११
विपरीतगुणक्षयवृद्धिभ्यां च वृद्धिक्षयावुपलक्षयेत्|
मलानां त्वतिसङ्गोत्सर्गाभ्यां च तद्वृद्धिक्षयौ||११||
Show commentary शशिलेक व्याख्या (इन्दु कृत)
ननु किमेतावदेव दोषादीनां वृद्धिक्षयलक्षणमुतान्यदपीत्याह-विपरीतेत्यादि| दोषादीनां सर्वेषां ये विपरीता गुणास्तेषां देहे यदा क्षयो दृश्यते तदा तेषां दोषादीनां वृद्धिमुपलक्षयेत्| यदा तु दोषादिविपरीतानां गुणानां वृद्धिर्दृश्यते देहे तदा दोषादीनां क्षयमुपलक्षयेत्| उदाहरणं यथा वातस्य गुणा रूक्षलघुशीतादयस्तेषां विपरीता स्निग्धगुरूष्णादयः तेषां स्निग्धत्वादीनां देहे क्षयो यदा दृश्यते तदा वायोर्वृद्धिमुपलक्षयेत्| यदा तु तेषामेव स्निग्धादीनां देहे वृद्धिर्दृश्यते तदा वातस्य क्षयमुपलक्षयेत्| इत्येवं स्वबुद्ध्या विकल्प्य धातूनां मलानां च वाच्यम्| मलानान्तु विशेषतः अतिसङ्गोत्सर्गौ यथासङ्ख्येन वृद्धिक्षयोपलक्षणौ| मलानां शकृदादीनां सङ्गेन बहिरप्रवृत्त्या तेषामेव वृद्धिमुपलक्षयेत्||११||
Adhikarana मलक्षयः वृद्धेरपेक्षया पीडाकरः (२) · Śloka २
वृद्धेस्तु मलानां क्षयः पीडयति|
सुतरामनौचित्यात्||२||
Show commentary शशिलेक व्याख्या (इन्दु कृत)
तथोत्सर्गेण बहिः प्रवृत्त्या तेषां क्षयमुपलक्षयेत्| मलानां च वृद्धिर्न तथा पीडाकरी यथा क्षयः | कुतः? अनौचित्यात्| देहिनो हि प्रायेण मलक्षयोऽनुचितोऽ नभ्यस्तः| वृद्धिस्तूचितैव|
Adhikarana दोषधातूनामेकवृद्धिक्षयकारणं तत्रापवादश्च (१३) · Śloka १३
तत्रास्थिनि स्थितो वायुः असृक्स्वेदयोः पित्तम्|
शेषेषु श्लेष्मा तस्मादेकवृद्धिक्षयकारणत्वमेषाम्|
नत्वेव मस्थिवाय्वोः|
सर्वैव हि वृद्धिः प्रायोऽतिसन्तर्पणनिमित्तत्वाच्छ्लेष्मणानुगता तद्विपर्यया च्च क्षयो वायुना तस्माल्लङ्घनबृंहणाभ्यां वृद्धिक्षयजान् विकारानुपचरेत्|
पवने तु बृंहणलङ्घनाभ्याम्|
सर्वत्र च द्रव्यगुणकर्मविपर्यय तुल्यभावेनाविरुद्धेन||१३||
Show commentary शशिलेक व्याख्या (इन्दु कृत)
तत्र दोषादिष्वाश्रयाश्रयिभावेन वृद्धिक्षयकारणं दर्शयितुकाम आह-तत्रेत्यादि| तत्र तेषु वातादिषु मध्ये वायुरस्थ्नि स्थितः स्वेदे रक्ते च पित्तं स्थितम्| अस्थि स्वेदं रक्तं च वर्जयित्वा शेषेषु रसादिषु श्लेष्मा स्थितः| एते रसादयो दोषाणामविकृतानामाश्रयाः| तस्मादेषामाश्रयाणामाश्रयिणां चैकमेव वृद्धिक्शयकारणम्| एकसं साधारणमित्यर्थः| यदेवाश्रयस्य वृद्धिक्षयकारणं तदेवाश्रयिणस्तथा यदेवाश्रयिणस्तदेवाश्रयस्यापीति| एवं क्षयेऽप्युच्यते| तत्रोदाहरणं यथा यदेवोष्णं सुरादिकं पित्तस्य वृद्धिकारणं तदेव स्वेदरक्तयोस्तथा शीतस्थिरादिकं पित्तस्य क्षयकारणं तदेव रक्तस्वेदयोश्च| एवं श्लेष्मणोऽपि वाच्यम्| वायोस्तु स्वयं तन्त्रकृन्निवारणं करोति| नत्वेवमस्थिवाय्वोरिति| तत्रानन्तरोक्तयोर्वृद्धिक्षययोः सर्वेत्यादिना चिकित्सार्थमाह| हि शब्दो यस्मादर्थे| येयं शारीरणां भावानां वृद्धिः सा प्रायेण श्लेष्मणानुगता अतिसन्तर्प णनिमित्तत्वात्| सन्तर्पणेन ह्यत्युपयुज्यमानेन सर्वे शारीरा भावा वृद्धिं