Skip to content
AYANAAYURVEDAby Dr Vijaya Dwarampudi
Open navigation
Explore AyurvedaBook appointment

45. dravadravyavidhyadhyāyaḥ

Adhikarana 1 (1-2) · Śloka 2

अथातो द्रवद्रव्यविधिमध्यायं व्याख्यास्यामः ||१|| यथोवाच भगवान् धन्वन्तरिः ||२||

🔊 Audio coming soon

Adhikarana 2 (3) · Śloka 3

पानीयमान्तरीक्षमनिर्देश्यरसममृतं जीवनं तर्पणं धारणमाश्वासजननं श्रमक्लमपिपासामदमूर्च्छातन्द्रानिद्रादाहप्रशमनमेकान्ततः पथ्यतमं च ||३||

🔊 Audio coming soon

Adhikarana 3 (4) · Śloka 4

तदेवावनिपतितमन्यतमं रसमुपलभते स्थानविशेषान्नदीनदसरस्तडागवापीकूपचुण्टीप्रस्रवणोद्भिदविकिरकेदारपल्वलादि षु स्थानेष्ववस्थितमिति ||४||

🔊 Audio coming soon

Adhikarana 4 (5) · Śloka 5

तत्र, ‘लोहितकपिलपाण्डुनीलपीतशुक्लेष्ववनिप्रदेशेषु मधुराम्ललवणकटुतिक्तकषायाणि यथासङ्ख्यमुदकानि सम्भवन्ति’ इत्येके भाषन्ते ||५||

🔊 Audio coming soon

Adhikarana 5 (6) · Śloka 6

तत्तु न सम्यक्; पृथिव्यादीनामन्योन्यानुप्रवेशकृतः सलिलरसो भवत्युत्कर्षापकर्षेण | तत्र, स्वलक्षणभूयिष्ठायां भूमावम्लं लवणं च; अम्बुगुणभूयिष्ठायां मधुरं; तेजोगुणभूयिष्ठायां कटुकं तिक्तं च; वायुगुणभूयिष्ठायां कषायम्; आकाशगुणभूयिष्ठायामव्यक्तरसम्, अव्यक्तं ह्याकाशमित्यतः; तत् प्रधानमव्यक्तरसत्वात्, तत्पेयमान्तरीक्षालाभे ||६||

🔊 Audio coming soon

Adhikarana 6 (7) · Śloka 7

तत्रान्तरीक्षं चतुर्विधम् | तद्यथा- धारं, कारं, तौषारं, हैममिति | तेषां धारं प्रधानं, लघुत्वात्; तत् पुनर्द्विविधं- गाङ्गं, सामुद्रं चेति | तत्र गाङ्गमाश्वयुजे मासि प्रायशो वर्षति | तयोर्द्वयोरपि परीक्षणं कुर्वीत- शाल्योदनपिण्डमकुथितमविदग्धं रजतभाजनोपहितं वर्षति देवे बहिष्कुर्वीत, स यदि मुहूर्तं स्थितस्तादृश एव भवति तदा गाङ्गं पततीत्यवगन्तव्यं; वर्णान्यत्वे सिक्थप्रक्लेदे च सामुद्रमिति विद्यात्, तन्नोपादेयम् | सामुद्रमप्याश्वयुजे मासि गृहीतं गाङ्गवद्भवति | गाङ्गं पुनः प्रधानं, तदुपाददीताश्वयुजे मासि | शुचिशुक्लविततपटैकदेशच्युतमथवा हर्म्यतलपरिभ्रष्टमन्यैर्वा शुचिभिर्भाजनैर्गृहीतं सौवर्णे राजते मृन्मये वा पात्रे निदध्यात् | तत् सर्वकालमुपयुञ्जीत, तस्यालाभे भौमम् | तच्चाकाशगुणबहुलम् | तत् पुनः सप्तविधम् | तद्यथा- कौपं, नादेयं, सारसं, ताडागं, प्रास्रवणम्, औद्भिदं, चौण्ट्यमिति ||७||

🔊 Audio coming soon

Adhikarana 7 (8) · Śloka 8

तत्र वर्षास्वान्तरिक्षमौद्भिदं वा सेवेत, महागुणत्वात्; शरदि सर्वं, प्रसन्नत्वात्; हेमन्ते सारसं ताडागं वा; वसन्ते कौपं प्रास्रवणं वा; ग्रीष्मेऽप्येवं; प्रावृषि चौण्ट्यमनभिवृष्टं सर्वं चेति ||८||

🔊 Audio coming soon

Adhikarana 8 (9-10) · Śloka 10

कीटमूत्रपुरीषाण्डशवकोथप्रदूषितम् | तृणपर्णोत्करयुतं कलुषं विषसंयुतम् ||९|| योऽवगाहेत वर्षासु पिबेद्वाऽपि नवं जलम् | स बाह्याभ्यन्तरान् रोगान् प्राप्नुयात् क्षिप्रमेव तु ||१०||

🔊 Audio coming soon

Adhikarana 9 (11) · Śloka 11

तत्र यत् पङ्कशैवलहठतृणपद्मपत्रप्रभृतिभिरवच्छन्नं रविशशिकिरणानिलैर्नाभिजुष्टं गन्धवर्णरसोपसृष्टं तद्व्यापन्नमिति विद्यात् | तस्य स्पर्शरूपरसगन्धवीर्यविपाकदोषाः षट् सम्भवन्ति | तत्र, खरता पैच्छिल्यमौष्ण्यं दन्तग्राहिता च स्पर्शदोषः, पङ्कसिकताशैवालबहुवर्णता रूपदोषः; व्यक्तरसता रसदोषः; अनिष्टगन्धता गन्धदोषः; यदुपयुक्तं तृष्णागौरवशूलकफप्रसेकानापादयति स विर्यदोषः; यदुपयुक्तं चिराद्विपच्यते विष्टम्भयति वा स विपाकदोष इति | त एते आन्तरिक्षे न सन्ति ||११||

🔊 Audio coming soon

Adhikarana 10 (12) · Śloka 12

व्यापन्नस्य चाग्निक्वथनं सूर्यातपप्रतापनं तप्तायःपिण्डसिकतालोष्ट्राणां वा निर्वापणं प्रसादनं च कर्तव्यं, नागचम्पकोत्पलपाटलापुष्पप्रभृतिभिश्चाधिवासनमिति ||१२||

🔊 Audio coming soon

Adhikarana 11 (13) · Śloka 13

सौवर्णे राजते ताम्रे कांस्ये मणिमयेऽपि वा | पुष्पावतंसं भौमे वा सुगन्धि सलिलं पिबेत् ||१३||

🔊 Audio coming soon

Adhikarana 12 (14-16) · Śloka 16

व्यापन्नं वर्जयेन्नित्यं तोयं यच्चाप्यनार्तवम् | दोषसञ्जननं ह्येतन्नाददीताहितं तु तत् ||१४|| व्यापन्नमुदकं यस्तु पिबतीहाप्रसादितम् | श्वयथुं पाण्डुरोगं च त्वग्दोषमविपाकताम् ||१५|| श्वासकासप्रतिश्यायशूलगुल्मोदराणि च | अन्यान्वा विषमान्रोगान्प्राप्नुयादचिरेण सः ||१६||

🔊 Audio coming soon

Adhikarana 13 (17) · Śloka 17

तत्र सप्त कलुषस्य प्रसादनानि भवन्ति | तद्यथा- कतकगोमेदकबिसग्रन्थिशैवालमूलवस्त्राणि मुक्तामणिश्चेति ||१७||

🔊 Audio coming soon

Adhikarana 14 (18) · Śloka 18

पञ्च निक्षेपणानि भवन्ति | तद्यथा- फलकं, त्र्यष्टकं, मुञ्जवलय, उदकमञ्चिका, शिक्यं चेति ||१८||

🔊 Audio coming soon

Adhikarana 15 (19) · Śloka 19

सप्त शीतीकरणानि भवन्ति; तद्यथा- प्रवातस्थापनम्, उदकप्रक्षेपणं, यष्टिकाभ्रामणं, व्यजनं, वस्त्रोद्धरणं, वालुकाप्रक्षेपणं, शिक्यावलम्बनं चेति ||१९||

🔊 Audio coming soon

Adhikarana 16 (20) · Śloka 20

निर्गन्धमव्यक्तरसं तृष्णाघ्नं शुचि शीतलम् | अच्छं लघु च हृद्यं च तोयं गुणवदुच्यते ||२०||

