Adhikarana 1 (1-2) · Śloka 2
अथात आमपक्वैषणीयमध्यायं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||
🔊 Audio coming soon
Adhikarana 1 (1-2) · Śloka 2
अथात आमपक्वैषणीयमध्यायं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||
🔊 Audio coming soon
Adhikarana 2 (3) · Śloka 3
शोफसमुत्थाना ग्रन्थिविद्रध्यलजीप्रभृतयः प्रायेण व्याधयोऽभिहिता अनेकाकृतयः, तैर्विलक्षणः पृथुर्ग्रथितः समो विषमो वा त्वङ्मांसस्थायी दोषसङ्घातः शरीरैकदेशोत्थितः शोफ इत्युच्यते ||३||
🔊 Audio coming soon
Adhikarana 3 (4) · Śloka 4
स षड्विधो वातपित्तकफशोणितसन्निपातागन्तुनिमित्तः | तस्य दोषरूपव्यञ्जनैर्लक्षणानि व्याख्यास्यामः | तत्र, वातशोफः कृष्णोऽरुणो वा परुषो मृदुरनवस्थितास्तोदादयश्चात्र वेदनाविशेषा भवन्ति; पित्तशोफः पीतो मृदुः सरक्तो वा शीघ्रानुसार्योषादयश्चात्र वेदनाविशेषा भवन्ति; श्लेष्मश्वयथुः पाण्डुः कठिनः स्निग्धः शीतो स्निग्धो मन्दानुसारी कण्ड्वादयश्चात्र वेदनाविशेषा भवन्ति; सर्ववर्णवेदनः सन्निपातश्वयथुः; पित्तवच्छोणितजोऽतिकृष्णश्च; पित्तरक्तलक्षण आगन्तुर्लोहितावभासश्च ||४||
🔊 Audio coming soon
Adhikarana 4 (5) · Śloka 5
स यदा बाह्याभ्यन्तरैः क्रियाविशेषैर्न सम्भावितः प्रशमयितुं क्रियाविपर्ययाद्बहुत्वाद्वा दोषाणां तदा पाकाभिमुखो भवति | तस्यामस्य पच्यमानस्य पक्वस्य च लक्षणमुच्यमानमुपधारय- | तत्र, मन्दोष्मता त्वक्सवर्णता शीतशोफता स्थैर्यं मन्दवेदनताऽल्पशोफता चामलक्षणमुद्दिष्टं; सूचिभिरिव निस्तुद्यते, दश्यत इव पिपीलिकाभिः, ताभिश्च संसर्प्यत इव, छिद्यत इव शस्त्रेण, भिद्यत इव शक्तिभिः, ताड्यत इव दण्डेन, पीड्यत इव पाणिना, घट्यत इव चाङ्गुल्या, दह्यते पच्यत इव चाग्निक्षाराभ्याम्, ओषचोषपरीदाहाश्च भवन्ति, वृश्चिकविद्ध इव च स्थानासनशयनेषु न शान्तिमुपैति, आध्मातबस्तिरिवाततश्च शोफो भवति , त्वग्वैवर्ण्यं शोफाभिवृद्धिर्ज्वरदाहपिपासा भक्तारुचिश्च पच्यमानलिङ्गं; वेदनोपशान्तिः पाण्डुताऽल्पशोफता वलीप्रादुर्भावस्त्वक्परिपुटनं निम्नदर्शनमङ्गुल्याऽवपीडिते प्रत्युन्नमनं, बस्ताविवोदकसञ्चरणं पूयस्य प्रपीडयत्येकमन्तमन्ते चावपीडिते, मुहुर्मुहुस्तोदः कण्डूरुन्नतता व्याधेरुपद्रवशान्तिर्भक्ताभिकाङ्क्षा च पक्वलिङ्गम् | कफजेषु तु रोगेषु गम्भीरगतित्वादभिघातजेषु वा केषुचिदसमस्तं पक्वलक्षणं दृष्ट्वा पक्वमपक्वमिति मन्यमानो भिषङ्मोहमुपैति; तत्र हि त्वक्सवर्णता शीतशोफता स्थैर्यमल्परुजताऽश्मवच्च घनता, न मोहमुपेयादिति ||५||
🔊 Audio coming soon
Adhikarana 5 (6) · Śloka 6