यान्ति| अतोऽस्या वृद्धेरेककारणत्वात् श्लेष्मानुगतिं करोति| य्श्च शारीराणां भावानां क्षयः स वायुनानुगतः| कुतः? विपर्ययात्| पोओर्वोक्तहेतुतः अत्यपतर्पणनिमित्त त्वाच्छारीरभावक्षयस्येत्यर्थः| तस्मात् सर्वान् दोषादि वृद्धिजान् रोगान् वक्ष्यमाणेन लङ्घनेनोपचरेत्| सर्वांश्च शारीरभावक्षयजान् रोगान् बृंहणेनोपचरेत्| इत्यत्र हेतुर्वृद्धिक्षययोर्यथासङ्ख्येन श्लेष्मवाय्वनुगतत्वम्| वाते तु वैपरीत्यम्| वातस्य वृद्धिं बृंहणोपचरेत्| क्षयं लङ्घनेति| तथा सर्वत्र दोषादिवर्गे वृद्धिक्षयौ यथासंख्येन द्रव्यादीनामविरुद्धेन विपर्ययभावेन तुल्यभावेन चोपचरेत्| तेनैतदुक्तं भवति सर्वस्य दोषादेर्वृद्धिद्रव्यादिविपर्ययभावेनोपचरेती द्रव्य विपर्ययभावो यद्गुणविशेषानपेक्षयैव द्रव्यस्य शारीरस्य बाह्यद्रव्याद्वैपरीत्यम्| यथा मांसस्य गवेदुकान्नात्| गुणविपर्ययभावो विपरीत गुणत्वम्| यथा मांसस्य मधुनः| श्लेष्मणः शीध्वारनालाभ्याम्| कर्मणो वाक्यस्य शारीरात् द्रव्यतः फले वैपरीत्यम्| यथा मांसस्य शोकाद्वायोश्च स्वप्नादित्येवं सर्वत्र वाच्यम्| तुल्य भावः शारीराणां भावानां बाह्यैर्द्रव्यादिभिः सादृश्यं यथा मांसस्य मांसेन रक्तस्य रक्तेनेति| गुणानां तुल्यभावो यद् द्रव्यजात्यसादृश्येऽपि गुणसादृश्यं यथा शुक्रस्य क्षीरसर्पिर्भ्याम्| कर्म क्रिया तस्याश्च शरीरेणद्रव्येण तुल्यभावः क्रियाफलद्वारेण| यथा वातस्य धावनप्लवनादिना कर्मणा| श्लेश्मणश्च हर्शस्वनाभ्याम्| अविरुद्धेनेति विपर्ययेण तुल्यभावेन च सम्बध्यते| तेन यत्र वृद्धिविपर्ययभावेनोपचर्या तत्र तथा विध विपर्ययो ग्राह्यः| यस्तद्विजातीयवृद्धिसंपादनया न विरुद्ध्यते| तथा क्षये तुल्यभावो योग्येन वृद्धेन समेन वा न विरुद्ध्यते||१३||
Adhikarana दोषादीनां वृद्धिक्षययोः कारणम् (१४) · Śloka १४
धातवः खलु शारीराः समानैः समानगुणभूयिष्ठैर्वाऽऽहारविहारैरभ्यस्यमानैर्वृद्धिमाप्नुवन्ति|
ह्रासं तु विपरीतैर्विपरीतगुणभूयिष्ठैर्वा|
तथाहि देहधातवो ये गुरवस्ते गुरुभिरैक्यकारितयोपचीयन्ते|
लघवस्तु लघुभिः|
तद्विपरीतैस्तु पृतह्क्त्वाकारिभिरपचीयन्ते|
तस्मादन्येभ्यो द्रव्येभ्योऽपि सुतरां रक्तमाप्याय्यते|
रक्तेन मांसं, मांसेन मेदो, मेदसाऽस्थि, तरुणास्थ्ना मज्जा, मज्जा शुक्रं, शुक्रेणामगर्भेण गर्भः|
यत्र त्वेवंलक्षणेनसामान्येन सामान्यवतामाहारविहाराणामसान्निध्यं स्यात्, सन्निहितानाञ्चाभ्यवहरणमशक्यं विरुद्धत्वाद् घृणित्वादरुचेरन्यस्माद्वा कारणन्तरात्|
तत्र समानगुणभूयिष्ठानामयप्रकृतीनामाहारविहारानामभ्यवहारः श्रेयान्|
तद्यथा शुक्रक्षये क्षीरसर्पिषोरुपयोगो मधुरस्निग्धशीतानामपरेषां च द्रव्याणाम्||१४||
Show commentary शशिलेक व्याख्या (इन्दु कृत)