🔊 Audio coming soon

Adhikarana 17 (21) · Śloka 21

तत्र नद्यः पश्चिमाभिमुखाः पथ्याः, लघूदकत्वात्; पूर्वाभिमुखास्तु न प्रशस्यन्ते, गुरूदकत्वात्; दक्षिणाभिमुखा नातिदोषलाः, साधारणत्वात् | तत्र सह्यप्रभवाःकुष्ठं जनयन्ति, विन्ध्यप्रभवाः कुष्ठं पाण्डुरोगं च, मलयप्रभवाः कृमीन्, महेन्द्रप्रभवाः श्लीपदोदराणि, हिमवत्प्रभवा हृद्रोगश्वयथुशिरोरोगश्लीपदगलगण्डान्, प्राच्यावन्त्या अपरावन्त्याश्चार्शांस्युपजनयन्ति, पारियात्रप्रभवाः पथ्या बलारोग्यकर्य इति ||२१||

🔊 Audio coming soon

Adhikarana 18 (22) · Śloka 22

नद्यः शीघ्रवहा लघ्व्यः प्रोक्ता याश्चामलोदकाः | गुर्व्यः शैवालसञ्छन्नाः कलुषा मन्दगाश्च याः ||२२||

🔊 Audio coming soon

Adhikarana 19 (23) · Śloka 23

प्रायेण नद्यो मरुषु सतिक्ता लवणान्विताः | लघ्व्यः समधुराश्चैव पौरुषेया बले हिताः ||२३||

🔊 Audio coming soon

Adhikarana 20 (24) · Śloka 24

तत्र सर्वेषामेव भौमानां ग्रहणं प्रत्यूषसि, तत्र ह्यमलत्वं शैत्यं चाधिकं भवति, स एव चापां परो गुण इति ||२४||

🔊 Audio coming soon

Adhikarana 21 (25) · Śloka 25

दिवार्ककिरणैर्जुष्टं निशायामिन्दुरश्मिभिः | अरूक्षमनभिष्यन्दि तत्तुल्यं गगनाम्बुना ||२५||

🔊 Audio coming soon

Adhikarana 22 (26) · Śloka 26

गगनाम्बु त्रिदोषघ्नं गृहीतं यत् सुभाजने | बल्यं रसायनं मेध्यं पात्रापेक्षि ततः परम् ||२६||

🔊 Audio coming soon

Adhikarana 23 (27) · Śloka 27

रक्षोघ्नं शीतलं ह्लादि ज्वरदाहविषापहम् | चन्द्रकान्तोद्भवं वारि पित्तघ्नं विमलं स्मृतम् ||२७||

🔊 Audio coming soon

Adhikarana 24 (28) · Śloka 29

मूर्च्छापित्तोष्णदाहेषु विषे रक्ते मदात्यये | भ्रमक्लमपरीतेषु तमके वमथौ तथा ||२८|| ऊर्ध्वगे रक्तपित्ते च शीतमम्भः प्रशस्यते |२९|

🔊 Audio coming soon

Adhikarana 25 (29-30) · Śloka 30

पार्श्वशूले प्रतिश्याये वातरोगे गलग्रहे ||२९|| आध्माने स्तिमिते कोष्ठे सद्यःशुद्धे नवज्वरे | हिक्कायां स्नेहपीते च शीताम्बु परिवर्जयेत् ||३०||

🔊 Audio coming soon

Adhikarana 26 (31-36) · Śloka 37

नादेयं वातलं रूक्षं दीपनं लघु लेखनम् | तदभिष्यन्दि मधुरं सान्द्रं गुरु कफावहम् ||३१|| तृष्णाघ्नं सारसं बल्यं कषायं मधुरं लघु | ताडागं वातलं स्वादु कषायं कटुपाकि च ||३२|| वातश्लेष्महरं वाप्यं सक्षारं कटु पित्तलम् | सक्षारं पित्तलं कौपं श्लेष्मघ्नं दीपनं लघु ||३३|| चौण्ट्यमग्निकरं रूक्षं मधुरं कफकृन्न च | कफघ्नं दीपनं हृद्यं लघु प्रस्रवणोद्भवम् ||३४|| मधुरं पित्तशमनमविदाह्यौद्भिदं स्मृतम् | वैकिरं कटु सक्षारं श्लेष्मघ्नं लघु दीपनम् ||३५|| कैदारं मधुरं प्रोक्तं विपाके गुरु दोषलम् | तद्वत्पाल्वलमुद्दिष्टं विशेषाद्दोषलं तु तत् ||३६|| सामुद्रमुदकं विस्रं लवणं सर्वदोषकृत् |३७|

🔊 Audio coming soon

Adhikarana 27 (37-38) · Śloka 39

अनेकदोषमानूपं वार्यभिष्यन्दि गर्हितम् ||३७|| एभिर्दोषैरसंयुक्तं निरवद्यं तु जाङ्गलम् | पाकेऽविदाहि तृष्णाघ्नं प्रशस्तं प्रीतिवर्धनम् ||३८|| दीपनं स्वादु शीतं च तोयं साधारणं लघु |३९|

🔊 Audio coming soon

Adhikarana 28 (39) · Śloka 40

कफमेदोऽनिलामघ्नं दीपनं बस्तिशोधनम् ||३९|| श्वासकासज्वरहरं पथ्यमुष्णोदकं सदा |४०|

🔊 Audio coming soon

Adhikarana 29 (40) · Śloka 41

यत् क्वाथ्यमानं निर्वेगं निष्फेनं निर्मलं लघु ||४०|| चतुर्भागावशेषं तु तत्तोयं गुणवत् स्मृतम् |४१|

🔊 Audio coming soon

Adhikarana 30 (41) · Śloka 42

न च पर्युषितं देयं कदाचिद्वारि जानता ||४१|| अम्लीभूतं कफोत्क्लेदि न हितं तत् पिपासवे |४२|

🔊 Audio coming soon

Adhikarana 31 (42) · Śloka 43

मद्यपानात्समुद्भूते रोगे पित्तोत्थिते तथा ||४२|| सन्निपातसमुत्थे च शृतशीतं प्रशस्यते |४३|

🔊 Audio coming soon

Adhikarana 32 (43) · Śloka 44

स्निग्धं स्वादु हिमं हृद्यं दीपनं बस्तिशोधनम् ||४३|| वृष्यं पित्तपिपासाघ्नं नालिकेरोदकं गुरु |४४|

🔊 Audio coming soon

Adhikarana 33 (44) · Śloka 45

दाहातीसारपित्तासृङ्मूर्च्छामद्यविषार्तिषु ||४४|| शृतशीतं जलं शस्तं तृष्णाच्छर्दिभ्रमेषु च |४५|

🔊 Audio coming soon

Adhikarana 34 (45-46) · Śloka 46

अरोचके प्रतिश्याये प्रसेके श्वयथौ क्षये ||४५|| मन्देऽग्नावुदरे कुष्ठे ज्वरे नेत्रामये तथा | व्रणे च मधुमेहे च पानीयं मन्दमाचरेत् ||४६|| इति जलवर्गः |

🔊 Audio coming soon

Adhikarana 35 (47) · Śloka 47

अथ क्षीरवर्गः | गव्यमाजं तथा चौष्ट्रमाविकं माहिषं च यत् | अश्वायाश्चैव नार्याश्च करेणूनां च यत्पयः ||४७||

🔊 Audio coming soon

Adhikarana 36 (48) · Śloka 48

तत्त्वनेकौषधिरसप्रसादं प्राणदं गुरु | मधुरं पिच्छिलं शीतं स्निग्धं श्लक्ष्णं सरं मृदु | सर्वप्राणभृतां तस्मात् सात्म्यं क्षीरमिहोच्यते ||४८||

🔊 Audio coming soon

Adhikarana 37 (49) · Śloka 49

तत्र सर्वमेव क्षीरं प्राणिनामप्रतिषिद्धं जातिसात्म्यात्, वातपित्तशोणितमानसेष्वपि विकारेष्वविरुद्धं, जीर्णज्वरकासश्वासशोषक्षयगुल्मोन्मादोदरमूर्च्छाभ्रममददाहपिपासाहृद्बस्तिदोष- पाण्डुरोगग्रहणीदोषार्शःशूलोदावर्तातिसारप्रवाहिकायोनिरोगगर्भास्रावरक्तपित्तश्रमक्लमहरं, पाप्मापहं बल्यं वृष्यं वाजीकरणं रसायनं मेध्यं वयःस्थापनमायुष्यं जीवनं बृंहणं सन्धानं वमनविरेचनास्थापनं तुल्यगुणत्वाच्चौजसो वर्धनं बालवृद्धक्षतक्षीणानां क्षुद्व्यवायव्यायामकर्शितानां च पथ्यतमम् ||४९||