भवन्ति चात्र- आमं विपच्यमानं च सम्यक् पक्वं च यो भिषक् | जानीयात् स भवेद्वैद्यः शेषास्तस्करवृत्तयः ||६||
🔊 Audio coming soon
Adhikarana 6 (7-8) · Śloka 8
वातादृते नास्ति रुजा न पाकः पित्तादृते नास्ति कफाच्च पूयः | तस्मात् समस्तान् परिपाककाले पचन्ति शोफांस्त्रय एव दोषाः ||७|| कालान्तरेणाभ्युदितं तु पित्तं कृत्वा वशे वातकफौ प्रसह्य | पचत्यतः शोणितमेव पाको मतोऽपरेषां विदुषां द्वितीयः ||८||
🔊 Audio coming soon
Adhikarana 7 (9) · Śloka 9
तत्र, आमच्छेदे मांससिरास्नायुसन्ध्यस्थिव्यापादनमतिमात्रं शोणितातिप्रवृत्तिर्वेदनाप्रादुर्भावोऽवदरणमनेकोपद्रवदर्शनं क्षतविद्रधिर्वा भवति | स यदा भयमोहाभ्यां पक्वमप्यपक्वमिति मन्यमानश्चिरमुपेक्षते व्याधिं वैद्यस्तदा गम्भीरानुगतो द्वारमलभमानः पूयः स्वमाश्रयमवदार्योत्सङ्गं महान्तमवकाशं कृत्वा नाडीं जनयित्वा कृच्छ्रसाध्यो भवत्यसाध्यो वेति ||९||
🔊 Audio coming soon
Adhikarana 8 (10) · Śloka 10
भवति चात्र- यश्छिनत्त्याममज्ञानाद्यश्च पक्वमुपेक्षते | श्वपचाविव मन्तव्यौ तावनिश्चितकारिणौ ||१०||
🔊 Audio coming soon
Adhikarana 9 (11-13) · Śloka 13
प्राक् शस्त्रकर्मणश्चेष्टं भोजयेदातुरं भिषक् | मद्यपं पाययेन्मद्यं तीक्ष्णं यो वेदनाऽसहः ||११|| न मूर्च्छत्यन्नसंयोगान्मत्तः शस्त्रं न बुध्यते | तस्मादवश्यं भोक्तव्यं रोगेषूक्तेषु कर्मणि ||१२|| प्राणो ह्याभ्यन्तरो नॄणां बाह्यप्राणगुणान्वितः | धारयत्यविरोधेन शरीरं पाञ्चभौतिकम् ||१३||
🔊 Audio coming soon
Adhikarana 10 (14) · Śloka 14
अल्पो महान् वा क्रियया विना यः समुच्छ्रितः पाकमुपैति शोफः | विशालमूलो विषमं विदग्धः स कृच्छ्रतां यात्यवगाढदोषः ||१४||
🔊 Audio coming soon
Adhikarana 11 (15) · Śloka 15
आलेपविस्रावणाशोधनैस्तु सम्यक् प्रयुक्तैर्यदि नोपशाम्येत् | पच्येत शीघ्रं सममल्पमूलः स पिण्डितश्चोपरि चोन्नतः स्यात् ||१५||
🔊 Audio coming soon
Adhikarana 12 (16) · Śloka 16
कक्षं समासाद्य यथैव वह्निर्वाय्वीरितः सन्दहति प्रसह्य | तथैव पूयोऽप्यविनिःसृतो हि मांसं सिराः स्नायु च खादतीह ||१६||
🔊 Audio coming soon
Adhikarana 13 (17-18) · Śloka 18
आदौ विम्लापनं कुर्याद्द्वितीयमवसेचनम् | तृतीयमुपनाहं तु चतुर्थीं पाटनक्रियाम् ||१७|| पञ्चमं शोधनं कुर्यात् षष्ठं रोपणमिष्यते | एते क्रमा व्रणस्योक्ताः सप्तमं वैकृतापहम् ||१८||
🔊 Audio coming soon
Adhikarana puShpikA · Śloka 17
इति सुश्रुतसंहितायां सूत्रस्थाने आमपक्वैषणीयो नाम सप्तदशोऽध्यायः ||१७||
🔊 Audio coming soon