ननु दोषादीनां वृद्धिक्षययोर्लक्षणं चिकित्सा चोक्ता कारणं नोक्तमतस्तत्प्रतिपादनार्थमाह- धातव इत्यादि| धातुशब्देन देहधारणसामान्यात् सर्वे दोषादय उच्यन्ते| तेन धातवः शारीराः शरीरस्थाः समानैर्जात्या सदृशैराहारैर्विहारैश्च वृद्धिमाप्नुवन्ति| अथवा समानगुणभूयिष्टैर्विहारैश्च वृद्धिमाप्नुवन्ति| अथवा समानगुणभूयिष्टैर्जातिविसदृशैरपि बाहुल्येन सदृशगुणैरित्यर्थः| एवं धातवो जातिविपरीतैर्विपरीतगुणभूयिष्ठैर्वा ह्रासं प्राप्नुवन्ति| तथा हीत्यादिना तन्त्रकार एवोदाहरणपूर्वकं दर्शयति| देहे शरीरे ये मांसकफाद्या गुरवो धातवः ते तथाविधैर्गुरुभिरेव| बाह्यैरुपचीयन्ते| विपरीतैस्तु लघुभिः पृथक्त्वकारिभिर्विजातीयैरपचीयन्ते| पृथक्त्वं तज्जात्यपरिपोषः| एवं लघुधातूनामपि वातादीनां वाच्यम्| तस्माद्यत एवमत एव न तथान्ये भावा मांसस्य वृद्धिकारणं यथा मांसं यथः सर्वेण प्रकारेण तयोरेव सादृश्यम्| एवं सर्वधातूनां वाच्यम्| यत्र त्वनन्तरोक्तं समानं धातोर्न सन्निहितम्, सन्निहितमपि केनचिद्धेतुना वाभ्यवहर्तुं न पार्यते, तत्रान्यप्रकृतीनां जात्या समानानां समानगुणभूयिष्ठानामाहारविहाराणां नानाविधानामभ्यवहारो विधेयः| ननु कथं सन्निहितानामभ्यवहरणमशक्यत आह-विरुद्धत्वात्, घृणित्वादरुचेश्च| विरुद्धत्वं विविक्षिधातुविजातीयधातुवृद्धिद्वारेण देहेऽपथ्यत्वं धातुसामान्येऽपि| घृणित्वमाहारविषेषजुगुप्सावत्वम्| अरुचिर्यत्र न किञ्चिद्रोचते| न च जुगुप्सा विद्यते| एवं तत्र धातुविजातीयस्य सदृशगुणस्य त्वभ्यवहारः श्रेयान्| तद्यथेत्युदाहरणेनैतदेव स्फुटयति|
Adhikarana कर्मणापि वृद्धिक्षयौ भवतः (१५) · Śloka १५
कर्मापि यद्यस्य धातोः समानक्रियतया वृद्धिकरं तस्य तस्य वृद्धिमभिलषता तत्तदासेव्यम्|
तथैव चातुल्यक्रियतया ह्रासकरं तदर्थिनेति|
अपि च - विशेषतो रक्तवृद्धिजान् रक्तनिर्हरणप्रसादनकायविरेचनेन|
मांसवृद्धिजान् संशोधनशस्त्रक्षाराग्निकर्मभिः|
मेदोजान् स्थौल्यकार्श्यक्रियाक्रमेण|
रक्तक्षयजान् मांसरसमद्यक्षीरैः|
अस्थिक्षयजान् बस्तिभिस्तिक्तोपहितैः क्षीरस्तिभिश्च|
शकृद्वृद्धिजानतीसारविधानेन|
शकृत्क्षयजान् मेहकृच्छ्रचिकित्सया|
स्वेदक्ष्यजानभ्यङ्गव्यायाममद्यस्वप्ननिवातशरणास्वेदैरिति||१५||
Show commentary शशिलेक व्याख्या (इन्दु कृत)
कर्मापीत्याद्युक्तार्थप्रायमिति| सामान्येन धातुवृद्धिहान्योः कारण्मुक्त्वा तज्जातानां रोगानामपि चेत्यादिना चिकित्सासमुच्चयं करोति| विशेषग्रहणं यद्यपि वृद्धधातुजानां क्षीणधातुजानां च रोगाणां धातोर्विसदृशैः सदृशैश्च द्रव्यादिभिरुपशमो भवति| तथाऽप्यसारण्येन तेषां रक्तादिजानां रोगाणां विशेषेणेदं कार्यमिति प्रदर्शनार्थम्| अत एव विशेषग्रहणादनुक्तशेषधातुवृद्धिक्षयरोगचिकित्साऽनारम्भो न दोषाय तन्त्रकृतः| रक्तस्य निर्हरणं सिराव्यधादिना| प्रसादनं सामर्थ्याद्रक्तस्यैव स्वल्पदुष्टौ| मेदोजानां द्वैविध्यं वृद्धिक्षयकृतम्| तत्र मेदोवृद्धिजान् स्थौल्यक्रियाक्रमेण स्थौल्यचिकित्सयोपचरेत्| मेदःक्षयजान् कार्श्यचिकित्सया| एषा च द्विविधापि चिकित्सा द्विविधोपक्रमणीये वक्ष्यते| अस्थिक्षयजान् रोगान् बस्थिभिस्तथा तिक्तोपहितैर्यथायोग्यतिक्तद्रव्यसहितैः कल्पे वक्ष्यमाणैः क्षीरबस्तिभिश्चेति प्राधान्यख्यापनम्| कुल्माषः सस्यान्नम्| अजमेषयोर्मध्यमन्तर्जठरमांसम्| आदिग्रहणादन्यानि पुरीषजननानि गृह्यन्ते| मूत्रवृद्धिजान् प्रमेहचिकित्सया मूत्रक्षयजान् मूत्रकृच्छ्रचिकित्सयेति| स्वेदक्षयजानभ्यङ्गादिभिः स्वेदान्तैश्चिकित्सेत्||१५||