🔊 Audio coming soon

Adhikarana 38 (50) · Śloka 51

अल्पाभिष्यन्दि गोक्षीरं स्निग्धं गुरु रसायनम् | रक्तपित्तहरं शीतं मधुरं रसपाकयोः ||५०|| जीवनीयं तथा वातपित्तघ्नं परमं स्मृतम् |५१|

🔊 Audio coming soon

Adhikarana 39 (51-52) · Śloka 53

गव्यतुल्यगुणं त्वाजं विशेषाच्छोषिणां हितम् ||५१|| दीपनं लघु सङ्ग्राहि श्वासकासास्रपित्तनुत् | अजानामल्पकायत्वात् कटुतिक्तनिषेवणात् ||५२|| नात्यम्बुपानाद्व्यायामात् सर्वव्याधिहरं पयः |५३|

🔊 Audio coming soon

Adhikarana 40 (53) · Śloka 54

रूक्षोष्णं लवणं किञ्चिदौष्ट्रं स्वादुरसं लघु ||५३|| शोफगुल्मोदरार्शोघ्नं कृमिकुष्ठविषापहम् |५४|

🔊 Audio coming soon

Adhikarana 41 (54) · Śloka 55

आविकं मधुरं स्निग्धं गुरु पित्तकफावहम् ||५४|| पथ्यं केवलवातेषु कासे चानिलसम्भवे |५५|

🔊 Audio coming soon

Adhikarana 42 (55) · Śloka 56

महाभिष्यन्दि मधुरं माहिषं वह्निनाशनम् ||५५|| निद्राकरं शीततरं गव्यात् स्निग्धतरं गुरु |५६|

🔊 Audio coming soon

Adhikarana 43 (56) · Śloka 57

उष्णमैकशफं बल्यं शाखावातहरं पयः ||५६|| मधुराम्लरसं रूक्षं लवणानुरसं लघु |५७|

🔊 Audio coming soon

Adhikarana 44 (57) · Śloka 58

नार्यास्तु मधुरं स्तन्यं कषायानुरसं हिमम् ||५७|| नस्याश्च्योतनयोः पथ्यं जीवनं लघु दीपनम् |५८|

🔊 Audio coming soon

Adhikarana 45 (58) · Śloka 59

हस्तिन्या मधुरं वृष्यं कषायानुरसं गुरु ||५८|| स्निग्धं स्थैर्यकरं शीतं चक्षुष्यं बलवर्धनम् |५९|

🔊 Audio coming soon

Adhikarana 46 (59) · Śloka 60

प्रायः प्राभातिकं क्षीरं गुरु विष्टम्भि शीतलम् ||५९|| रात्र्याः सोमगुणत्वाच्च व्यायामाभावतस्तथा |६०|

🔊 Audio coming soon

Adhikarana 47 (60) · Śloka 61

दिवाकराभितप्तानां व्यायामानिलसेवनात् ||६०|| श्रमघ्नं वातनुच्चैव चक्षुष्यं चापराह्णिकम् |६१|

🔊 Audio coming soon

Adhikarana 48 (61) · Śloka 61

पयोऽभिष्यन्दि गुर्वामं प्रायशः परिकीर्तितम् ||६१||

🔊 Audio coming soon

Adhikarana 49 (62) · Śloka 62

तदेवोक्तं लघुतरमनभिष्यन्दि वै शृतम् |६२|

🔊 Audio coming soon

Adhikarana 50 (62) · Śloka 62

वर्जयित्वा स्त्रियाः स्तन्यमाममेव हि तद्धितम् ||६२||

🔊 Audio coming soon

Adhikarana 51 (63) · Śloka 63

धारोष्णं गुणवत् क्षीरं विपरीतमतोऽन्यथा |६३|

🔊 Audio coming soon

Adhikarana 52 (63) · Śloka 63

तदेवातिशृतं शीतं गुरु बृंहणमुच्यते ||६३||

🔊 Audio coming soon

Adhikarana 53 (64) · Śloka 64

अनिष्टगन्धमम्लं च विवर्णं विरसं च यत् | वर्ज्यं सलवणं क्षीरं यच्च विग्रथितं भवेत् ||६४|| इति क्षीरवर्गः |

🔊 Audio coming soon

Adhikarana 54 (65) · Śloka 65

अथ दधिवर्गः | दधि तु मधुरमम्लमत्यम्लं चेति; तत्कषायानुरसं स्निग्धमुष्णं पीनसविषमज्वरातिसारारोचकमूत्रकृच्छ्रकार्श्यापहं वृष्यं प्राणकरं मङ्गल्यं च ||६५||

🔊 Audio coming soon

Adhikarana 55 (66) · Śloka 66

महाभिष्यन्दि मधुरं कफमेदोविवर्धनम् | कफपित्तकृदम्लं स्यादत्यम्लं रक्तदूषणम् ||६६||

🔊 Audio coming soon

Adhikarana 56 (67) · Śloka 67

विदाहि सृष्टविण्मूत्रं मन्दजातं त्रिदोषकृत् |६७|

🔊 Audio coming soon

Adhikarana 57 (67) · Śloka 68

स्निग्धं विपाके मधुरं दीपनं बलवर्धनम् ||६७|| वातापहं पवित्रं च दधि गव्यं रुचिप्रदम् |६८|

🔊 Audio coming soon

Adhikarana 58 (68) · Śloka 69

दध्याजं कफपित्तघ्नं लघु वातक्षयापहम् ||६८|| दुर्नामश्वासकासेषु हितमग्नेश्च दीपनम् |६९|

🔊 Audio coming soon

Adhikarana 59 (69) · Śloka 70

विपाके मधुरं वृष्यं वातपित्तप्रसादनम् ||६९|| बलासवर्धनं स्निग्धं विशेषाद्दधि माहिषम् |७०|

🔊 Audio coming soon

Adhikarana 60 (70) · Śloka 71

विपाके कटु सक्षारं गुरु भेद्यौष्ट्रिकं दधि ||७०|| वातमर्शांसि कुष्ठानि कृमीन् हन्त्युदराणि च |७१|

🔊 Audio coming soon

Adhikarana 61 (71) · Śloka 72

कोपनं कफवातानां दुर्नाम्नां चाविकं दधि ||७१|| रसे पाके च मधुरमत्यभिष्यन्दि दोषलम् |७२|

🔊 Audio coming soon

Adhikarana 62 (72) · Śloka 73

दीपनीयमचक्षुष्यं वाडवं दधि वातलम् ||७२|| रूक्षमुष्णं कषायं च कफमूत्रापहं च तत् |७३|

🔊 Audio coming soon

Adhikarana 63 (73) · Śloka 74

स्निग्धं विपाके मधुरं बल्यं सन्तर्पणं गुरु ||७३|| चक्षुष्यमग्र्यं दोषघ्नं दधि नार्या गुणोत्तरम् |७४|

🔊 Audio coming soon

Adhikarana 64 (74) · Śloka 75

लघु पाके बलासघ्नं वीर्योष्णं पक्तिनाशनम् ||७४|| कषायानुरसं नाग्या दधि वर्चोविवर्धनम् |७५|

🔊 Audio coming soon

Adhikarana 65 (75) · Śloka 76

दधीन्युक्तानि यानीह गव्यादीनि पृथक् पृथक् ||७५|| विज्ञेयमेवं सर्वेषु गव्यमेव गुणोत्तरम् |७६|

🔊 Audio coming soon

Adhikarana 66 (76) · Śloka 77

वातघ्नं कफकृत् स्निग्धं बृंहणं नातिपित्तकृत् ||७६|| कुर्याद्भक्ताभिलाषं च दधि यत् सुपरिस्रुतम् |७७|

🔊 Audio coming soon

Adhikarana 67 (77) · Śloka 78

शृतात् क्षीरात्तु यज्जातं गुणवद्दधि तत् स्मृतम् ||७७|| वातपित्तहरं रुच्यं धात्वग्निबलवर्धनम् |७८|

🔊 Audio coming soon

Adhikarana 68 (78) · Śloka 79

दध्नः सरो गुरुर्वृष्यो विज्ञेयोऽनिलनाशनः ||७८|| वह्नेर्विधमनश्चापि कफशुक्रविवर्धनः |७९|

🔊 Audio coming soon

Adhikarana 69 (79) · Śloka 80

दधि त्वसारं रूक्षं च ग्राहि विष्टम्भि वातलम् ||७९|| दीपनीयं लघुतरं सकषायं रुचिप्रदम् |८०|