Adhikarana धात्वग्निमान्द्यतैक्ष्णाभ्यां धातुवृद्धिक्षयौ, समानविशेषद्रव्ये वृद्धिक्षयकारणे (१६) · Śloka १६
भवति चात्र ये पाचकांशा धातुस्थास्तेषां मान्द्यातितैक्ष्ण्यतः वृद्धिः क्षयश्च धातूनां जायते शृणु चापरम्|
पारम्पर्येऽपि दावाग्नेस्तत् प्राप्येन्धनं शिखा|
वृद्धिक्षयौ यथा याति तद्वद्धातु परम्परा|
द्रव्यं तुल्यं विशिष्टं हि स्वं स्वं वृद्ध्यै क्षयाय च|
प्रत्यात्मबीजनियतं भृशमाशु प्रजायते||१६||
Show commentary शशिलेक व्याख्या (इन्दु कृत)
भवति चात्रेत्यनेकश उक्तम्| पाचकनाम्नोऽग्निस्वरूपस्य पित्तस्य येंऽशा भागाः सप्तसु धातुषु स्थितास्तेषांधातुस्थानामनलानां मान्द्यतो धातुवृद्धिः| पाकेनोत्तरधात्वापादनायास्य पूर्वधातोः क्षपणकारणस्याग्नेरल्पत्वात्तथा तेषामेव तैक्ष्ण्यात् धातूनां क्षयो जायते| तेनैतदुक्तं भवति यद्यप्यन्नपाचकाग्निपरायत्तवृद्धिक्षया धात्वग्नयः, तथाप्याहारद्रव्यशक्तिवशाद्य एवान्यतमो धात्वग्निर्मन्दी भवति स एव स्वस्य धातोः क्षपणाशक्तत्वात् वृद्धिमेव जनयति| एवं तीक्ष्णोऽग्निः स्वस्य धातोः क्षयम्| शृणु चापरमित्यनेन दृष्टान्तं वक्तुमस्यार्थस्योपक्रमते| किं शृणोमीति शिष्येण पृष्ट आह - पारंपर्येत्यादि| दावाग्नेः सम्बन्धिनी शिखा पारंपर्येऽप्यव्युच्छिन्नवनदाहप्रवृत्तेऽपि यथा तत्तद्विशिष्टमिन्धनं प्राप्य वृद्धिं क्षयं च याति| तथैव धातुपरम्परा धातुसमूहः| कोऽस्य भाषितस्यार्थः? उच्यते| दावाग्निर्यद्यपि सकलं वनं दहति तथापि तत्सम्बन्धिनी शिखा ज्वाला यदा महद् वृक्षादीन्धनमाश्लिष्यति| तदा सा ज्वाला वृद्धिं याति| यदा तु स्वल्पमिन्धनं प्राप्नोति तदा सा ज्वाला क्षयं याति| एवं धातु परम्परापि| तस्य इन्धनमाहारसारः| यत्र तु धात्वग्निमान्द्यादक्षपनात्स आहारसारः सन्ततं स्रोतःप्रवाहाननुप्रवेशेन वृद्धो भवति तत्र स धातुर्वृद्धिं याति एवं क्षयेऽपि विकल्प्य वाच्यम् धातुवृद्धिक्षयकारणेनेदमुच्यते - द्रव्यमित्यादि सर्वं द्रव्यं बाह्यमाभ्यन्तरेण तुल्यं सत् भृशमाशु च वृद्ध्यै जायते भ्रुशमत्यर्थमाशु शीघ्रमेव विशिष्टं विसदृशं क्षयाय जायते कुत आह-प्रत्यात्मबीजनियतत्वात् प्रतिस्वरूपं नियतकारणत्वादित्यर्थः तथा हि मांसमेव यथा मांसकारणं न तथान्यत् इदमपि धातुवृद्धिक्षयकारणमुच्यते||१६||
Adhikarana पूर्वधातुवृद्धिक्षयावुत्तरधातुवृद्धिक्षयकारणे (१७) · Śloka १७
पूर्वो धातुः परं कुर्याद्वृद्धः क्षीणश्च तद्विधमी||१७||
Show commentary शशिलेक व्याख्या (इन्दु कृत)
पूर्वमित्यादि यो धातुर्यस्मात् पूर्वः स वृद्धः सन् परमनन्तरं तथाविधमात्मसदृशं वृद्धमेव कुर्यादित्यर्थः एवं पूर्वं कारणान्तरेण क्षीयं उत्तरं तथाविधं क्षीणमेव करोति यतो धात्वाहारा हि धातव इत्युक्तम् इति दोषादीनां वृद्धिक्षयकारणमुक्तम्|
Adhikarana मलायनेषु रोगसंभवक्रमः (१८) · Śloka १८