🔊 Audio coming soon

Adhikarana 70 (80) · Śloka 81

शरद्ग्रीष्मवसन्तेषु प्रायशो दधि गर्हितम् ||८०|| हेमन्ते शिशिरे चैव वर्षासु दधि शस्यते |८१|

🔊 Audio coming soon

Adhikarana 71 (81-83) · Śloka 83

तृष्णाक्लमहरं मस्तु लघु स्रोतोविशोधनम् ||८१|| अम्लं कषायं मधुरमवृष्यं कफवातनुत् | प्रह्लादनं प्रीणनं च भिनत्त्याशु मलं च तत् | बलमावहते क्षिप्रं भक्तच्छन्दं करोति च ||८२|| स्वाद्वम्लमत्यम्लकमन्दजातं तथा शृतक्षीरभवं सरश्च | असारमेवं दधि सप्तधाऽस्मिन् वर्गे स्मृता मस्तुगुणास्तथैव ||८३|| इति दधिवर्गः |

🔊 Audio coming soon

Adhikarana 72 (84) · Śloka 84

अथ तक्रवर्गः | तक्रं तु मधुरमम्लं कषायानुरसमुष्णवीर्यं लघुरूक्षमग्निदीपनं गरशोफातिसारग्रहणीपाण्डुरोगार्शःप्लीहगुल्मारोचकविषमज्वरतृष्णाच्छर्दिप्रसेकशूलभेदःश्लेष्मानिलहरं मधुरविपाकं हृद्यं मूत्रकृच्छ्रस्नेहव्यापत्प्रशमनमवृष्यं च ||८४||

🔊 Audio coming soon

Adhikarana 73 (85) · Śloka 85

मन्थनादिपृथग्भूतस्नेहमर्धोदकं च यत् | नातिसान्द्रद्रवं तक्रं स्वाद्वम्लं तुवरं रसे | यत्तु सस्नेहमजलं मथितं घोलमुच्यते ||८५||

🔊 Audio coming soon

Adhikarana 74 (86) · Śloka 86

नैव तक्रं क्षते दद्यान्नोष्णकाले न दुर्बले | न मूर्च्छाभ्रमदाहेषु न रोगे रक्तपैत्तिके ||८६||

🔊 Audio coming soon

Adhikarana 75 (87) · Śloka 87

शीतकालेऽग्निमान्द्ये च कफोत्थेष्वामयेषु च | मार्गावरोधे दुष्टे च वायौ तक्रं प्रशस्यते ||८७||

🔊 Audio coming soon

Adhikarana 76 (88) · Śloka 88

तत् पुनर्मधुरं श्लेष्मप्रकोपणं पित्तप्रशमनं च; अम्लं वातघ्नं पित्तकरं च ||८८||

🔊 Audio coming soon

Adhikarana 77 (89) · Śloka 89

वातेऽम्लं सैन्धवोपेतं, स्वादु पित्ते सशर्करम् | पिबेत्तक्रं कफे चापि व्योषक्षारसमन्वितम् ||८९||

🔊 Audio coming soon

Adhikarana 78 (90) · Śloka 90

ग्राहिणी वातला रूक्षा दुर्जरा तक्रकूर्चिका |९०|

🔊 Audio coming soon

Adhikarana 79 (90) · Śloka 90

तक्राल्लघुतरो मण्डः कूर्चिकादधितक्रजः ||९०||

🔊 Audio coming soon

Adhikarana 80 (91) · Śloka 91

गुरुः किलाटोऽनिलहा पुंस्त्वनिद्राप्रदः स्मृतः |९१|

🔊 Audio coming soon

Adhikarana 81 (91) · Śloka 91

मधुरौ बृंहणौ वृष्यौ तद्वत्पीयूषमोरटौ ||९१||

🔊 Audio coming soon

Adhikarana 82 (92) · Śloka 92

नवनीतं पुनः सद्यस्कं लघु सुकुमारं मधुरं कषायमीषदम्लं शीतलं मेध्यं दीपनं हृद्यं सङ्ग्राहि पित्तानिलहरं वृष्यमविदाहि क्षयकासव्रणशोषार्शोऽर्दितापहं, चिरोत्थितं गुरु कफमेदोविवर्धनं बलकरं बृंहणं शोषघ्नं विशेषेण बालानां प्रशस्यते ||९२||

🔊 Audio coming soon

Adhikarana 83 (93) · Śloka 93

क्षीरोत्थं पुनर्नवनीतमुत्कृष्टस्नेहमाधुर्यमतिशीतं सौकुमार्यकरं चक्षुष्यं सङ्ग्राहि रक्तपित्तनेत्ररोगहरं प्रसादनं च ||९३||

🔊 Audio coming soon

Adhikarana 84 (94) · Śloka 94

सन्तानिका पुनर्वातघ्नी तर्पणी वृष्या बल्या स्निग्धा रुच्या मधुरा मधुरविपाका रक्तपित्तप्रसादनी गुर्वी च ||९४||

🔊 Audio coming soon

Adhikarana 85 (95) · Śloka 95

विकल्प एष दध्यादिः श्रेष्ठो गव्योऽभिवर्णितः | विकल्पानवशिष्टांस्तु क्षीरवीर्यात्समादिशेत् ||९५|| इति तक्रवर्गः |

🔊 Audio coming soon

Adhikarana 86 (96) · Śloka 96

अथ घृतम् | घृतं तु मधुरं सौम्यं मृदु शीतवीर्यमनभिष्यन्दि स्नेहनमुदावर्तोन्मादापस्मारशूलज्वरानाहवातपित्तप्रशमनमग्निदीपनं स्मृतिमतिमेधाकान्तिस्वरलावण्यसौकुमार्यौजस्तेजोबलकरमायुष्यं वृष्यं मेध्यं वयःस्थापनं गुरु चक्षुष्यं श्लेष्माभिवर्धनं पाप्मालक्ष्मीप्रशमनं विषहरं रक्षोघ्नं च ||९६||

🔊 Audio coming soon

Adhikarana 87 (97) · Śloka 97

विपाके मधुरं शीतं वातपित्तविषापहम् | चक्षुष्यमग्र्यं बल्यं च गव्यं सर्पिर्गुणोत्तरम् ||९७||

🔊 Audio coming soon

Adhikarana 88 (98) · Śloka 98

आजं घृतं दीपनीयं चक्षुष्यं बलवर्धनम् | कासे श्वासे क्षये चापि पथ्यं पाके च तल्लघु ||९८||

🔊 Audio coming soon

Adhikarana 89 (99) · Śloka 99

मधुरं रक्तपित्तघ्नं गुरु पाके कफावहम् | वातपित्तप्रशमनं सुशीतं माहिषं घृतम् ||९९||

🔊 Audio coming soon

Adhikarana 90 (100) · Śloka 100

औष्ट्रं कटु घृतं पाके शोफक्रिमिविषापहम् | दीपनं कफवातघ्नं कुष्ठगुल्मोदरापहम् ||१००||

🔊 Audio coming soon

Adhikarana 91 (101) · Śloka 101

पाके लघ्वाविकं सर्पिर्न च पित्तप्रकोपणम् | कफेऽनिले योनिदोषे शोषे कम्पे च तद्धितम् ||१०१||

🔊 Audio coming soon

Adhikarana 92 (102) · Śloka 102

पाके लघूष्णवीर्यं च कषायं कफनाशनम् | दीपनं बद्धमूत्रं च विद्यादैकशफं घृतम् ||१०२||

🔊 Audio coming soon

Adhikarana 93 (103) · Śloka 103

चक्षुष्यमग्र्यं स्त्रीणां तु सर्पिः स्यादमृतोपमम् | वृद्धिं करोति देहाग्न्योर्लघुपाकं विषापहम् ||१०३||

🔊 Audio coming soon

Adhikarana 94 (104) · Śloka 104

कषायं बद्धविण्मूत्रं तिक्तमग्निकरं लघु | हन्ति कारेणवं सर्पिः कफकुष्ठविषक्रिमीन् ||१०४||

🔊 Audio coming soon

Adhikarana 95 (105) · Śloka 105

क्षीरघृतं पुनः सङ्ग्राहि रक्तपित्तभ्रममूर्च्छाप्रशमनं नेत्ररोगहितं च ||१०५||

🔊 Audio coming soon

Adhikarana 96 (106) · Śloka 106

सर्पिर्मण्डस्तु मधुरः सरो योनिश्रोत्राक्षिशिरसां शूलघ्नो बस्तिनस्याक्षिपूरणेषूपदिश्यते ||१०६||