दोषा दुष्टा रसैर्धातून् दूषयन्त्युभये मलानी अधो द्वे सप्त शिरसि खानि स्वेदवहानि च मला मलायनानि स्यर्यथास्वं तेष्वतो गदाः||१८||
Show commentary शशिलेक व्याख्या (इन्दु कृत)
ते च दोशादयो दुष्टारोगकरणतमेव यान्तीत्युच्यते- दोषा दुष्टा इत्यादि| दोषा वातादयो दुष्टा धातून् रसादीन् दूषयन्ति| ते तु दोषाः कथं दुष्यन्तीत्याह-रसैर्मधुरादिभिर्युक्तैरित्यर्थः|उभये दोषाश्च धातवश्च दुष्टा मलान् दूषयन्ति| ते च मला दुष्टा मलायनानि मलमार्गान् दूषयन्ति| कानि तानीत्याह-अधो द्वे इत्यादि| अधो द्वे गुदमेढ्रे| शिरसि सप्त| द्वौ कर्णौई द्वौ नासापुटौ| द्वे अक्षिणी| आस्यं चेति| यथा स्वेदवहानि सकलरोमकूपानि इति मलानां शकृदादीनामयनानि मर्गाः| अतः कारणाद्यातो दुष्टदोषदूषितमलानामाश्रयभूतानि मलायनान्यतस्तेषु यथास्वं गदाः स्युः| य एव मलो दुष्टस्तदयनस्यैव रोगोत्पत्तिरित्यर्थः||१८||
Adhikarana वातजरोगाः (१९) · Śloka १९
वक्ष्यन्ते वातजास्तत्र निदाने वातरौगिके||१९||
Show commentary शशिलेक व्याख्या (इन्दु कृत)
एते दोषादयो दुष्टा यतो रोगान् कुर्वन्ति अतस्तेशां दोषाणां विशिष्तस्थानाश्रयेण रोगा उच्यन्ते तत्र वातजा रोगा वातव्याधिनिदाने वक्ष्यन्ते|| १९||
Adhikarana पित्तजरोगाः (२०) · Śloka २०
पित्तं त्वचि स्थितं कुर्याद्विस्फोटकमसूरिकाः|
रक्तो विसर्पं दाहं च मांसे मांस्पाककोथनम्|
सदाहान्मेदसि ग्रन्थीन् स्वेदात्युद्वमनं तृषम्|
अस्थ्नि दाहं भृशं मज्जि हारिद्रनखनेत्रताम्|
पूतपीतावभासं च शुक्रं शुक्रसमाश्रितम्|
शिरागतं क्रोधनतां प्रलापं स्नावगं तृषम्|
कोष्ठगं मदतृडादाहान् व्यापिनोऽन्यांश्च यक्ष्मणः||२०||
Show commentary शशिलेक व्याख्या (इन्दु कृत)
पित्तमित्यादि सुभोधं मसूरिका मसूरवर्णप्रमाणाः पिटकाः कोथनं क्लेदः स्वेदस्यात्युद्वमनं बहिर्निर्गमनमी अस्थिस्थितं पित्तं भृशं देहे दाहं करोति व्यापिनोऽपि यक्ष्माणः सर्वशरीरचरा व्याधयो रक्तपित्तादयः||२०||
Adhikarana श्लेष्मज रोगाः (२१) · Śloka २१
श्लेष्मा त्वचि स्थितः कुर्यात्स्तम्भं श्वेतावभासताम्|
पण्ड्वामयं शोणितगो मांससंस्थोऽर्बुदापचीः|
आर्द्रचर्मावनद्धाभगात्रतां चातिगौरवम्|
मेदोगः स्थूलतां मेहमस्थ्नां स्तब्धत्वमस्थिगः|
मज्जगः शुक्लनेत्रत्वं शुक्रस्थः शुक्रसञ्चयम्|
विबन्धं गौरवं चाति सिरास्थः स्तब्धगात्रताम्|
स्नायुगः सन्धि शूलत्वं कोष्ठगो जठरोन्नतिम्|
अरोचकाविपाकौ च तांस्तांश्च कफसंभवान्||२१||
Show commentary शशिलेक व्याख्या (इन्दु कृत)
अनन्तरं श्लेष्मणो रोगकर्तृत्वमाश्रयविशेषेणाह- श्लेष्मा त्वचित्यादि| श्वेतावभासता श्वेतवर्ण दर्शित्वम्| मेदसि स्थितः स्थौल्यं प्रमेहं च करोति| अस्थिगतः स्वाश्रयाणामस्थ्नां स्तब्धत्वं करोति| शुक्रस्थितः शुक्रस्य सञ्चयं धारणेन बहुत्वं करोति| विबन्धो बहिष्प्रवृत्तिः| निरोधः शुक्रस्य| तस्यैवातिगुरुत्वं च करोति| कोष्ठगो जठरोन्नत्यादीन् करोतिई तांस्तान् कफजान् श्लेश्मज्वरश्लेष्मगुल्म कामलादीन् सर्वान् श्लेष्मोद्भवान् गदान् करोति||२१||
Adhikarana मलमूत्रगतदोषविकाराः (२२) · Śloka २२
विण्मूत्रयोः साश्रययोस्तत्र तत्रोपदेक्ष्यते उपतापोपघातौ तु स्वाश्रयेन्द्रियगामलाः||२२||
Show commentary शशिलेक व्याख्या (इन्दु कृत)
विशि पुरीषे मूत्रे च तयोश्चाश्रये स्थिता दोषा यत् कुर्वन्ति तत्तस्य तत्र मूत्राघातातिसारादावुपदेक्ष्यते एते च मला वातदयो यदा इन्द्रियं प्राप्नुवन्ति तदा तस्य मलोपतप्तस्येन्द्रियस्य चक्षुरादेर्य आश्रयः अक्ष्यादिस्तत्र स्वाश्रये उपतापं वोपघातं वा कुर्वन्ति स्वल्पत्वादुपतापमाधिक्यादुपघातमिति मलानामाश्रयभेदेने रोग-कर्तृत्वम्||२२||
Adhikarana दोषाणां कोष्ठाच्छाखादिगमनहेतुस्तथा शाखादिभ्यः कोष्ठगमनहेतुश्च (२३) · Śloka २३
व्यायामादूष्मणस्तैक्ष्ण्यादहिताचरणादपि कोष्ठाच्छाखास्थिमर्माणि द्रुतत्वान्मारुतस्य च दोषा यान्ति तथा तेभ्यः स्रोतोमुखविशोधनाती वृद्ध्याभिष्यन्दनात्पाकात्कोष्ठं वायोश्च निग्रहात्||२३||
Show commentary शशिलेक व्याख्या (इन्दु कृत)
ननु दोषाणां सकलशरीरव्यापित्वेऽपि कोष्ठाख्यः प्रधान आश्रयो यतस्तत्र बाहुल्येन तिष्ठन्ति एवं च सति कथं तेषां रक्ताद्याश्रयेणेन रोगकर्तृत्वमित्याह-व्यायामेत्यादि व्यायामादिभिः कारणैर्दोषाः कोष्ठं मुक्त्वा शाखादीनि यान्ति शाखा भिषक्शास्त्रप्रसिद्धा रक्तादयो धातवस्त्वक्च अस्थ्नां मर्माण्यस्थिमर्मांणि तत्र व्यायामेन शिथिलीभूतेषुस्रोतस्सु वायौ प्रेरक उदीर्णे तत्प्रेरिता दोषाः कोष्ठं मुक्त्वा शाखादीनि यान्तिई तथा ऊष्मणोऽग्नेस्तैक्ष्ण्यात् परित्यक्तनिबिडभावा विलिना इव सर्वतोऽभिसरन्ति एवमहितस्याहारादेराचरणादपि शाखादीनि यान्ति दोषस्य कोष्ठाख्यस्थानभ्रंशकरणस्वरूपापथ्यसेवनादितिई मारुतस्य वायोश्च कारणान्तरेण स्वभावेनैव वा द्रुतत्वाती वायोश्च वाय्वन्तरप्रेरणं दृष्टत्वान्नासम्बद्धमी ननु तत्र शाखादौ स्थितानां यदा कोष्ठानयनप्रयोजनं तदा कथमागच्छन्तीत्याह-तथा तेभ्यः इत्यादि तेभ्यः शाखादिभ्यः कोष्ठं दोषा यान्ती सम्बन्धः स्रोतोमुखानां शुद्ध्या दोषा कोष्ठं यान्ति तथा वृद्ध्या वर्द्धनेन योऽभिष्यन्दः स्रावः शाखादिभ्यः कोष्ठो शाखादिस्था दोषाः पाकात्परित्यक्तसन्धानाः कोष्ठं यान्ति प्रेरकस्य वायोर्निग्राहादाधिक्यनाशात्|| २३||
Adhikarana भूयोः हेतुप्रतीक्षिणः दोषाः (२४) · Śloka २४
तत्रस्थाश्च विलम्बेरन् भूयो हेतुप्रतीक्षिणः||२४||
Show commentary शशिलेक व्याख्या (इन्दु कृत)
ते च दोषास्तत्रस्थाः कोष्ठस्था हेतुप्रतीक्षिणः स्वयं विलम्बेरन् रोगान्न कुर्वन्तीत्यर्थःई तेनैतदुक्तं भवति-ये बहवः स्वरूपेणैव ते न सदृशं देशकालादिहेतुमपेक्षन्तेई अपि तु स्वयमेव रोगं कुर्वन्त्येव|| २४||
Adhikarana अन्याश्रयेष्वपि दोषाणां कालादिबलात्प्रकोपः (२५) · Śloka २५
ते कालादिबलं लब्ध्वा कुप्यन्त्यन्याश्रयेष्वपि||२५||
Show commentary शशिलेक व्याख्या (इन्दु कृत)
ये च हेतुप्रतीक्षिणः सन्तो विलम्बितास्ते भूयः समानात्कालादितो बलं लब्ध्वा कुप्यन्त्याश्रयेश्वपीत्यपिशब्दात् स्वाश्रयेऽपि| तत्र वायुह् कदाचित् स्वे यथोक्ते स्थाने कुप्यति| कदाचिच्छ्लेष्मणः पित्तस्य स्थाने वा एवं पित्तश्लेषनोरपि वाच्यम्||२५||