🔊 Audio coming soon

Adhikarana 97 (107-111) · Śloka 111

सर्पिः पुराणं सरं कटुविपाकं त्रिदोषापहं मूर्च्छामदोन्मादोदरज्वरगरशोषापस्मारयोनिश्रोत्राक्षिशिर शूलघ्नं दीपनं बस्तिनस्यपूरणेषूपदिश्यते ||१०७|| भवति चात्र- पुराणं तिमिरश्वासपीनसज्वरकासनुत् | मूर्च्छाकुष्ठविषोन्मादग्रहापस्मारनाशनम् ||१०८|| (एकादशशतं चैव वत्सरानुषितं घृतम् | रक्षोघ्नं कुम्भसर्पिः स्यात् परतस्तु महाघृतम् ||१०९|| पेयं महाघृतं भूतैः कफघ्नं पवनाधिकैः | बल्यं पवित्रं मेध्यं च विशेषात्तिमिरापहम् ||११०|| सर्वभूतहरं चैव घृतमेतत् प्रशस्यते) ||१११|| इति घृतवर्गः |

🔊 Audio coming soon

Adhikarana 98 (112-113) · Śloka 113

अथ तैलानि | तैलं त्वाग्नेयमुष्णं तीक्ष्णं मधुरं मधुरविपाकं बृंहणं प्रीणनं व्यवायि सूक्ष्मं विशदं गुरु सरं विकासि वृष्यं त्वक्प्रसादनं मेधामार्दवमांसस्थैर्यवर्णबलकरं चक्षुष्यं बद्धमूत्रं लेखनं तिक्तकषायानुरसं पाचनमनिलबलासक्षयकरं क्रिमिघ्नमशितपित्तजननं योनिशिरःकर्णशूलप्रशमनं गर्भाशयशोधनं च, तथा छिन्नभिन्नविद्धोत्पिष्टच्युतमथितक्षतपिच्चितभग्नस्फुटितक्षाराग्निदग्धविश्लिष्टदारिता भिहतदुर्भग्नमृगव्यालविदष्टप्रभृतिषु च परिषेकाभ्यङ्गावगाहादिषु तिलतैलं प्रशस्यते ||११२|| तद्बस्तिषु च पानेषु नस्ये कर्णाक्षिपूरणे | अन्नपानविधौ चापि प्रयोज्यं वातशान्तये ||११३||

🔊 Audio coming soon

Adhikarana 99 (114) · Śloka 114

एरण्डतैलं मधुरमुष्णं तीक्ष्णं दीपनं कटु कषायानुरसं सूक्ष्मं स्रोतोविशोधनं त्वच्यं वृष्यं मधुरविपाकं वयःस्थापनं योनिशुक्रविशोधनमारोग्यमेधाकान्तिस्मृतिबलकरं वातकफहरमधोभागदोषहरं च ||११४||

🔊 Audio coming soon

Adhikarana 100 (115) · Śloka 115

निम्बातसीकुसुम्भमूलकजीमूतकवृक्षककृतवेधनार्ककम्पिल्लकहस्तिकर्णपृथ्वीकापीलु- करञ्जेङ्गुदीशिग्रुसर्षपसुवर्चलाविडङ्गज्योतिष्मतीफलतैलानि तीक्ष्णानि लघून्युष्णवीर्याणि कटूनि कटुविपाकानि सराण्यनिलकफकृमिकुष्ठप्रमेहशिरोरोगापहराणि चेति ||११५||

🔊 Audio coming soon

Adhikarana 101 (116-119) · Śloka 119

वातघ्नं मधुरं तेषु क्षौमं तैलं बलापहम् | कटुपाकमचक्षुष्यं स्निग्धोष्णं गुरुपित्तलम् ||११६|| कृमिघ्नं सार्षपं तैलं कण्डूकुष्ठापहं लघु | कफमेदोनिलहरं लेखनं कटु दीपनम् ||११७|| कृमिघ्नमिङ्गुदीतैलमीषत्तिक्तं तथा लघु | कुष्ठामयकृमिहरं दृष्टिशुक्रबलापहम् ||११८|| विपाके कटुकं तैलं कौसुम्भं सर्वदोषकृत् | रक्तपित्तकरं तीक्ष्णमचक्षुष्यं विदाहि च ||११९||

🔊 Audio coming soon

Adhikarana 102 (120) · Śloka 120

किराततिक्तकातिमुक्तकबिभीतकनालिकेरकोलाक्षोडजीवन्तीप्रियालकर्बुदार- सूर्यवल्लीत्रपुसैर्वारुककर्कारुकूष्माण्डप्रभृतीनां तैलानि मधुराणि मधुरविपाकानि वातपित्तप्रशमनानि शीतवीर्याण्यभिष्यन्दीनि सृष्टमूत्राण्यग्निसादनानि चेति ||१२०||

🔊 Audio coming soon

Adhikarana 103 (121) · Śloka 121

मधूककाश्मर्यपलाशतैलानि मधुरकषायाणि कफपित्तप्रशमनानि ||१२१||

🔊 Audio coming soon

Adhikarana 104 (122) · Śloka 122

तुवरकभल्लातकतैले उष्णे मधुरकषाये तिक्तानुरसे वातकफकुष्ठमेदोमेहकृमिप्रशमने उभयतोभागदोषहरे च ||१२२||

🔊 Audio coming soon

Adhikarana 105 (123) · Śloka 123

सरलदेवदारुशिंशपागुरुगण्डीरसारस्नेहास्तिक्तकटुकषाया दुष्टव्रणशोधनाः कृमिकफकुष्ठानिलहराश्च ||१२३||

🔊 Audio coming soon

Adhikarana 106 (124) · Śloka 124

तुम्बीकोशाम्रदन्तीद्रवन्तीश्यामासप्तलानीलिकाकम्पिल्लकशङ्खिनीस्नेहास्तिक्तकटुकषाया अधोभागदोषहराः कृमिकफकुष्ठानिलहरा दुष्टव्रणशोधनाश्च ||१२४||

🔊 Audio coming soon

Adhikarana 107 (125) · Śloka 125

यवतिक्तातैलं सर्वदोषप्रशमनमीषत्तिक्तमग्निदीपनं लेखनं मेध्यं पथ्यं च ||१२५||

🔊 Audio coming soon

Adhikarana 108 (126) · Śloka 126

एकैषिकातैलं मधुरमतिशीतं पित्तहरमनिलप्रकोपणं श्लेष्माभिवर्धनं च ||१२६||

🔊 Audio coming soon

Adhikarana 109 (127) · Śloka 127

सहकारतैलमीषत्तिक्तमतिसुगन्धि वातकफहरं रूक्षं मधुरकषायं रसवन्नातिपित्तकरं च ||१२७||

🔊 Audio coming soon

Adhikarana 110 (128) · Śloka 128

फलोद्भवानि तैलानि यान्युक्तानीह कानिचित् | गुणान् कर्म च विज्ञाय फलानीव विनिर्दिशेत् ||१२८||

🔊 Audio coming soon

Adhikarana 111 (129) · Śloka 129

यावन्तः स्थावराः स्नेहाः समासात्परिकीर्तिताः | सर्वे तैलगुणा ज्ञेयाः सर्वे चानिलनाशनाः ||१२९||

🔊 Audio coming soon

Adhikarana 112 (130) · Śloka 130

सर्वेभ्यस्त्विह तैलेभ्यस्तिलतैलं विशिष्यते | निष्पत्तेस्तद्गुणत्वाच्च तैलत्वमितरेष्वपि ||१३०||

🔊 Audio coming soon

Adhikarana 113 (131) · Śloka 131

ग्राम्यानूपौदकानां च वसामेदोमज्जानो गुरूष्णमधुरा वातघ्नाः, जाङ्गलैकशफक्रव्यादादीनां लघुशीतकषाया रक्तपित्तघ्नाः, प्रतुदविष्किराणां श्लेष्मघ्नाः | तत्र घृततैलवसामेदोमज्जानो यथोत्तरं गुरुविपाका वातहराश्च ||१३१|| इति तैलवर्गः |

🔊 Audio coming soon

Adhikarana 114 (132) · Śloka 132

अथ मधुवर्गः | मधु तु मधुरं कषायानुरसं रूक्षं शीतमग्निदीपनं वर्ण्यं स्वर्यं लघु सुकुमारं लेखनं हृद्यं वाजीकरणं सन्धानं शोधनं रोपणं(सङ्ग्राहि ) चक्षुष्यं प्रसादनं सूक्ष्ममार्गानुसारि पित्तश्लेष्ममेदोमेहहिक्काश्वासकासातिसारच्छर्दितृष्णाकृमिविषप्रशमनं ह्लादि त्रिदोषप्रशमनं च; तत्तु लघुत्वात् कफघ्नं, पैच्छिल्यान्माधुर्यात् कषायभावाच्च वातपित्तघ्नम् ||१३२||