Adhikarana परस्थानगतदोषाणां चिकित्सासूत्रं (२६) · Śloka २६
तत्रान्यस्थानसंस्थेषु तदीयामबलेषु तु|
कुर्याच्चिकित्सां स्वामेव बलेनान्याभिभाविषु|
आगन्तुं शमयेद्दोषं स्थानिनं प्रतिकृत्य वा||२६||
Show commentary शशिलेक व्याख्या (इन्दु कृत)
तत्र तु या चिकित्सा तामाह- तत्रान्यस्थानसंस्थेष्वित्यादि| स्वस्थानस्थानाञ्चिकित्सा स्पष्टैव| परस्थान गतानां द्वैविध्यं| स्थानिनमपेक्ष्याऽऽगन्तोर्बलवत्वमबलवत्वञ्च| तत्रागन्तुष्वबलेषु तदीया चिकित्सा| तदीयेत्यनेनान्यशब्दोपलक्षितः स्थान्| परामृषते| यदा त्वागन्तवो बलेनान्यं स्थानिनमभिभवन्ति,तदा तेष्वागन्तुषु स्वामेव चिकित्सां कुर्यात्| यदा तु द्वयोः स्थानिन आगन्तोश्च समत्वं तदा प्रथमं स्थानिनिं प्रतिकृत्य पञ्चादागन्तुं शमयेत्| बलाबलानपेक्षया वा इति|| २६||
Adhikarana ओजोनिरूपणम् (२७) · Śloka २७
तेजो यत्सर्वधातूनामोजस्तत् परमुच्यते|
मृदु सोमात्मकं शुद्धं रक्तमीषत्सपीतकम्|
यत्सारमादौ गर्भस्य यच्च गर्भरसाद्रसः|
संवर्तमानं हृदयं समाश्रयति यत्पुरा|
यच्छरीररसस्नेहः प्राणो यत्र प्रतिष्ठितः|
यस्या नाशान्ननाशोऽस्ति प्रीणिता येन देहिनः|
हृदयस्थमपि व्यापि तत् परं जीवतास्पदम्||२७||
Show commentary शशिलेक व्याख्या (इन्दु कृत)
दोषाणां प्राकृतं वैकृतं च स्वरूपमुक्तमी ते च दोषाः समा अप्योजसा विहिनं देहं संवाहयितुमशक्ताः;अत ओजसः स्वरूपं पालनं चोच्यते-तेज इत्यादिई सर्वधातूनां यत्तेजस्तत् प्रधानं परमोजः शब्देनोच्यतेई अष्टबिन्दुकमित्यर्थःई तच्च मृद्वतीक्ष्णगुणमी सोमात्मकं सौम्यस्वरूपमी शुद्धमनुपहतमीषद्रक्तं स्तोकलोहितं सपीतकं चई यद् गर्भस्यादौ सारं सारमिव सारं न हि तेन विना शुक्रशोणिते जीवानुप्रवेशःई यच्च गर्भरसाद्रसः गर्भस्य योऽसौ रसः प्रथमो धातुः तस्मादपि सारः प्रसादभूतमी संवर्तमानं यच्च पुरा धातोर्देहे प्रवर्तमानं प्रथमं हृदयमाश्रयति, पश्चात् क्रमाद् देहव्याप्तिं च करोतिई यच्च शरीरसस्तस्य सस्नेहो यत्र प्राणो व्यापकोऽपि प्रतिष्ठितो बद्धःई यस्य त्वष्टबिन्द्वाख्यस्यानाशाद्देहस्य नाशो नास्तिई येन च हृदयस्थेन देहिनो विविधाः प्राणिनः प्रीणितास्तर्पिताः यच्च हृदयस्थमपि व्यापि तदोजोऽन्येभ्यो जीवितास्पदेभ्यः शिरःप्रभृतिभ्यः परं प्रधानं जीवितास्पदम्|| २७||
Adhikarana ओजःक्षयकारणानि (२८) · Śloka २८
ओजः क्षीयते कोपक्षुद्ध्यानशोकश्रमादिभिः||२८||
Show commentary शशिलेक व्याख्या (इन्दु कृत)
तच्चोजः कोपक्षुदादिभिरसौम्यैः क्षीयते|| २८||
Adhikarana ओजःक्षयलक्षणं तत्र भेषजञ्च, ओजोवृद्धिलक्षणम् (२९-३०) · Śloka ३०
बिभेति दुर्बलोऽभीक्ष्णं ध्यायाति व्यथितेन्द्रियः|
दुश्च्छायो दुर्मनो रुक्षो भवेत् क्षामश्च तत्क्षते \\\\\\\\ जीवनेयौषधक्षीररसाद्यास्तत्र भेषजम्||२९||
ओजोवृद्धौ हि देहस्य तुष्टिपुष्टिबलोदयः||३०||
Show commentary शशिलेक व्याख्या (इन्दु कृत)