🔊 Audio coming soon

Adhikarana 115 (133) · Śloka 133

पौत्तिकं भ्रामरं क्षौद्रं माक्षिकं छात्रमेव च | आर्घ्यमौद्दालकं दालमित्यष्टौ मधुजातयः ||१३३||

🔊 Audio coming soon

Adhikarana 116 (134-139) · Śloka 140

विशेषात्पौत्तिकं तेषु रूक्षोष्णं सविषान्वयात् | वातासृक्पित्तकृच्छेदि विदाहि मदकृन्मधु ||१३४|| पैच्छिल्यात् स्वादुभूयस्त्वाद्भ्रामरं गुरुसञ्ज्ञितम् | क्षौद्रं विशेषतो ज्ञेयं शीतलं लघु लेखनम् ||१३५|| तस्माल्लघुतरं रूक्षं माक्षिकं प्रवरं स्मृतम् | श्वासादिषु च रोगेषु प्रशस्तं तद्विशेषतः ||१३६|| स्वादुपाकं गुरु हिमं पिच्छिलं रक्तपित्तजित् | श्वित्रमेहकृमिघ्नं च विद्याच्छात्रं गुणोत्तरम् ||१३७|| आर्घ्यं मध्वतिचक्षुष्यं कफपित्तहरं परम् | कषायं कटु पाके च बल्यं तिक्तमवातकृत् ||१३८|| औद्दालकं रुचिकरं स्वर्यं कुष्ठविषापहम् | कषायमम्लमुष्णं च पित्तकृत् कटुपाकि च ||१३९|| छर्दिमेहप्रशमनं मधु रूक्षं दलोद्भवम् |१४०|

🔊 Audio coming soon

Adhikarana 117 (140) · Śloka 141

बृंहणीयं मधु नवं नातिश्लेष्महरं समम् ||१४०|| मेदःस्थौल्यापहं ग्राहि पुराणमतिलेखनम् |१४१|

🔊 Audio coming soon

Adhikarana 118 (141) · Śloka 141

दोषत्रयहरं पक्वमाममम्लं त्रिदोषकृत् ||१४१||

🔊 Audio coming soon

Adhikarana 119 (142) · Śloka 142

तद्युक्तं विविधैर्योगैर्निहन्यादामयान् बहून् | नानाद्रव्यात्मकत्वाच्च योगवाहि परं मधु ||१४२||

🔊 Audio coming soon

Adhikarana 120 (143-145) · Śloka 145

तत्तु नानाद्रव्यरसगुणवीर्यविपाकविरुद्धानां पुष्परसानां मक्षिकासम्भवत्वाच्चानुष्णोपचारम् ||१४३|| उष्णैर्विरुध्यते सर्वं विषान्वयतया मधु | उष्णार्तमुष्णैरुष्णे वा तन्निहन्ति यथा विषम् ||१४४|| तत्सौकुमार्याच्च तथैव शैत्यान्नानौषधीनां रससम्भवाच्च | उष्णैर्विरुध्येत विशेषतश्च तथाऽन्तरीक्षेण जलेन चापि ||१४५||

🔊 Audio coming soon

Adhikarana 121 (146) · Śloka 146

उष्णेन मधु संयुक्तं वमनेष्ववचारितम् | अपाकादनवस्थानान्न विरुध्येत पूर्ववत् ||१४६||

🔊 Audio coming soon

Adhikarana 122 (147) · Śloka 147

मध्वामात्परतस्त्वन्यदामं कष्टं न विद्यते | विरुद्धोपक्रमत्वात्तत् सर्वं हन्ति यथा विषम् ||१४७|| इति मधुवर्गः |

🔊 Audio coming soon

Adhikarana 123 (148-149) · Śloka 150

अथेक्षुवर्गः | इक्षवो मधुरा मधुरविपाका गुरवः शीताः स्निग्धा बल्या वृष्या मूत्रला रक्तपित्तप्रशमनाः कृमिकफकराश्चेति | ते चानेकविधाः | तद्यथा- ||१४८|| पौण्ड्रको भीरुकश्चैव वंशकः श्वेतपोरकः | कान्तारस्तापसेक्षुश्च काष्ठेक्षुः सूचिपत्रकः ||१४९|| नैपालो दीर्घपत्रश्च नीलपोरोऽथ कोशकृत् | इत्येता जातयः स्थौल्याद्, ... |१५०|

🔊 Audio coming soon

Adhikarana 124 (150-154) · Śloka 155

... गुणान् वक्ष्याम्यतः परम् ||१५०|| सुशीतो मधुरः स्निग्धो बृंहणः श्लेष्मलः सरः | अविदाही गुरुर्वृष्यः पौण्ड्रको भीरुकस्तथा ||१५१|| आभ्यां तुल्यगुणः किञ्चित्सक्षारो वंशको मतः | वंशवच्छ्वेतपोरस्तु किञ्चिदुष्णः स वातहा ||१५२|| कान्तारतापसाविक्षू वंशकानुगतौ मतौ | एवङ्गुणस्तु काष्ठेक्षुः स तु वातप्रकोपणः ||१५३|| सूचीपत्रो नीलपोरौ नैपालो दीर्घपत्रकः | वातलाः कफपित्तघ्नाः सकषाया विदाहिनः ||१५४|| कोशकारो गुरुः शीतो रक्तपित्तक्षयापहः |१५५|

🔊 Audio coming soon

Adhikarana 125 (155) · Śloka 156

अतीव मधुरो मूले मध्ये मधुर एव तु ||१५५|| अग्रेष्वक्षिषु विज्ञेय इक्षूणां लवणो रसः ||१५६||

🔊 Audio coming soon

Adhikarana 126 (157) · Śloka 157

अविदाही कफकरो वातपित्तनिवारणः | वक्त्रप्रह्लादनो वृष्यो दन्तनिष्पीडितो रसः ||१५७||

🔊 Audio coming soon

Adhikarana 127 (158) · Śloka 158

गुरुर्विदाही विष्टम्भी यान्त्रिकस्तु प्रकीर्तितः |१५८|

🔊 Audio coming soon

Adhikarana 128 (158) · Śloka 158

पक्वो गुरुः सरः स्निग्धः सतीक्ष्णः कफवातनुत् ||१५८||

🔊 Audio coming soon

Adhikarana 129 (159) · Śloka 159

फाणितं गुरु मधुरमभिष्यन्दि बृंहणमवृष्यं त्रिदोषकृच्च ||१५९||

🔊 Audio coming soon

Adhikarana 130 (160) · Śloka 160

गुडः सक्षारमधुरो नातिशीतः स्निग्धो मूत्ररक्तशोधनो नातिपित्तजिद्वातघ्नो मेदःकृमिकफकरो बल्यो वृष्यश्च ||१६०||

🔊 Audio coming soon

Adhikarana 131 (161) · Śloka 161

पित्तघ्नो मधुरः शुद्धो वातघ्नोऽसृक्प्रसादनः |१६१|

🔊 Audio coming soon

Adhikarana 132 (161) · Śloka 161

सपुराणोऽधिकगुणो गुडः पथ्यतमः स्मृतः ||१६१||

🔊 Audio coming soon

Adhikarana 133 (162) · Śloka 162

मत्स्यण्डिकाखण्डशर्करा विमलजाता उत्तरोत्तरं शीताः स्निग्धाः गुरुतरा मधुरतरा वृष्या रक्तपित्तप्रशमनास्तृष्णाप्रशमनाश्च ||१६२||

🔊 Audio coming soon

Adhikarana 134 (163) · Śloka 163

यथा यथैषां वैमल्यं मधुरत्वं तथा तथा | स्नेहगौरवशैत्यानि सरत्वं च तथा तथा ||१६३||

🔊 Audio coming soon

Adhikarana 135 (164) · Śloka 164

यो यो मत्स्यण्डिकाखण्डशर्कराणां स्वको गुणः | तेन तेनैव निर्देश्यस्तेषां विस्रावणो गुणः ||१६४||

🔊 Audio coming soon

Adhikarana 136 (165) · Śloka 165

सारस्थिता सुविमला निःक्षारा च यथा यथा | तथा गुणवती सर्वा विज्ञेया शर्करा बुधैः ||१६५||