तत्क्षये च देही बिभेति| अकारणाद् दौर्बल्यादियुक्तिश्च भवेत्| अभीक्ष्णमत्यर्थं ध्यायाति ध्यानपरो भवतीत्यर्थः| व्यथितेन्द्रियोऽशक्तेन्द्रियह्| दुष्च्छायो दुष्टकान्तिः| तत्रौजःक्षये भैषज्यमौषधं जीवनियौषधसिद्धक्षीरमांसरसाद्याः|आदिगृहणेन नानाविधाभ्यवहार्यपरिग्रहः ||२९|| एवंविधेन च भेषजेन ओजोवृद्धौ सत्यां च देहस्य शरीरस्य तुष्ट्याद्युद्भवः| तुष्टिर्मनःपरितोषः| पुष्टिरङ्गानां परिपोष इति|
Adhikarana दोषाणां वृद्धिक्षयजयोपायस्तत्रोपपत्तिश्च (३१) · Śloka ३१
यदन्नं द्वेष्टि यदापि प्रार्थयेताविरोधि तु|
तत्तत्त्यजन् समश्नंश्च तौ तौ वृद्धिक्षयौ जयेत्|
कुर्वतेऽभिरुचिं दोषा विपरीतसमानयोः|
वृद्धाः क्षीणाश्च भूयिष्ठं लक्षयन्त्यबुधा न तत्||३१||
Show commentary शशिलेक व्याख्या (इन्दु कृत)
ओजोसश्चिकित्साप्रसङ्गेन सर्वेषां दोषादीनां सामान्यरूपेण वैकारिकरूपविनाशार्थमाह-यदन्नमित्यादिई यदन्नमभ्यवहार्यं द्वेष्टि नाभिलषति तदन्नं त्यजन् दोषादेर्वृद्धिं जयेती यच्च प्रार्थयेताभिलषेत, तदश्नन् भुञ्जानः क्षयं दोषादेर्जयेती कुतः यतो दोषा वातादयो देहे वृद्धाः सन्तः स्वगुणैर्विपरीत आहारजाते भूयिष्ठं प्रायो रुचिमभिलाषं कुर्वते, त एव क्षीणः समानगुणेऽभिलाषमाहारे कुर्वतेई भूयिष्ठं प्रायोग एतच्च दोषस्वरूपमबुधाः स्वल्पप्रज्ञा भिषजो न लक्षयन्तिई यदयं दोषस्वरूपानुगतोऽभिलाषो यन्नेति|| ३१||
Adhikarana हीनाधिकसमानं दोषाणां कार्याणि (३२) · Śloka ३२
यथाबलं यथास्वं च दोषा वृद्धा वितन्वते|
रूपाणि जहति क्षीणाः समाः स्वं कर्म कुर्वते||३२||
Show commentary शशिलेक व्याख्या (इन्दु कृत)
न केवलमन्नरुचिरेव दोषाणां वृद्धिक्षयपरिज्ञानकारणं यावत्स्वरूपमपि एतत्प्रदर्शनार्थमाह-यथाबलमित्यादि| वृद्धा दोषा बलानतिक्रमेण आत्मानतिक्रमेण च स्वरूपाणि वितन्वते विस्तारयन्ति| य एव दोषो वृद्धः स एव स्वरूपाणि स्वस्य समानानि रूपाणि दर्शयतीति यथास्वशब्दस्यार्थः यथाबलमिति वृद्धेरवस्थाविशेषाद्रूपाणामपि विशेषः त एव दोषाः क्षीणाः सन्तस्तान्येव यथोक्तानि रूपाणि जहति त्यजन्ति| अत्रापि यथाबलं यथास्वमिति चानुवर्तते समास्तु यथोक्तं स्वमेव कर्म कुर्वते|| ३२||
Adhikarana दोषाणां क्षयदपि रक्षणीयत्वम् (३३-३४) · Śloka ३४
य एव देहस्य समा विवृद्ध्यै त एव दोषा विषमा वधाय|
यस्मादतस्ते हिताचर्ययैव क्षयाद्विवृद्धेरिव रक्षणीयाः||३३||
इति श्रीवैद्यपतिसिंहगुप्तस्य सूनोर्वाग्भटस्य कृतौ अष्टाङ्गसंग्रहसंहितायां सूत्रस्थाने दोषादिविज्ञानियो नामैकोनविंशोऽध्यायः||३४||
Show commentary शशिलेक व्याख्या (इन्दु कृत)
ते च दोषादयः क्षयात्तथा रक्षणीयाः, यथैव वृद्धे रक्ष्यन्तेई यस्माद्य एव दोषा वातादयः समाः सन्तो देहस्य वृद्ध्यै भवन्ति, त एव विषमा वधाय भवन्तिई वैषम्यं स्वरूपाद् वृद्धिः क्षयो वाई अतो वृद्धिहान्योः समानत्वात् क्षयाद् वृद्धेरिव रक्षणीयाः| इति श्रीमन्महामहोपाध्यायेन्दुविरचितायाम् अष्टाङ्गसंग्रहव्याख्यायां शशिलेखायां सूत्रस्थान एकोनविंशोऽध्यायः