🔊 Audio coming soon

Adhikarana 137 (166) · Śloka 166

मधुशर्करा पुनश्छर्द्यतीसारहरी रूक्षा छेदनी प्रसादनी कषायमधुरा मधुरविपाका च ||१६६||

🔊 Audio coming soon

Adhikarana 138 (167) · Śloka 167

यवासशर्करा मधुरकषाया तिक्तानुरसा श्लेष्महरी सरा चेति ||१६७||

🔊 Audio coming soon

Adhikarana 139 (168) · Śloka 168

यावत्यः शर्कराः प्रोक्ताः सर्वा दाहप्रणाशनाः | रक्तपित्तप्रशमनाश्छर्दिमूर्च्छातृषापहाः ||१६८||

🔊 Audio coming soon

Adhikarana 140 (169) · Śloka 169

रूक्षं मधूकपुष्पोत्थं फाणितं वातपित्तकृत् | कफघ्नं मधुरं पाके कषायं बस्तिदूषणम् ||१६९|| इतीक्षुवर्गः |

🔊 Audio coming soon

Adhikarana 141 (170) · Śloka 171

अथ मद्यवर्गः | सर्वं पित्तकरं मद्यमम्लं रोचनदीपनम् | भेदनं कफवातघ्नं हृद्यं बस्तिविशोधनम् ||१७०|| पाके लघु विदाह्युष्णं तीक्ष्णमिन्द्रियबोधनम् | विकासि सृष्टविण्मूत्रं... |१७१|

🔊 Audio coming soon

Adhikarana 142 (171-173) · Śloka 173

... शृणु तस्य विशेषणम् ||१७१|| मार्द्वीकमविदाहित्वान्मधुरान्वयतस्तथा | रक्तपित्तेऽपि सततं बुधैर्न प्रतिषिध्यते ||१७२|| मधुरं तद्धि रूक्षं च कषायानुरसं लघु | लघुपाकि सरं शोषविषमज्वरनाशनम् ||१७३||

🔊 Audio coming soon

Adhikarana 143 (174) · Śloka 175

मार्द्वीकाल्पान्तरं किञ्चित् खार्जूरं वातकोपनम् | तदेव विशदं रुच्यं कफघ्नं कर्शनं लघु ||१७४|| कषायमधुरं हृद्यं सुगन्धीन्द्रियबोधनम् |१७५|

🔊 Audio coming soon

Adhikarana 144 (175) · Śloka 176

कासार्शोग्रहणीदोषमूत्राघातानिलापहा ||१७५|| स्तन्यरक्तक्षयहिता सुरा बृंहणदीपनी |१७६|

🔊 Audio coming soon

Adhikarana 145 (176) · Śloka 177

कासार्शोग्रहणीश्वासप्रतिश्यायविनाशनी ||१७६|| श्वेता मूत्रकफस्तन्यरक्तमांसकरी सुरा |१७७|

🔊 Audio coming soon

Adhikarana 146 (177) · Śloka 178

छर्द्यरोचकहृत्कुक्षितोदशूलप्रमर्दनी ||१७७|| प्रसन्ना कफवातार्शोविबन्धानाहनाशनी |१७८|

🔊 Audio coming soon

Adhikarana 147 (178) · Śloka 179

पित्तलाऽल्पकफा रूक्षा यवैर्वातप्रकोपणी |१७८| विष्टम्भिनी सुरा गुर्वी... ||१७९||

🔊 Audio coming soon

Adhikarana 148 (178) · Śloka 178

... श्लेष्मलं तु मधूलकम् ||१७८||

🔊 Audio coming soon

Adhikarana 149 (179) · Śloka 179

रूक्षा नातिकफा वृष्या पाचनी चाक्षिकी स्मृता ||१७९||

🔊 Audio coming soon

Adhikarana 150 (180) · Śloka 180

त्रिदोषो भेद्यवृष्यश्च कोहलो वदनप्रियः |१८०|

🔊 Audio coming soon

Adhikarana 151 (180) · Śloka 181

ग्राह्युष्णो जगलः पक्ता रूक्षस्तृट्कफशोफकृत् ||१८०|| हृद्यः प्रवाहिकाटोपदुर्नामानिलशोषहृत् |१८१|

🔊 Audio coming soon

Adhikarana 152 (181) · Śloka 182

बक्कसो हृतसारत्वाद्विष्टम्भी वातकोपनः ||१८१|| दीपनः सृष्टविण्मूत्रो विशदोऽल्पमदो गुरुः |१८२|

🔊 Audio coming soon

Adhikarana 153 (182) · Śloka 182

कषायो मधुरः शीधुर्गौडः पाचनदीपनः ||१८२||

🔊 Audio coming soon

Adhikarana 154 (183) · Śloka 183

शार्करो मधुरो रुच्यो दीपनो बस्तिशोधनः | वातघ्नो मधुरः पाके हृद्य इन्द्रियबोधनः ||१८३||

🔊 Audio coming soon

Adhikarana 155 (184) · Śloka 184

तद्वत् पक्वरसः शीधुर्बलवर्णकरः सरः | शोफघ्नो दीपनो हृद्यो रुच्यः श्लेष्मार्शसां हितः ||१८४||

🔊 Audio coming soon

Adhikarana 156 (185) · Śloka 185

कर्शनः शीतरसिकः श्वयथूदरनाशनः | वर्णकृज्जरणः स्वर्यो विबन्धघ्नोऽर्शसां हितः ||१८५||

🔊 Audio coming soon

Adhikarana 157 (186) · Śloka 186

आक्षिकः पाण्डुरोगघ्नो व्रण्यः सङ्ग्राहको लघुः | कषायमधुरः सीधुः पित्तघ्नोऽसृक्प्रसादनः ||१८६||

🔊 Audio coming soon

Adhikarana 158 (187) · Śloka 187

जाम्बवो बद्धनिस्यन्दस्तुवरो वातकोपनः |१८७|

🔊 Audio coming soon

Adhikarana 159 (187) · Śloka 188

तीक्ष्णः सुरासवो हृद्यो मूत्रलः कफवातनुत् ||१८७|| मुखप्रियः स्थिरमदो विज्ञेयोऽनिलनाशनः |१८८|

🔊 Audio coming soon

Adhikarana 160 (188) · Śloka 189

लघुर्मध्वासवश्छेदी मेहकुष्ठविषापहः ||१८८|| तिक्तः कषायः शोफघ्नस्तीक्ष्णः स्वादुरवातकृत् |१८९|

🔊 Audio coming soon

Adhikarana 161 (189) · Śloka 190

तीक्ष्णः कषायो मदकृद्दुर्नामकफगुल्महृत् ||१८९|| कृमिमेदोनिलहरो मैरेयो मधुरो गुरुः |१९०|

🔊 Audio coming soon

Adhikarana 162 (190) · Śloka 190

बल्यः पित्तहरो वर्ण्यो हृद्यश्चेक्षुरसासवः ||१९०||

🔊 Audio coming soon

Adhikarana 163 (191) · Śloka 191

शीधुर्मधूकपुष्पोत्थो विहाह्यग्निबलप्रदः | रूक्षः कषायः कफहृद्वातपित्तप्रकोपणः ||१९१||

🔊 Audio coming soon

Adhikarana 164 (192) · Śloka 192

निर्दिशेद्रसतश्चान्यान् कन्दमूलफलासवान् |१९२|

🔊 Audio coming soon

Adhikarana 165 (192) · Śloka 193

नवं मद्यमभिष्यन्दि गुरु वातादिकोपनम् ||१९२|| अनिष्टगन्धि विरसमहृद्यं च विदाहि च |१९३|

🔊 Audio coming soon

Adhikarana 166 (193) · Śloka 194

सुगन्धि दीपनं हृद्यं रोचिष्णु कृमिनाशनम् ||१९३|| स्फुटस्रोतस्करं जीर्णं लघु वातकफापहम् |१९४|

🔊 Audio coming soon

Adhikarana 167 (194-195) · Śloka 196

अरिष्टो द्रव्यसंयोगसंस्कारादधिको गुणैः ||१९४|| बहुदोषहरश्चैव दोषाणां शमनश्च सः | दीपनः कफवातघ्नः सरः पित्ताविरोधनः ||१९५|| शूलाध्मानोदरप्लीहज्वराजीर्णार्शसां हितः |१९६|

🔊 Audio coming soon

Adhikarana 168 (196) · Śloka 196

पिप्पल्यादिकृतो गुल्मकफरोगहरः स्मृतः ||१९६||

🔊 Audio coming soon

Adhikarana 169 (197) · Śloka 197

चिकित्सितेषु वक्ष्यन्तेऽरिष्टा रोगहराः पृथक् |१९७|

🔊 Audio coming soon

Adhikarana 170 (197) · Śloka 198

अरिष्टासवशीधूनां गुणान् कर्माणि चादिशेत् ||१९७|| बुद्ध्या यथास्वं संस्कारमवेक्ष्य कुशलो भिषक् |१९८|

🔊 Audio coming soon

Adhikarana 171 (198-202) · Śloka 203

सान्द्रं विदाहि दुर्गन्धं विरसं कृमिलं गुरु ||१९८|| अहृद्यं तरुणं तीक्ष्णमुष्णं दुर्भाजनस्थितम् | अल्पौषधं पर्युषितमत्यच्छं पिच्छिलं च यत् ||१९९|| तद्वर्ज्यं सर्वथा मद्यं किञ्चिच्छेषं तु यद्भवेत् | तत्र यत् स्तोकसम्भारं तरुणं पिच्छिलं गुरु ||२००|| कफप्रकोपि तन्मद्यं दुर्जरं च विशेषतः | पित्तप्रकोपि बहलं तीक्ष्णमुष्णं विदाहि च ||२०१|| अहृद्यं पेलवं पूति कृमिलं विरसं च यत् | तथा पर्युषितं चापि विद्यादनिलकोपनम् ||२०२|| सर्वदोषैरुपेतं तु सर्वदोषप्रकोपणम् |२०३|

🔊 Audio coming soon

Adhikarana 172 (203) · Śloka 204

चिरस्थितं जातरसं दीपनं कफवातजित् ||२०३|| रुच्यं प्रसन्नं सुरभि मद्यं सेव्यं मदावहम् |२०४|

🔊 Audio coming soon

Adhikarana 173 (204-205) · Śloka 205

तस्यानेकप्रकारस्य मद्यस्य रसवीर्यतः ||२०४|| सौक्ष्म्यादौष्ण्याच्च तैक्ष्ण्याच्च विकासित्वाच्च वह्निना समेत्य हृदयं प्राप्य धमनीरूर्ध्वमागतम् | विचाल्येन्द्रियचेतांसि वीर्यं मदयतेऽचिरात् ||२०५||

🔊 Audio coming soon

Adhikarana 174 (206) · Śloka 206

चिरेण श्लैष्मिके पुंसि पानतो जायते मदः | अचिराद्वातिके दृष्टः, पैत्तिके शीघ्रमेव च ||२०६||

🔊 Audio coming soon

Adhikarana 175 (207-209) · Śloka 209

सात्त्विके शौचदाक्षिण्यहर्षमण्डनलालसः | गीताध्ययनसौभाग्यसुरतोत्साहकृन्मदः ||२०७|| राजसे दुःखशीलत्वमात्मत्यागं ससाहसम् | कलहं सानुबन्धं तु करोति पुरुषे मदः ||२०८|| अशौचनिद्रामात्सर्यागम्यागमनलोलताः | असत्यभाषणं चापि कुर्याद्धि तामसे मदः ||२०९||

🔊 Audio coming soon

Adhikarana 176 (210) · Śloka 211

रक्तपित्तकरं शुक्तं छेदनं भुक्तपाचनम् | वैस्वर्यं जरणं श्लेष्मपाण्डुक्रिमिहरं लघु ||२१०|| तीक्ष्णोष्णं मूत्रलं हृद्यं कफघ्नं कटुपाकि च |२११|

🔊 Audio coming soon

Adhikarana 177 (211) · Śloka 211

तद्वत्तदासुतं सर्वं रोचनं च विशेषतः ||२११||

🔊 Audio coming soon

Adhikarana 178 (212) · Śloka 212

गौडानि रसशुक्तानि मधुशुक्तानि यानि च | यथापूर्वं गुरुतराण्यभिष्यन्दकराणि च ||२१२||

🔊 Audio coming soon

Adhikarana 179 (213) · Śloka 213

तुषाम्बु दीपनं हृद्यं हृत्पाण्डुकृमिरोगनुत् | ग्रहण्यर्शोविकारघ्नं भेदि सौवीरकं तथा ||२१३||

🔊 Audio coming soon

Adhikarana 180 (214-216) · Śloka 216

धान्याम्लं धान्ययोनित्वाज्जीवनं दाहनाशनम् | स्पर्शात् पानात्तु पवनकफतृष्णाहरं लघु ||२१४|| तैक्ष्ण्याच्च निर्हरेदाशु कफं गण्डूषधारणात् | मुखवैरस्यदौर्गन्ध्यमलशोषक्लमापहम् ||२१५|| दीपनं जरणं भेदि हितमास्थापनेषु च | समुद्रमाश्रितानां च जनानां सात्म्यमुच्यते ||२१६|| इति मध्यवर्गः |

🔊 Audio coming soon

Adhikarana 181 (217-219) · Śloka 219

अथ मूत्राणि | मूत्राणि गोमहिष्यजाविगजहयखरोष्ट्राणां तीक्ष्णान्युष्णानि कटूनि तिक्तानि लवणानुरसानि लघूनि शोधनानि कफवातकृमिमेदोविषगुल्मार्शदरकुष्ठशोफारोचकपाण्डुरोगहराणि हृद्यानि दीपनानि च सामान्यतः ||२१७|| भवतश्चात्र- तत् सर्वं कटु तीक्ष्णोष्णं लवणानुरसं लघु | शोधनं कफवातघ्नं कृमिमेदोविषापहम् ||२१८|| अर्शोजठरगुल्मघ्नं शोफारोचकनाशनम् | पाण्डुरोगहरं भेदि हृद्यं दीपनपाचनम् ||२१९||

🔊 Audio coming soon

Adhikarana 182 (220-221) · Śloka 221

गोमूत्रं कटु तीक्ष्णोष्णं सक्षारत्वान्न वातलम् | लघ्वग्निदीपनं मेध्यं पित्तलं कफवातनुत् ||२२०|| शूलगुल्मोदरानाहविरेकास्थापनादिषु | मूत्रप्रयोगसाध्येषु गव्यं मूत्रं प्रयोजयेत् ||२२१||

🔊 Audio coming soon

Adhikarana 183 (222) · Śloka 222

दुर्नामोदरशूलेषु कुष्ठमेहाविशुद्धिषु | आनाहशोफगुल्मेषु पाण्डुरोगे च माहिषम् ||२२२||

🔊 Audio coming soon

Adhikarana 184 (223) · Śloka 223

कासश्वासापहं शोफकामलापाण्डुरोगनुत् | कटुतिक्तान्वितं छागमीषन्मारुतकोपनम् ||२२३||

🔊 Audio coming soon

Adhikarana 185 (224) · Śloka 224

कासप्लीहोदरश्वासशोषवर्चोग्रहे हितम् | सक्षारं तिक्तकटुकमुष्णं वातघ्नमाविकम् ||२२४||

🔊 Audio coming soon

Adhikarana 186 (225) · Śloka 225

दीपनं कटु तीक्ष्णोष्णं वातचेतोविकारनुत् | आश्वं कफहरं मूत्रं कृमिदद्रुषु शस्यते ||२२५||

🔊 Audio coming soon

Adhikarana 187 (226) · Śloka 226

सतिक्तं लवणं भेदि वातघ्नं पित्तकोपनम् | तीक्ष्णं क्षारे किलासे च नागं मूत्रं प्रयोजयेत् ||२२६||

🔊 Audio coming soon

Adhikarana 188 (227) · Śloka 227

गरचेतोविकारघ्नं तीक्ष्णं ग्रहणिरोगनुत् | दीपनं गार्दभं मूत्रं कृमिवातकफापहम् ||२२७||

🔊 Audio coming soon

Adhikarana 189 (228) · Śloka 228

शोफकुष्ठोदरोन्मादमारुतक्रिमिनाशनम् | अर्शोघ्नं कारभं मूत्रं... |२२८|

🔊 Audio coming soon

Adhikarana 190 (228) · Śloka 228

... मानुषं च विषापहम् ||२२८||

🔊 Audio coming soon

Adhikarana 191 (229) · Śloka 229

द्रवद्रव्याणि सर्वाणि समासात् कीर्तितानि तु | कालदेशविभागज्ञो नृपतेर्दातुमर्हति ||२२९||

🔊 Audio coming soon

Adhikarana puShpikA · Śloka 45

इति सुश्रुतसंहितायां सूत्रस्थाने द्रवद्रव्यविज्ञानीयो नाम पञ्चचत्वारिंशोऽध्यायः ||४५||

🔊 Audio coming soon